क्रिकेटोपाख्यानम्
सूतं
पुराणिकं
विज्ञं
पप्रच्छुस्तापसा
वने
।
अस्माभिर्भारते
देशे
कथाश्रवणवञ्चिताः ।
क्रिकेटखेलां
रुचिरां खेलिष्यन्तीति वै श्रुतम् ।
केयं
खेला
कथं
मर्त्याः
खेलिष्यन्ति
युगे
कलौ ॥ १-२ ॥
कृपयाऽचक्ष्व
सर्वज्ञ
परं
कौतूहलं
हि
नः
।
उवाच
सूतः
प्रहसन्
मुनयः
शृणुतोत्सुकाः ॥ ३ ॥
संग्रहेणैव
वक्ष्यामि
न
शक्यं
विस्तृतेरितम्
।
गणौ खेलत अन्योन्यं
जिगीषू सौहृदान्वितौ ॥ ४ ॥
गणे तत्रान्यतरस्मिन्सन्त्यैकादशखेलकाः
।
खेलनोपस्करा दण्डो
विकेटः
कन्दुकस्त्रयः॥ ५ ॥
लम्बदण्डत्रयं
स्निग्धं
स्टम्पनाम्नेरितं
बुधैः ।
बेलौ
सूक्ष्मौ दारुकृतौ
स्टम्पस्योपरि
तिष्ठतः ।
बेलस्टम्पसमाहारो
विकेट इति
कीर्तितः ॥ ६ ॥
गणे केचित् ताडकाश्च
क्षेपकाश्चापरे सदा ।
विकेटरक्षकश्चैव
सर्वे दक्षाश्च धावने ॥ ७ ॥
गणस्यान्यतरस्यैकः
खेलको गणनायकः ।
काप्टनाह्वो
वर्तते यो दक्षः क्रीडाविचक्षणः ॥ ८ ॥
क्रिकेटक्षेत्रविस्तारः
यार्डानां
पञ्चषष्ठितः ।
भवेन्नवतिपर्यन्तं
मध्ये रोपितशाद्वलः ।
चतुरस्रो खेलनार्थं
स्थितः पिच
इतीरितः ॥ ९-१० ॥
पिचे विकेटौ हरिते
स्थाप्येतेऽन्योन्यसंमुखौ ।
यार्डानां द्वाविंशतिः
स्यादनयोरन्तरं सदा ॥ ११ ॥
यदा प्रारभते क्रीडा
गणस्यैकस्य ताडकौ ।
विकेटौ समया स्यातां
खेलका अपरस्य तु ।
तिष्ठन्ति खेलनक्षेत्रे
एकैकं नियतस्थले ॥ १२ ॥
विकेटरक्षकस्तिष्ठेत्
ताडकस्यैव पृष्ठतः ।
पश्चाद्विकेटस्य
यथा गृह्यते चलकन्दुकः ॥ १३ ॥
विकेटं
पालयन्
दण्डधरे
तिष्ठति
ताडके
।
क्षेपकोऽन्यगणस्यान्यविकेटात्
कन्दुकं
क्षिपन्
।
उत्पतत्कन्दुकाघातात्
विकेटं पातयेत् द्रुतम् ।
पतेद्यदि
विकेटस्तु
निष्क्रमेत स
ताडकः
॥ १४-१५ ॥
ताडकस्तु
स्वदण्डेन
ताडयत्यञ्जसा
तथा
।
कन्दुकं
स
यथा
दूरं
प्लवन्
भूमौ
चलन्
व्रजेत्
॥ १६ ॥
विकेटं
च
सुसंरक्ष्य
कन्दुकं ताडयेद्यदि
।
खेलकोऽरिगणात्कश्चित्
धावन् गृह्णाति
कन्दुकम् ।
विकेटलक्ष्यमुद्दिश्य
द्राक्
तं
क्षिपति धावकः
॥ १७॥
अत्रान्तरे
ताडकौ
तौ
विकेटमपरं
प्रति
।
गतागतं धावतो द्राक्
यावन्नायाति कन्दुकः ।
गतागतानां गणनाद्धावनाङ्को विगण्यते॥ १८ ॥
डयमानः
कन्दुकश्चेत्
धावकेन विगृह्यते ।
धरण्यां
पतनात्पूर्वं
निष्क्रमेत स
ताडकः
॥ १९ ॥
धावत्यतीत्य
सीमानं
तरसा
यदि
कन्दुकः
।
चत्वारो
धावनाङ्कास्तु
गण्यन्ते
ताडकार्जिताः ॥ २० ॥
प्लवेदतीत्य
सीमानं
कन्दुको
यदि
ताडितः
।
षडङ्कानर्जयत्याशु
ताडकः
संस्तुतो
जनैः
॥ २१ ॥
भवेन्निष्क्रमणं
साध्यं दशधा ताडकस्य हि ।
तेषां
विवरणं
नात्र
क्रियते
कार्यगौरवात् ॥ २२ ॥
षड्कृत्व एवं क्षिपति
क्षेपकः कन्दुकं दृढम् ।
षट्कृत्वः क्षेपणं
ह्येवं निर्वर्तनमितीरितम् ।
पर्यायेण विकेटाभ्यां
भवेन्निर्वर्तनं सदा ॥ २३ ॥
गणस्य
प्रविशत्यन्यः निष्क्राम्येद्यदि
ताडकः ।
एवमेकैकशः
स्वाङकान्लभन्ते
गणखेलकाः ।
आहत्याङ्कान् खेलकानां
गणाङ्क उपलभ्यते ॥ २४
॥
योऽद्यावधि गणो
क्षेत्रपालने क्षेपणे रतः ।
स
इदानीं
ताडनेऽथ धावने
सक्रियो
भवेत् ॥ २५ ॥
लभन्त उक्तरीत्यैव
स्वाङ्कान्श्च गणखेलकाः ।
गणौ खेलत अन्योऽन्यं
विपरीतक्रियारतौ ॥ २६ ॥
क्रीडायां खेलनावर्तः
इनिङ्ग इति कथ्यते ।
यद्गणस्य
भवत्यङ्कः
ज्यायान्
जयति
तद्गणः ॥ २७ ॥
प्रायेण त्रिविधा
प्रोक्ताः क्रिकेटक्रीडने बुधैः ।
यदा द्वयमिनिङ्गाणां
गणाभ्यां खेल्यते तदा ॥
क्रीडानिकष इत्युक्तां
टेस्ट-माचित्युदाहृताम्
।
चतुर्वा पञ्चदिवसान्
खेलन्ति युवखेलकाः ॥ २८-२९॥
इनिङ्गे निर्वर्तनानामस्ति
पञ्चाशदेव चेत् ।
एकस्मिन्नेव दिवसे
पूर्णतां याति खेलनम् ॥ ३० ॥
निर्वर्तनानां संख्या
चेदिनिङ्गे विंशतिस्तदा ।
त्रिष्वेव घटिकानां
हि क्रीडा याति समापनम् ॥ ३१ ॥
क्रीडाप्रयोगो निर्दिष्टः
स्थूलरूपेण साम्प्रतम् ।
भवतां लघुबोधार्थमौत्सुक्यशमनाय
च ॥ ३२ ॥
कन्दुकक्षेपणं कर्मासरलं
चातिसङ्कुलम् ।
तत्र प्रवीणतां
प्राप्तुं दुश्शक्यं चतुरैरपि ॥ ३३ ॥
शीघ्रप्रतिक्रियाशीला
दृढकाया मनोजवाः ।
एकाग्रमनसो लक्ष्ये
स्निग्धा खेलकसंश्रये ।
धनं यशश्च विपुलं
लभन्ते खेलका: कलौ ॥ ३४ ॥
जनिष्यन्ति भवन्तो
चेत् भारतेऽस्मिन् कलौ युगे ।
दिष्ट्या क्रिकेटं
शृण्वन्तः पश्यन्तः दूरदर्शके ।
कदाचित् क्रीडयन्तश्च
चिरं सुखमवाप्स्यथ ॥ ३५ ॥
घूर्णत्कन्दुकमत्र
पश्यत करात्क्षिप्तं बिषेन्बेडिनः ।
अत्राहो गगने प्लवन्तमपरं
टेण्डुल्करेणोच्छ्रितम् ।
गृह्णात्यत्र कृताञ्जलिर्वरकपिल्देवो
भ्रमत्कन्दुकम् ।
राहुल्-द्राविडमत्र पश्यत जनैः संस्तूयमानं मुदा ॥ ३६ ॥
निमीलिताक्षं गायन्तमसम्बद्धं
पुराणिकम् ।
पश्यन्तः प्राहसन्
सर्वे मुनिवर्या मुहुर्मुहुः ॥ ३७ ॥
नेत्रे निमील्य
सहसा क्रोधपर्याकुलेक्षणः ।
शशाप सूतः शृण्वत्सु
मुनिष्वेवं तपोवने ॥ ३८ ॥
क्रीडां कथयतो चित्तं
तस्यां मग्नभून्मम ।
अद्राक्षं तानि
दृश्यानि भविष्यन्ति सकौतुकम् ॥ ३९ ॥
प्रत्याख्यातोऽस्मि
मुनयो भवद्भिर्मुनिपुङ्गवैः ।
इदं क्रिकेटोपाख्यानं
कलौ नष्टं भविष्यति ।
न स्मरन्ति जना
हन्त मयैतत् समुदीरितम् ॥ ४० ॥
तत्र कश्चिन्मुनिश्रेष्ठः
पश्चात्तापेन यन्त्रितः ।
सूतं पुराणिकं नम्र
उवाच वदतां वरम् ॥ ४१ ॥
क्षमस्वास्मान्
मुनिश्रेष्ठ न कश्चिन्नापहास्यते ।
इदं श्रेष्ठमुपाख्यानं
यदि नष्टं भवेदहो ॥
न शृण्वन्त इदं
मर्त्या भविष्यन्ति निरुत्सुकाः ।
अतोऽहं प्रार्थये
प्राज्ञं भवेत् शापविमोचनम् ॥ ४२-४३ ॥
तथास्त्विदमुपाख्यानं द्वितीयजनिमेष्यति ।
यः कश्चित्पण्डितंमन्यः
कलौ हैमवती तटे ।
जनिं प्राप्य क्रिकेटस्य
न स्पृशन् दण्डकन्दुकौ ।
अप्यैकवारं रचयेदुपाख्यानमतन्द्रितः
॥ ४४-४५ ॥
यद्वर्तमानमधुना
शापं चास्य विमोचनम् ।
लेखिष्यति यथावत्सः
मदाशीर्भिःप्रचोदितः ॥ ४६ ॥
क्रिकेटोपाख्यानमिदं
व्याहृतं प्रथमं मया ।
ये शृण्वन्ति पठन्त्यन्यैः
पाठयन्ति लिखन्ति च ।
तेषां निःसंशयं वासः स्यात्क्रिकेटत्रिविष्टपे ॥ ४७ ॥
एवं पुराणिको सूतो
व्याहृत्य मुनिमण्डले ।
आपृच्छ्य तापसान्
सर्वान् जगाम स्वाश्रमं वशी ॥ ४८ ॥
|| इति क्रिकेटोपाख्यानं
समाप्तम् ||