Follow by Email

Saturday, July 24, 2021

 

अतो कर्षति वाग्देवी विवक्षेतो विकर्षति ।

कर्षणैर्नोदनैः त्रस्तः श्लोकः मूकत्वमेत्यहो॥  

Goddess of Words pulls that way, Intent pulls this way. The verse tired of pulls and pushes goes silent, alas!

Sunday, February 7, 2021

निजकुलकथा-४

 निजकुलकथा-४

पुत्रे मुम्बां प्रयाते विधिलिखितमिव श्रीनिवासस्य देहः

कार्श्यं लेभे निदाघेऽनवरततपनक्लान्तपर्णेव वल्ली ।

ख्याते र्वैद्ये चिकित्सां वितरति न विना माधवस्य प्रसादं

किञ्चित् सार्थं भवेद् वै किमपि न फलति प्रत्यवायाक्तभाग्ये ॥ ३१ ॥

 

प्राणास्तातस्य यावन्निजतनुभरणेऽशक्ततामाप्नुवन्तः

तावद्दूरेस्थितस्याध्ययनरतसुतस्याङ्घ्रियुग्मं चकम्पे ।

यावद्भीतोऽपराह्ने किमिदमिति हृदि क्षोभमाप्नोदपूर्वं

विद्युत्तन्त्र्यागमद्द्राक् स्वपितुरुपरतेस्तावदेवोग्रवार्ता ॥ ३२ ॥

विद्युद्वेगेन गन्तुं त्वरयति हि मनो द्रष्टुमिष्टान्वियोगे

साध्यं स्यात्किं मनुष्यैर्नियमितकरणप्रत्यवायप्रबद्धैः ।

रैल्-यानेनागमत्सो वॄषयुगशकटेनाप्यगादध्वशेषम्

हन्त प्राप्तिर्न  तस्य स्वजनकवदनालोकनाद्वञ्चितोऽभूत् ॥ ३३ ॥

मातुः श्वश्रूर्विमाता किसलयसदृशभ्रातरो वर्धमानाः

पुत्रः पुत्री विमातुश्च मृतनिजपितुः स्वं प्रभूतं प्ररूढम् ।

आत्माऽपर्याप्तविद्यः कथमिव वहति स्थूलकौटुम्बभारं

शेल्वप्पिल्लै वियोगे पितुरनवधिकक्लेशमापाद्वितीयः ॥ ३४ ॥

यद्यद्भव्यं भवेद्वै कथमपि जनकस्योत्तरं कर्म कृत्वा   

मुम्बां तूर्णं प्रतस्थेऽविचलितमनसाध्येतुकामो मनस्वी ।

अध्यैतैकाग्रबुद्धिः प्रतिदिनमुदयादानिशीथं प्रकामं                         

प्राप्तं साफल्यमन्ते श्रमजनितफलं वर्त्मशल्यानि भिन्त्ते ॥ ३५ ॥

पुर्या निर्वर्त्य धीमान् पितृचलितपथा रिक्थसंरक्षणार्थं

गन्तुं येते कुटुम्बावनभरणविधौ दक्षतां चाधिगन्तुम् ।

मातुर्गेहे वसन्तीं दयितपरिचये लालसां धर्मपत्नीं

आनैषीत्तूर्णमेव प्रणयसहचरी कार्यसाफल्यगोप्त्री ॥ ३६ ॥

किञ्चित्कालं  प्रयेते जनकचितधरापालनं चाधिवक्तुः                         

कार्यं कर्तुं च निष्ठस्तदसुकरमभूत् कृत्ययुग्मस्य भारात् ।

अश्वद्वन्द्वाधिरोही पतति हि तुरगाभ्यां न गच्छन् पदे द्वे  

शेल्वप्पिल्लै स्वकालं स्वजनकधनसंरक्षणे हि न्ययुङ्क्त ॥ ३७ ॥  

अब्दास्त्वायान्ति शीघ्रं गणनमसुकरं दम्पतिभ्यां नवाभ्यां

कामे धर्मावरुद्धे सुखमनुभवतोः बाधते स्मोग्रपीडा ।

निस्सन्तानौ भवेतामिति गुरुवचसा चोदितः शेल्वपिल्लै

श्रीमद्रामायणस्य प्रणतहितकरे वाचनेऽभूत्प्रवृत्तः॥ ३८ ॥  

मासीषे शेल्वपिल्लै व्रतमिव नवरात्रे विना प्रातराशं

वाल्मीकेः काव्यधारां व्यतरदविचलश्रद्धया बन्धुवर्गे ।

पश्चादिष्टैःसहैवाददनुपमनिजप्रह्वतां दर्शयन् सः

भक्ष्यान् भोज्यान्श्च पेयानतिथिजनहिते श्रद्दधानो विनीतः ॥ ३९ ॥   

श्रीसीतारामदत्तो निरवधिकनिधिः पुण्यपुञ्जः प्रसादः

जज्ञे नारायणाख्यः कडबगृहजने हर्षपद्मस्य सूर्यः ।

सीताम्बायां गृहिण्यामनुभवति धवे व्यग्रतालिप्तहर्षं

श्रीमन्नारायणाख्ये प्रणतजनहिते दैवते न्यस्तभारे ॥ ४० ॥

[अनुवर्तते]

Wednesday, December 30, 2020

निजकुलकथा-३

 निजकुलकथा-३

आह्वत् संपत्कुमारं गुरुजननिकरस्स्वार्यकस्मारणार्थम्

गङ्गाम्बायाः सुपुत्रं नरहरिकृपया जातमिष्टं द्वितीयम् ।

भर्तुर्नाम्नाभिधाने कतिचनमहिला नेच्छवो ह्रीनिबद्धाः 

शेल्वप्पिल्लै हि नामाभवदभिमतं वेङ्कटाम्बाप्रदत्तम्   ॥ २१ ॥

पश्चाज्जातान्यपत्यान्यनुपमसुखदान्यञ्जसा त्रीणि तस्यां

आद्यो नाम्ना नृसिंहस्तदनु शितमती रामनाम्नैव वेद्यः

कृष्णः पुत्रः कनिष्ठो यमुचितजननीस्तन्यपानान्निवार्य 

क्रूरः कालो हताशामविदितकरुणो मातरं तामकर्षत् ॥ २२ ॥

विद्याभ्यासे प्रवृत्ताः कुशशितधिषणा आत्मजा सद्विधेयाः

पत्नी चार्वी सुशीला धनकनकचयैर्वर्धमाना यशःश्रीः ।

सर्वं देवप्रसादादिति मनसि वदत्युत्सुके ब्राह्मणेऽस्मिन्

हन्त क्रूरः क्षुधार्तः प्रहरति तरसा हर्षहन्ता विधिस्तम् ॥ २३ ॥  

झञ्झावातेन नष्टं नवहरितलताशोभितोद्यानमिष्टम्

आस्थत् हस्ती सलीलं कुसुमिततरुमुन्मूल्य दूरं वृथैव ।                      बालः क्रीडन् फलार्थी करधृतलगुडेनाभिदत् पक्षिनीडम्

संसारे का क्रिया वा परिणमति कथं कोऽस्ति वक्तुं समर्थः ॥ २४ ॥

कालो बाधां सुतीक्ष्णामपि शिथिलयत्यद्रुतं चित्तवृत्तेः

रङ्गाम्बानामकन्यां परिणयनविधौ प्राप वै श्रीनिवासः ।

सम्पन्नामा तनूजो जननमलभत श्रीनिवासस्य तस्याम्    

गञ्गानाम्न्यात्मजापि प्रथमजमनुसृत्यात्तजन्मा रराज ॥ २५ ॥ 

चेन्नैविद्यालयेऽसौ प्रथितगुरुजनेऽधीतसस्यादिशास्त्रः

शेल्वप्पिल्लै  समार्जद्गुरुजननिकरं नन्दयन् स्नातकत्वम् ।

शास्त्रप्रावीण्यमाप्तुं जिगमिषुरभवत् ख्यातपाश्चात्यदेशान्

आद्यो भूमण्डलाजिस्तमरुणदहोऽतर्कितोग्रप्रभावः ॥ २६ ॥   

पुत्रं तं प्राप्तविद्यं परिणयनविधौ शीलवत्या समेतुं

सश्रीकः श्रीनिवासः स्वविभवपदवीसाम्यभावं च काङ्क्षन् ।

सम्बन्धं कर्तुमैच्छत् सकलगुरुजनैरादृतस्याधिवक्तुः   

शीमोग्गानाम्नि चक्रे वनमभि वसतः पत्तने सागराख्ये ॥ २७ ॥

श्रीमान् नाम्ना नृसिंहः मधुमथनदयातर्कितैवेति मत्वा

पुत्रीं सीतां सुशीलामभिजनपदवीरूपपूर्णाय दातुं ।

स्वोत्साहं सम्मतं द्राक् वरजननिकरे सूचयामास हृष्टः  

संबन्धिभ्यां हि पाणिग्रहणविधिरभून्निश्चितो तूर्णमेव ॥ २८ ॥

दृष्टा पृष्टा न कन्या परिणयदिवसात् प्राङ्मनाग्भाविभर्त्रा

दृष्टो पृष्टो वयस्थो न परिणयदिनात्प्राङ्मनाक्कन्ययासौ ।

शेल्वप्पिल्लै रजस्वी प्रतिहतमनसा तां मनाक्श्यामवर्णां

अन्तर्बाष्पो विधेयो कथमपि गुरुभिः शंसितां स्वीचकार ॥ २९ ॥

शास्त्राभ्यासे पिपासाऽनवधिकपदवीं प्राप्य तं बाधते स्म

न्यायज्ञाने विशाले परिणतिमुचितां प्राप्तुमौत्सुक्यपूर्णः ।

मुम्बैपुर्यां  विधिज्ञाभ्युपगतगुणवन्न्यायविद्यालयेऽसौ

अध्यैत न्यायशास्त्रं समुपचितमनाः ब्रह्मचर्यव्रतस्थः ॥ ३० ॥

[अनुवर्तते]

Monday, December 14, 2020

निजकुलकथा-२

निजकुलकथा-२ 

ग्रामण्यादिष्टमार्गे तरुणदिनकरस्यातपे वर्धमाने

गोरूरुग्राममागात्पुरजननिकरैः पीयमानो दृशाभिः ।

स्मृत्याम्नायप्रवीणं बुधजनतिलकं पण्डितं तं विदित्वा    

हृष्टा ग्रामप्रधानाः समुचितवसतिं कल्पयामासुरस्मै    ११ 

विद्वान् संपत्कुमारः कडबनिवसथादागतः सन् सुदूरात्

ग्रामस्थैः पूज्यभावात् कडबगुरुरिति व्याहृतोऽभूत् सुशीलैः।

स्वाध्यायाध्यापनैः सः  स्वसमयमुचितैर्यापयन् योगमुद्राम्

आतन्वानं नृसिंहं स्तुतिजपनियमैस्तर्पयामास साधुः ॥ १२ ॥

कस्मै कुत्रास्ति मृत्युः कथमनुभवति स्वान्तकालं जनोऽयम्

को वा वेत्तीदमस्मिन्नघटितघटनासान्द्रलोके विशाले ।

विद्वान् विष्णुप्रियोऽयं निरवधिकदयः सज्जनः कर्मठश्च

क्षेत्रे व्यापादितोऽभूत् स्वजठरभरणप्रेरितद्वीपिनाहो ॥ १३ ॥

सह्यं वैधव्यदुःखं न भवति हि तथाप्युत्तरोदर्कदीप्त्या

स्वापत्यश्रेयसे स्वव्यथितहृदनलं धर्मपत्न्यो सहन्ते ।

कालः क्रूरस्तथापि प्रशमयति शनैर्वेदनामप्यनल्पां

ग्रावा नद्याः प्रवाहे मसृणतरतलं प्राप्नुयात् किं न मन्दम् ॥ १४ ॥

आचार्यानीति सर्वैर्जनपदनिवहैर्व्याहृता गौरवेण

दुःखं सेहेऽस्य पत्नी कथमपि तनयौ वीक्षमाणानुरूपौ ।

पत्युर्नाम्नैव पश्चादभिहितममलं तीक्ष्णमेधाविशिष्टं

पश्यन्ती पौत्रमिष्टं भगवदनुभवे दत्तचित्ता भवन्ती ॥ १५ ॥  

पौत्रः सम्पत्कुमारो निशितमतिरिति प्राप्तचिह्नः स्वबाल्ये

पुर्यां मैसूरुनाम्न्यां सुविदितपरकालाश्रमे प्राप्तविद्यः ।

पुर्या निर्वर्त्य शास्त्राध्ययनवितरणप्रक्रियासु प्रसक्तः

स्वग्रामे पर्यणैषीत् गुरुजनवचनाद्वेङ्कटाम्बां सुशीलाम् ॥ १६ ॥

तस्यास्तां द्वौ सुपुत्रौ सुरपहरिनिभौ पूर्वजः श्रीनृसिंहः

दैवेच्छा स्यात्कुटुम्बी सपदि मृतिमगात् हन्त तारुण्य एव ।

नाम्नान्यः श्रीनिवासः गुरुजनदयितः मूर्त्युपाह्वः तरस्वी

गङ्गाम्बानामकन्यां परिणयनविधौ स्वीचकाराल्पविद्यः ॥ १७ ॥

विद्यार्थं राजधानीं जिगमिषुमिमं संस्थितं नावि तातः

मा गाः कुत्रापि वत्सेत्यपिहितममतापूर्णवाचा न्यरौत्सीत् ।

नान्यः पन्थेति मत्वा स्वसमयमुचितक्षेत्रकार्येषु युञ्जन्

वार्तोद्योगप्रवीणः पितरमनुसरन् वित्तमानर्ज भूरि ॥ १८ ॥

पुत्रे सम्पत्कुमारः धनगुणनपटौ न्यस्य कौटुम्बभारं

पूर्वं रामानुजार्यैरुषितमितिजनैरादृते मेलुकोट्टे ।

कञ्चित्कालं क्षपित्वा प्रवचनभगवद्दर्शनैः तुष्टचित्तः

काले गच्छत्यलङ्घ्यप्रकृतिनियमतः प्राप विष्णोः पदाब्जम् ॥ १९ ॥

गङ्गाम्बायामपत्यान्यजनिषत हृदानन्ददायीनि पञ्च

श्रीवत्साङ्कप्रसादादनुपमसुखदा पूर्वजा पुत्रिकाभूत् ।

अम्मय्याम्बेति नाम्ना परिणयविधिनादत्त यां सौम्यमूर्तिम्

रामस्वामी युवा यो स्ववसतिमकरोत् हेम्मिगेनामघोषे ॥ २० ॥    

[अनुवर्तते]


Tuesday, December 1, 2020

निजकुलकथा

 

निजकुलकथा

जि एस् एस् मूर्तिः

अज्ञातव्योऽयमज्ञः प्रणमति पुरुषं शाश्वतं विश्वरूपं

यःकश्चित् कीटतुल्योऽनुकरणपटुर्नश्वरोऽज्ञेयमाद्यम् ।

अज्ञत्वज्ञानसंपन्मदजनितमुदामुग्धचित्तप्रणुन्नः

काव्यं कर्तुं नवीनं सहृदय यतते साहसं क्षम्यतां भोः ॥ १ ॥

जाने नाहं कथास्ताः गुरुजनकथिता ईशचर्याप्रसक्ताः

जाने नैव प्रसिद्धा नृपगुणविवृतौ बद्धदीक्षा मनोज्ञाः।

जाने नान्यैः कदापि श्रुतमुचितगुणं केवलं मामकीनं

वृत्तान्तं तं  प्रबद्धं शृणु विवृतमना आदृतौदार्यभावात् ॥ २ ॥‍

वेदान्ताचार्यभक्तो विबुधजननुतः कश्चिदात्रेयगोत्रो

नाम्ना संपत्कुमारो भुवनपतिदयापात्रभूतः कदाचित् ।

स्वाम्यं ग्रामस्य लब्ध्वा वनगिरिनिकटे कस्यचित् दूरदेशे

लब्धस्वक्षेमकार्ये निजतनुमनसोर्न्यासमङ्गीचकार ॥ ३ ॥

ग्रामं गन्तुं सुदूरं दृढवृषशकटेनोत्सुकं ब्राह्मणं स्त्री                

त्यक्त्वा मामार्य गेहे कथमिव चलितुं काङ्क्षसि प्रार्थये त्वाम् ॥

रामः सीतां कृशाङ्गीमिव नय सदयं मामपि त्वत्सहायां              

इत्थं घर्माश्रुपातैरविरतगदितैः स्वानुनीतं चकार ॥ ४ ॥

पत्न्या साकं प्रतस्थे निहितनिजभरो दैवते श्रीनिवासे

मार्गे पश्यन् वनान्तान्निबिडतरुगणैकीकृतोग्रान्धकारान् ।

सौवर्णव्रीहिभारप्रणतदलशतारूढकूजद्विहङ्गान्

श्रुत्वा घंटानिनादं शकटमनुसृतान् धावतो ग्रामबालान् ॥ ५ ॥

स्वापस्नानाशनार्थं क्लमविहतबलीवर्दविश्रामहेतोः

मध्ये मार्गं प्रपेदे पथिकजनहिताः भूपतेर्धर्मशालाः ।

यत्र क्लान्तापि पत्नी क्लममविगणय्यान्नमिष्टं पपाच

स्त्रीणां मुष्णाति भर्त्रा सह बहिरयनं नैजकृच्छ्राणि तासाम् ॥ ६ ॥

यात्वा दूरं चतुर्थेऽहनि दिवसकरे लम्बमाने प्रतीच्यां

निर्विण्णोऽध्वश्रमेन प्रशिथिलिततनुर्धूलिदिग्धोत्तरीयः

पत्न्या साकं कृशाङ्ग्या कृषिकजनगृहप्रोत्थधूमाभिलिप्तं

गोरम्भामग्नवीथिं सुविदितपुरबेराभिधं ग्राममागात् ॥ ७ ॥

विप्रं श्रुत्वागतं द्राक् समुचितफलपुष्पोपहारान्  गृहीत्वा

एत्यार्यं तं ववन्दे  सुमधुरवचसा  ग्रामणीस्संबभाषे ।

स्वामिन् धन्या भवामो विदितमभवत् ग्राम एष प्रदत्तः

राज्ञास्माकं हितार्थं द्विजवर भवते न्यस्तभारा वयं भोः ॥ ८ ॥ 

कुत्र स्यान्मे निवासः सरिदपि भवेदत्र कुत्राप्यदूरे

पृष्टो विप्रेण नम्रोऽगददिह निकटे ह्यग्रहारः प्रशान्तः।

वामे पार्श्वे तटिन्याः सितसिकतमये वर्तते हैमवत्याः

यस्मिन् गोरूरुनाम्नि  प्रणतजनमवन् राजते श्रीनृसिंहः॥ ९ ॥  

नद्यास्तीरं प्रशस्तं भगवदनुभवो विप्रवर्गे प्रसंगः

सर्वा कांक्षा मदीया सपदि सफलिताः श्रीनृसिंहप्रसादात् ।

इत्थं शंसन् रमेशं विकसितवदनो ग्रामणीमभ्यनन्दत्

शं ते भूयात् सहायो भवतु निवसथप्रापणार्थं भवान्मे ॥ १० ॥ 

[अनुवर्तते]

Monday, November 9, 2020

कोविड् गदनिरोधार्थम्

 कोविड्गदनिरोधार्थं विस्मृत्य प्रथितं वचः ।

मुखप्रक्षालनात्पूर्बं हस्तप्रक्षालनं कुरु ॥ 

----

Wednesday, November 4, 2020

पत्नी ताडयते-३

 

 

मातुर्गेहमहं व्रजामि कतिचिद्रात्रीरिति प्रस्थिता

आगत्यैव परेद्यवि त्वदशने  चिन्तेति  मां  भाषते।

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका  ॥ ४ ॥

[अनुवर्तते]

Monday, October 26, 2020

पत्नी ताडयते-२

 

व्याघातैर्बहुभिर्युते  सफलतां  कार्येऽहमाप्नोमि  चेत्

मुञ्चत्याकुलतां  प्रसह्य विजहत्यानन्दबाष्पं  प्रिया 

कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया

पत्नी ताडयते शिखण्डशकलेनोद्विग्नचित्तेव माम्  ॥  ३  ॥

[अनुवर्तते]