हास्यसीकरः-१००
काचन कार्-यानचालिका राजपथे आरक्षकेण अवरुद्धा । अवरोधकारणं
पृष्टः आरक्षकः प्रत्यवदत्, “आर्ये! अनुज्ञातवेगमतिक्रम्य वाहनं त्वया चालितम् । कृपया
दर्शय तव चालनानुज्ञापत्रम् । स्त्री प्रत्यवदत्, “आर्य! मम अनुज्ञापत्रं नास्ति ।
त्रिवारं मदिरापानमत्ता कार्-यानचालनमकरवमिति कारणात् आरक्षकैः तत् स्वायत्तीकृतम्”।
चकितः आरक्षकः अपृच्छत्,”आर्ये! कृपया वाहनस्य पञ्जीसंख्यापत्रं दर्शय” इति । स्त्री
प्रत्यवदत्, “तन्नास्ति, अहं इदं कारयानमपाहरम् “।
आरक्षकः,”अपाहरः?”
स्त्री, “बाढम्, न केवलं कार्-यानमपाहरं, तस्य स्वामिनं
हत्वा तस्य कायं खण्डशः निकर्त्य कार्-यानस्य सामग्रीकोष्ठे न्यवेशयम्”
आरक्षकः नितरां भ्रान्तः स्वनियामकेन सह दूरवाण्या
समलपत् साहाय्यं प्रार्थयच्च । क्षणात् नियामकः कतिभिश्चन आरक्षकैः सह तत्र वाहने आगच्छत्
। तां स्त्रियं स्वगुलिकास्त्रस्य लक्ष्यं कृत्वा अवदत्,”कृपया यानादवातर”।स्त्री अवातरत्
अपृच्छच्च,”आर्य, किमापतितम्?” नियामकः,” आर्ये! मम आरक्षकः वदति,”त्वं, कार्-यानमपहृत्य
तस्य स्वामिनमहन्” इति । दिग्भ्रान्ता इव स्त्री अवदत्, “किं?किं? अहमहनम्? “ इति।
नियामकः अवदत्, “कार्-यानस्य सामग्रीकोष्ठम् अपावृणु” इति । स्त्री सामग्री-कोष्ठम्
अपावृणोत् । सामग्री कोष्ठे न किञ्चिदपि वस्तु अवर्तत ।
नियामकः, “कच्चिदिदं तव यानम्?”
स्त्री, “आर्य! निःसंशयम्” ।
“तर्हि तव
यानस्य पञ्जीसंख्यापत्रं दर्शय” ।
“पश्य, इदं पत्रम्” इति वदन्ती पञ्जीसंख्यापत्रमदर्शयत्।
“तव चालनानुज्ञापत्रं दर्शय।“
हस्तस्यूतात् अनुज्ञापत्रमुद्धृत्य स्त्री अदर्शयत्
।
नियामकः उद्भ्रान्तः तामवदत्, “आर्ये! क्षमस्व माम्
। आरक्षकः मामवादीत् त्वं कारयानमपहृत्य, कार्-यानस्वामिनं हत्वा, तस्य कलेवरं निकर्त्य
यानस्य सामग्री-कोष्ठे न्यवेशयः । त्वया साकं न कार्-यानपञ्जीसंख्यापत्रं न च तव चालनानुज्ञापत्रं
वर्तेते इति ।“
स्त्री, “अहो! अनृतस्य पराकाष्ठा खलु । स च प्रायेण
अवादीत् यदहं अनुज्ञातवेगमतिक्रम्य कार्-यानचालनमकार्षं च?”
- - - -