Sunday, April 10, 2022

प्रहेलिका ४

 प्रहेलिका ४

पान्थः कश्चित्  परिणतदिने   ग्रामिकावासमेत्य

ब्रूते भोस्ते विमलमनसा मङ्गलं व्याहरामि ।

प्राप्ता सन्ध्या खगरवरुचिरा रात्रिमेकामुषित्वा

 गेहेऽस्मिन् श्वो दिनकरकिरणाक्रान्तमार्गेण यामि ॥१॥

पान्थं ब्रूते गृहजनसुखदः ग्रामिकस्तेऽस्तु भद्रं

गेहेऽस्मिन् भोः अवितततले बान्धवाः सन्ति भूरि ।

पुत्रौ पुत्र्यौ श्वशुरयुगलं सोदरश्च स्वसारौ

पौत्रः पौत्र्यौ जनकयुगलद्वन्द्वमाप्तार्यकौ च ॥२॥

पत्न्यौ भर्तुर्युगलमधुना सन्ति चत्वारि चैव

पुष्टापत्यान्यनुपमवदना या स्नुषा स्मेरपुष्पा ।

स्वापार्थं त्वं विकसितमुखः मार्गयान्यत्र बन्धो

ग्रामे सन्ति प्रथितधनिकाः धर्मशालाश्च काश्चित् ॥३॥

इत्थं पान्थे श्रयविरहिते कोपि धूर्तोब्रवीत्तम्

गेहेऽस्मिन् भोः मम सुविदितं  बान्धवाः सप्त एव । 

प्राज्ञालोच्य प्रणिहितमनाः ब्रूहि किं सत्यवाक्यः

स ग्रामस्थः विवरणपटो  कः समाधानमार्गः ॥४॥

----


तृतीयप्रहेलिकामुद्दिश्य

अन्वयः : “अम्ब, [त्वं] किं वर्षीया?” “ते मम त्वत्पितुश्च वयः संयोजयसि यदि दशगुणितं सप्त अङ्कं सलीलं प्राप्नोषि ।” पिता पुत्र्या, “हे ते वयः किम्” [इति] पृष्टः, स्मितवलितदृशा ऊचे, “तावकीनात् षड्गुणम्।“ पुत्री ऊचे, “ मे वयः तु तव वयसः अर्धभागम् कदा स्यात्, वद ।” “वत्से जानीहि । तदानीं तव मम त्वज्जनन्याः वयसां योगः चत्वारिंशत्समेतं शतम् इति भविता । मे वयः किं बुध्यसे?” इति पित्रा पृष्टा बाला हसन्ती वदति” कथमिदम्? त्वद्वयो त्वं न वेत्सि हास्यं हास्यम्”। भोः गणितविदुषि, बालिकायाः वयः किम्?

विवरणम् : इदानीं पितुः मातुः बालायाः वयांसि यथाक्रमं प,म,ब भवन्तु । तेषां संभाषणेन इमानि समीकरणानि सिद्ध्यन्ति ।

प+म+ब=७०; प=६ब;

“व” वर्षाणां पश्चात् [प+व]+[म+व]+[ब+व]=१४०; तथा [ब+व]=[प+व]/२

३व=७०; व=७०/३

२ब+२व=प+व; २ब+व=प ; प+म+ब=७०; ७ब+म=७० [२ब+व]+म+ब=७०; ३ब+७०/३+म=७०; ३ब+म=७०[२/३]; ७ब+म=७०; ४ब=७०/३ ब=७०/१२;

बालायाः वयः ५ वर्षाः १० मासाश्च


No comments:

Post a Comment