लज्जातिरोहिता प्रहेलिका
भजतीनकरस्पर्शात् तन्द्रिता कृशतां यदा ।
भ्राजमाने नभस्यर्के छाया भवति ते कृशा ॥
सुषमां गगनं विन्दत्यागते गवि काननात् ।
विश्रान्तं सुलभं शेते भुवनं तमसावृतम् ॥
पुष्पावृतारण्यदेशाः दिने शीतजलं हितम् ।
तृप्तो जलावृतो लोकः हृद्या शारदयामिनी ॥
जने सूर्यकरौत्सुक्यं शिवरात्रिमहस्तदा ।