चन्द्रिका-४८
नवयौवनशोभिनीः स्त्रियः
मणिरत्नाभरणैर्विभूषिताः ।
विचरन्तीः सविलासमुत्सुकाः
नृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥
चपलामिव योषितां गणे
स्फुरदाह्लादकरूपशालिनीम् ।
दरहासविलासमोहिनीं
कमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥
स्मरसायकलक्ष्यतां गतः
स शनैरायतलोचनोऽभ्यगात्
।
स्मयमानमुखः प्रसन्नधीः
अबलां वेपथुमूर्तमानिनीम्
॥ १८१ ॥
भयकारणमस्ति नात्र ते
ललने त्वत्सुहृदित्यवेहि माम् ।
मम मानसराज्ञि देहि मे
तव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥- - - -