Monday, March 16, 2020

ब्ला ब्ला ब्लेति


ब्ला ब्ला ब्लेति


ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे
भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने ।
सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने       
शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥
-----

No comments:

Post a Comment