Sunday, March 30, 2014

Sanskrit blog: Ugadi greetings

नववर्षशुभाकाङ्क्षा

आशास्महे श्रीजयवत्सरोदये चैत्रस्य मासः प्रथमे दिने मधौ ।
आवत्सरान्तं सुखिनो निरामयाः भवन्तु सर्वे मनुजाः हरीच्छया ॥
- - - - 

Saturday, March 29, 2014

Sanskrit blog: City park-3

नगरोपवनम्-३

फलविक्रयणोद्यतो युवा शकटीं स्वां परिचाल्य सश्रमम् ।
ततघर्मजलार्द्रविग्रहस्तरुमूलं भजते सुखावहम् ॥ १४ ॥
जलवायुधराप्रदूषणव्यथिताः स्वास्थ्यहितार्थमागताः ।          
विहरन्ति वने दिनात्यये दिवसोद्योगविमर्दयन्त्रिताः ।। १५ ॥
रतिरूपफलप्रसाधनैः स्फुरदालम्बितलोलकुण्डलैः ।
गतिरोधकचञ्चलेक्षणैः नवविन्यासनिबद्धकुन्तलैः ॥ १६ ॥
मदसाधकगन्धलेपनैः दरविस्रंसितवस्त्रविभ्रमैः ।
प्रमदाः जनयन्ति मानसेऽस्थिरतां हन्त विवेकिनामपि ॥ १७ ॥ 
लसदुज्ज्वलदीपपङ्क्तिभिः ललितालापविनोदगायनैः ।
भजते नवनन्दनश्रियं जनसान्द्रोपवनं क्षपामुखे ॥ १८ ॥ 
तरुषु खगगणे स्वानाशयान् सन्निवृत्ते
स्फुरति नभसि नीले दिव्यनक्षत्रवृन्दे ।
गतवति जनसङ्घे स्वालयान् तुष्टचित्ते

स्वपिति नगरवक्षस्यात्तशान्तिर्वनश्रीः ॥ १९ ॥
- - - - 

Saturday, March 22, 2014

Sanskrit blog: Humour-94

हास्यसीकरः-९४
पत्रदूतः (postman) कस्यचित् जनस्य गृहं प्रति पत्रवितरणाय गच्छति यदा सः बृहत्सारमेयेन सह स्थितं कञ्चन बालकं पश्यति । सः सारमेयात् भीतः तं बालकं पृच्छति, “बाल! कच्चित् तव सारमेयः दशति?” इति । बालकः प्रतिवदति, “मम सारमेयः कदापि कमपि न दशति” इति । यावत् भयमुक्तः पत्रदूतः पुरतः गच्छति तावदेव स सारमेयः तं दशति । दंशबाधितः पत्रदूतः रुष्टः बालं पृच्छति, “रे! कुतः अनृतं वदसि । त्वां ताडयामि” इति । बालकः प्रतिवदति, “अहमनृतं न वदामि । अयं सारमेयः मम न भवति खलु,“ इति । 
- - - - 

Saturday, March 15, 2014

Sanskrit blog: City Park-2

नगरोपवनम्-२

क्वचिदायतपुष्पदर्शनं क्वचिदामीलितसूनसौरभम् ।
क्वचिदूर्जितभृङ्गझेंकृती रमते पुष्पकुथासु मानसम् ॥ ८ ॥
सरसीजलमध्यसंस्थितोत्क्षिपणीवक्त्रशताद्विनिःसृता ।
जलबिन्दुपरम्परा ध्रुवं भजते कृत्रिमवर्षवैभवम् ॥ ९ ॥
नवयौवनरूपशालिनी विचरन्ती स्मयमानवीक्षणैः ।

तरुणानभितो विकर्षति प्रमदा काचिदनूह्यलीलया ॥ १० ॥
उपविश्य शिलासने प्रिया पतिसंश्लेषसुखेन निर्वृता ।
रमणश्रवणान्तिके मिथो मधुरं प्रालपते निरर्थकम् ।। ११ ॥
अभिधावनदण्डताडन- प्रणतोल्लङ्घनखेलनैः भृशम् ।
तृषिताः हिमशीतपायसं मुदिताः बालगणाः प्रभुञ्जते ॥ १२ ॥
नमनोचितवृद्धदम्पती दरनृत्यत्स्मितशोभिताननौ ।
वनकान्तिदिदृक्षया शनैः चरतोऽन्योन्यकरावलम्बिनौ ।। १३ ॥
- - - - 

Saturday, March 8, 2014

Sanskrit blog: Humour-93

हास्यसीकरः-९३
न्यायालये न्यायवादी साक्षिस्थानस्थितं वैद्यं परीक्षते ।
न्यायवादी: वैद्यवर्य! यदा त्वया कुणपपरीक्षणार्थं कर्तनं कृतं तदा कर्तनात् प्राक् त्वया नाडीपरीक्षणं कृतं किम्?
साक्षी: न कृतम् ।
न्यायवादी: कच्चित् त्वया तस्य रक्तसंमर्दः परीक्षितः?
साक्षी: न परीक्षितः ।
न्यायवादी: तस्य श्वसनं परीक्षितं किम्?
साक्षी: सर्वथा न ।
न्यायवादी: अतः, कच्चित् मन्यसे भाव्यं यत् सः तव परीक्षणात् पूर्वं जीवितः आसीत्?
साक्षी: न हि ।
न्यायवादी: कथं त्वं निस्संशयं मन्यसे?
साक्षी: यतः परीक्षणात् पूर्वमेव तस्य मस्तिष्कं मम लेखनतले (table)  स्थापितमासीत् ।
न्यायवादी: तथापि भाव्यं खलु सः जीवित एव आसीत्?

साक्षी: (विमृश्य) यदि तत् भाव्यं सः कुत्रापि न्यायवादी एव भवति ।
- - - - 

Saturday, March 1, 2014

Sanskrit blog: City Park-1

नगरोपवनम्-१
खगकूजितजृम्भणैः शनैः तनुजाड्यं जहतीव तन्द्रिलाः ।
नगरोपवनस्थपादपाः प्रथमार्कारुणरश्मिचुम्बिताः ।। १ ॥
ललनागणरोचकं वपुः द्युतिमल्लब्धुममेयलालसाः ।
तरुणाः श्वसितैर्विवर्धितैः पथि धावन्ति ककुद्मवृन्दवत् ॥ २ ॥
मृदुशीतलमारुतो लताः परिरभ्यानतपुष्परञ्जिताः ।                              
अमलानिलसेवने रतान् पथि संतोषयते विहारिणः ॥ ३ ॥
हिमसीकरमौक्तिकाचितैः हरितार्द्रैमृदुनव्यशाद्वलैः ।
धरणी कमनीयतां प्रगे भजते कञ्चुकितेव सुन्दरी ।। ४ ॥
मृगमत्स्यबिहङ्गरूपतां भजमानाः वनपालशिक्षया ।
नरकौशलशक्तिसूचका तरुगुल्मा रमयन्ति बालकान् ॥ ५ ॥
प्रतिमा नरपस्य कस्यचित्गतकालेष्वनुभूय मान्यताम् ।
अथ कालविपर्ययादहो मलनीरैरभिषिच्यते द्विजैः ॥ ६ ॥
रजनीं विजने महापथे क्षपयित्वा भषणे निरर्गले ।

तरुणातपवाञ्छयाधुना स्वपिति श्वा तुहिनार्द्रशाद्वले ॥ ७ ॥
- - - -