Saturday, May 14, 2011

Sanskrit blog-Ode to a pet dog

शुनकगीतम्

आत्मन्यप्यधिकं मयि त्वमनिशं सक्तो ददासि स्वकम्

कृत्स्नं यद्यपि ते मदीयमणुकं खाद्यं स्थलं प्रेम च |

दत्तं मे वदनं यदानवरतप्रेम्णा त्वया लिह्यते

स्वर्गानन्दविडम्बनं मम तदा धन्योऽस्मि हे कुक्कुर ।।

सत्यं त्वं न भवेर्मदीयमखिलं बह्वाश्रयं जीवितम्

संपूर्णं न भवेत् तथापि शुनक त्वत्स्पर्शसौख्यं विना ।

प्रेत्य त्वं यदि यास्यसि प्रियसख स्वर्गेतरं सत्पदम्

स्वर्गं चापि विहाय तत्पदमहं गन्तास्मि निस्संशयम् ॥

Above is a rendering of well-known sentiments expressed by dog-lovers.
- - - -

No comments:

Post a Comment