Friday, April 29, 2011

Sanskrit blog-Humour_11

हास्यसीकरः_११

ताम्रकेशिन्यः ललनाः रूपवत्यः अपि मन्दबुद्धयः इति सर्वे आमनन्ति खलु । कदाचित् काश्चन ताम्रकेशिन्यः समेत्य कस्याञ्चित् प्रागल्भ्यस्पर्धायाम् भागमगृह्णन् । प्राश्निकः अन्यतमामपृच्छत्, “ १४ गुण्यः, ७ गुणकः, फलं किम्?” । सा अवदत्, “१४७” । इतराः ताम्रकेशिन्यः एकस्वरे उच्चैरवदन्, “प्राश्निकः अन्यं प्रश्नं पृच्छतु” इति । तासां प्रार्थनां सम्मान्य प्राश्निकः तामपृच्छत्, “ द्विपञ्चाङ्कयोः संयोजनात् फलितम् किम्?” । सा झटिति प्रत्युत्तरमदात्, “पञ्चविंशतिः” । पुनरपि सर्वा ताम्रकेशिन्यः उच्चैरभाषन्त, “ अन्यं प्रश्नं पृच्छतु” । प्राश्निकः अपृच्छत्, “ एकस्य एकं संयोजय” ।सा विचिन्त्य अवदत्, “द्वे” । इतराः प्रसभं तारस्वरेण अवदन्, “कृपया प्राश्निकः अन्यं प्रश्नं पृच्छतु” ।

_ _ _ _

Thursday, April 21, 2011

Sanskrit blog-Humour_10

हास्यसीकरः_१०

नरसिंहः वयस्यैः सह न्यूयार्क् नगर्यां कस्मिन्श्चित् बहुभूमिसौधे पञ्चाशत्तम भूमौ निवसति स्म। कदाचित् ते यदा उद्योगात्स्वनिवासं प्रतिनिवर्तितुं प्रवृत्ताः तदा विद्युत्-भंगः अभवत् । अतः निवासं प्राप्तुं सौधस्य सोपानश्रेणिं पद्भ्यामेव आरुह्य गमनं तेषामनिवार्यमभवत् । सोपानश्रेणिमारोढुं प्रवृत्ताश्च । आरोहणायासपरिहरणाय एकैकः काञ्चन कथां श्रावयेत् इति तैः स्वीकृतः । नरसिंहं विहाय सर्वे यथाशक्ति कथाः श्रावयामासुः । नरसिंहस्तु अवदत्, “अहं मम कथाम् आरोहणान्ते एव कथयामि । सा कथा भयावहा वर्तते ” इति । इतरे सममन्यन्त च । ते यदा आरोहणस्य अन्तिमदशां प्राप्ताः तदा नरसिंहमितरे अवदन्, “मित्र, इदानीं तावत् तव कथां श्रावयसि कच्चित्?” इति । नरसिंहः कथयति, “भो वयस्याः, इयमेव मम कथा । द्वारतालकस्य(door-lock) उद्घाटकः(key) मम उद्योगस्थाने एव वर्तते । अहं तं मया सह आनेतुं विस्मृतवान्” इति।

_ _ _ _

Wednesday, April 6, 2011

Sanskrit blog: Humour_9

हास्यसीकरः_९

कदाचन देवदत्तः रात्र्यां बेङ्गलूरुनगरात् जालार्पेट्टैपुरं गन्तुं बेङ्गलूरु-चेन्नै रेल्-यानमारुरोह । रेल्-यानः जालार्पेट्टैपुरं रात्रौ एकवादनसमये उपागच्छति खलु । अतः सः रेल्-शयनकोष्ठ-निर्वाहकं प्रार्थयत्, “अहं कुम्भकर्णवत् स्वपिमि । कृपया भवान् मां बलात् प्रबोध्य जालार्पेट्टैपुरे मम रेल्-यानात् अवरोहणे साहाय्यं करोतु ” इति । निर्वाहकः देवदत्तस्य प्रार्थनामन्वमन्यत, “तथैव करोमि” इत्यवदच्च ।

यदा परेद्युः प्रातः रेल्-यानः चेन्नैनगरीमागतः, तदा भ्रुकुटिं कृत्वा दन्तान् कटकटाय्य च इतस्ततः चलन्तं “यदि मम दृष्टिपथं गतो भवति तं निर्वाहकं हनिष्यामि” इति वदन्तं देवदत्तमितरे अपश्यन् । अन्यतमः अन्यमवदत्, “ असौ कुतः भ्रान्तचित्त इव इत्थमुच्चैर्जल्पन् अटति?” इति । सः प्रत्यवदत्, “ अस्य विचित्रचेष्टितं न किञ्चित् खलु । प्रायेण त्वं जालार्पेट्टैपुरॆ निर्वाहकेन बलात् प्राबोधितं रेल्-यानात् निष्कासितं इतोऽप्यधिकमपभाषमाणं नरं नापश्यः” इति ।

_ _ _ _

Saturday, April 2, 2011

Sanskrit blog: Dr.Samuel Johnson

सारमेयगतिः

पद्भ्यां हि गच्छन् यदि सारमेयः

जनप्रशंसां लभते कदाचन ।

सा केवलं तस्य गतेः सुशक्यताम्

न चारुतां सूचयतीति निश्चितम् ॥

Adaptation of a quotation from Dr. Samuel Johnson, “ Sir, a woman’s preaching is like a dog’s walking on his hind legs. It is not done well; but you are surprised it is done at all.”


- - - -