हास्यसीकरः-८५
कदाचित् न्यायवादी वृद्धश्च विमानयाने
परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम्
।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, “भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि
?” इति । वृद्धः अवदत्, “का क्रीडा?”
न्यायवादी : प्रश्नमेकं
प्रक्ष्यामि । यदि सदुत्तरं न दास्यसि तदा
मह्यं पञ्चाशत्रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं
तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?”
वृद्धः सुषुप्सुरासीत्
तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, “ चन्द्रः भूम्याः कियद्दूरे अस्ति?”।
वृद्धः ,”न जाने” इति वदन् तस्मै पञ्चाशत्रूप्यकाणि ददौ । वृद्धः न्यायवादिनमपृच्छत्,
“ आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?” । न्यायवादी बहुकालमचिन्तयत् तथापि
तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पंचशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य
स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, “तव प्रश्नस्य उत्तरं किम्?”
। वृद्धः, “न जाने” इति वदन् न्यायवादिने पञ्चाशत्रूप्यकाणि दत्त्वा सुखं सुष्वाप
।
- - - -