अवगमो ब्रह्म च
एकदावगमो ह नाम पुरुष उत्तरां दिशं प्रतस्थे । तत्र वक्तुमशक्तनामानमाससाद । अवगमस्तं पप्रच्छ । भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। वक्तुमशक्तो वक्तुमशक्तो वक्तुमशक्त इति वदन् वक्तुमशक्तो वै जगाम ।
प्रश्नस्योत्तरं नाधिगच्छन्नवगमः श्वेतनद्याः दक्षिणतीर एव प्रययौ असङ्गतनामानमाससाद तं पप्रच्छ च। भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। स होवाच । जानेऽहम् । वक्तुमिच्छामि । वक्तुमिच्छामि । अहो विस्मरामि । विस्मरामीति ।
प्रश्नस्योत्तरं नाधिगच्छन्नवगमो पीतवर्णमधिराजमुपससार तं पप्रच्छ च। भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। स होवाच । बुद्धिपूर्वकं न चिन्तयेथाः । तदवगमिष्यसि । बुद्धिपूर्वकं न वर्तयेथाः । तस्मिन् शान्तो भविष्यसि । बुद्धिपूर्वकं न यतेथाः। तत्साधयिष्यसीति ।
हृष्टो वै अवगम उवाच । अहो भगवन् यदावां जानीवहे तत्कथं वक्तुमशक्तासङ्गतौ न जानीत इति । अधिराजो होवाच । तौ न जानीत इति भ्रान्तस्त्वम् । तौ सत्यं जानीतः । वक्तुमशक्यो लीन एव ब्रह्मणि । असङ्गतो ब्रह्मान्तिक एव । आवयोस्त्वद्यापि ब्रह्म बहुदूरमेवेति ।
A story of Taoism
- - - -