Monday, April 4, 2022

प्रहेलिका-२

 प्रहेलिका-२

सममिलन् पशुमृगापणे त्रयो रविविधू च गुरुस्तयोः  सखा ।                       

रविरुवाच “तुरगाय ते सखे मम गृहाण षडजानिमान्विधो ॥                               

पशुगणान्मम तदा भविष्यति द्विगुणितो तव गणः शुभावहः” ।

“यदि ददासि तुरगं सखे रवे प्रतिददामि शशकान् चतुर्दश॥

त्रिगुणितस्तव गणश्च मामकाद्भवति ही”त्यवदत्सुहृद्गुरुः ।

विधुरुवाच विहसन्मनाग्गुरुं “नय ममाजचतुष्टयमञ्जसा ॥         

यदि ददासि शशमत्र मामकात् तव गणो भवति  षड्गुणम् सखे” ।

वद  तवास्ति गणिते  विदग्धता कति भवन्ति पशवो गणत्रये ॥४ ॥

-  -  -  -  

प्रथमप्रहेलिकामुद्दिश्य

अन्वयः : काचित् [स्त्री] स्वप्रियेण मेलितुं सायं पतिगृहम् अगात् । प्रातः याताध्वनि हि विचरन्ती स्वगेहं निवृत्ता । प्रथम दिवसे तस्या वेगः घण्टायां ६००० मीटर् [आसीत्]. इतरदिने [तस्या वेगः] केवलं तदर्धः चेत्, भोः सुहृत्, [त्वं] चतुरः यदि,  [तस्याः] वारिजाक्ष्याः माध्यं वेगं द्राक् वद ।  

विवरणम्: अध्वा ‘क’ सहस्रमीटर् भवतु । प्रथमदिवसे तस्याः वेगः ६००० मीटर् घण्टायाम् । चलनकालः = क/६००० घण्टाः। द्वितीय दिवसे वेगः ३००० मीटर् घण्टायाम् । अध्वा ‘क’ एव । चलनकालः=क/३००० घण्टाः। सा आहत्य २क दूरं क[(१/६०००)+(१/३०००)] काले गच्छति। अतः तस्याः माध्यवेगः २क/{[क/६०००][१+२]} = ४००० मीटर् घण्टायां भवति ।

- - - -

No comments:

Post a Comment