चन्द्रिका-६५
अनुपमदयितां
निनीषमाणः
जनपसुतः
प्रययौ सुहृत्समेतः ।
निजभवनमुखे
स्थितां सुकन्यां
वदनरुचैव
दिशो प्रदीपयन्तीम् ॥ २३४ ॥
अतिशयभयसिक्तवामपाणिं
स्वकरतले
परिगृह्य चन्द्रिकायाः ।
स्वपितृभवनमेव
लज्जितां तां
पितृनमनाय
निनाय राजपुत्रः ॥ २३५ ॥
अविरतमनुयाति
तां बिडाले
अनयदुभे
ललना कलामुमां च ।
नरपतिनिलयं
न कैः प्रशस्या
स्वजनवदन्यजनेषु वृत्तिरस्याः ॥ २३६ ॥- - - -