निजकुलकथा-४
पुत्रे मुम्बां प्रयाते विधिलिखितमिव श्रीनिवासस्य देहः
कार्श्यं लेभे निदाघेऽनवरततपनक्लान्तपर्णेव वल्ली ।
ख्याते र्वैद्ये चिकित्सां वितरति न विना माधवस्य प्रसादं
किञ्चित् सार्थं भवेद् वै किमपि न फलति प्रत्यवायाक्तभाग्ये
॥ ३१ ॥
प्राणास्तातस्य यावन्निजतनुभरणेऽशक्ततामाप्नुवन्तः
तावद्दूरेस्थितस्याध्ययनरतसुतस्याङ्घ्रियुग्मं चकम्पे ।
यावद्भीतोऽपराह्ने किमिदमिति हृदि क्षोभमाप्नोदपूर्वं
विद्युत्तन्त्र्यागमद्द्राक् स्वपितुरुपरतेस्तावदेवोग्रवार्ता
॥ ३२ ॥
विद्युद्वेगेन गन्तुं त्वरयति हि मनो द्रष्टुमिष्टान्वियोगे
साध्यं स्यात्किं मनुष्यैर्नियमितकरणप्रत्यवायप्रबद्धैः ।
रैल्-यानेनागमत्सो वॄषयुगशकटेनाप्यगादध्वशेषम्
हन्त प्राप्तिर्न तस्य
स्वजनकवदनालोकनाद्वञ्चितोऽभूत् ॥ ३३ ॥
मातुः श्वश्रूर्विमाता किसलयसदृशभ्रातरो वर्धमानाः
पुत्रः पुत्री विमातुश्च मृतनिजपितुः स्वं प्रभूतं प्ररूढम्
।
आत्माऽपर्याप्तविद्यः कथमिव वहति स्थूलकौटुम्बभारं
शेल्वप्पिल्लै वियोगे पितुरनवधिकक्लेशमापाद्वितीयः ॥ ३४ ॥
यद्यद्भव्यं भवेद्वै कथमपि जनकस्योत्तरं कर्म कृत्वा
मुम्बां तूर्णं प्रतस्थेऽविचलितमनसाध्येतुकामो मनस्वी ।
अध्यैतैकाग्रबुद्धिः प्रतिदिनमुदयादानिशीथं प्रकामं
प्राप्तं साफल्यमन्ते श्रमजनितफलं वर्त्मशल्यानि भिन्त्ते ॥
३५ ॥
पुर्या निर्वर्त्य धीमान् पितृचलितपथा रिक्थसंरक्षणार्थं
गन्तुं येते कुटुम्बावनभरणविधौ दक्षतां चाधिगन्तुम् ।
मातुर्गेहे वसन्तीं दयितपरिचये लालसां धर्मपत्नीं
आनैषीत्तूर्णमेव प्रणयसहचरी कार्यसाफल्यगोप्त्री ॥ ३६ ॥
किञ्चित्कालं प्रयेते
जनकचितधरापालनं चाधिवक्तुः
कार्यं कर्तुं च निष्ठस्तदसुकरमभूत् कृत्ययुग्मस्य भारात् ।
अश्वद्वन्द्वाधिरोही पतति हि तुरगाभ्यां न गच्छन् पदे द्वे
शेल्वप्पिल्लै स्वकालं स्वजनकधनसंरक्षणे हि न्ययुङ्क्त ॥ ३७
॥
अब्दास्त्वायान्ति शीघ्रं गणनमसुकरं दम्पतिभ्यां नवाभ्यां
कामे धर्मावरुद्धे सुखमनुभवतोः बाधते स्मोग्रपीडा ।
निस्सन्तानौ भवेतामिति गुरुवचसा चोदितः शेल्वपिल्लै
श्रीमद्रामायणस्य प्रणतहितकरे वाचनेऽभूत्प्रवृत्तः॥ ३८ ॥
मासीषे शेल्वपिल्लै व्रतमिव नवरात्रे विना प्रातराशं
वाल्मीकेः काव्यधारां व्यतरदविचलश्रद्धया बन्धुवर्गे ।
पश्चादिष्टैःसहैवाददनुपमनिजप्रह्वतां दर्शयन् सः
भक्ष्यान् भोज्यान्श्च पेयानतिथिजनहिते श्रद्दधानो विनीतः ॥
३९ ॥
श्रीसीतारामदत्तो निरवधिकनिधिः पुण्यपुञ्जः प्रसादः
जज्ञे नारायणाख्यः कडबगृहजने हर्षपद्मस्य सूर्यः ।
सीताम्बायां गृहिण्यामनुभवति धवे व्यग्रतालिप्तहर्षं
श्रीमन्नारायणाख्ये प्रणतजनहिते दैवते न्यस्तभारे ॥ ४० ॥