Saturday, January 26, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
इष्टका जानाति किं सौधकल्पनाम्
सा विगलिता तर्हि भित्तिछिद्रं स्यात् ।
इष्टकामात्रमसि सृष्टिसौधेऽस्मिन्
वक्रासि चेत् पतसि मूढतिम्मो ।। ५३२ ॥ 
(Translation of verse 532 of "Mankutimmana kagga" of Sri.DVG in Kannada)

ಕಟ್ಟಡದ ಪರಿಯನಿಟ್ಟಿಗೆಯೆಂತು ಕಂಡೀತು
ಗಟ್ಟಿ ನಿಲದದು ಬೀಳೆ ಗೋಡೆ ಬಿರಿಯುವುದು |
ಸೃಷ್ಟಿಕೋಟೆಯಲಿ ನೀನೊಂದಿಟಿಗೆ; ಸೊಟ್ಟಾಗೆ
ಪೆಟ್ಟು ತಿನ್ನುವೆ ಜೋಕೆ- ಮಂಕುತಿಮ್ಮ || ೫೩೨ ||
- - - - 

Saturday, January 19, 2013

Sanskrit blog: Hunour-64

हास्यसीकरः-६४
वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् ।
वृद्धः इतरमवदत्, ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् ।
इतरः अपृच्छत्, तद्भोजनालयस्य नाम किम्?
वृद्धः चिरमचिन्तयत्, परंतु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?
इतरः अपृच्छत्, मल्लिका इति नाम किम्? इति ।
वृद्धः प्रत्यवदत्, आम्, तदेव, उपकृतोऽस्मि इति ।
वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुर्व? इति ।
- - - - 

Sunday, January 13, 2013

Sanskrit blog: A wise saying

सुभाषितम्
प्रखररविमयूखैः फुल्लतां याति पुष्पम्
परिणमति विशुद्धं स्वर्णमग्नौ प्रतप्तम् ।
प्रभवति नवनीतं मन्थनात् तक्रपात्रे
प्रबलबुधविवादात् जायते विश्वतत्त्वम् ॥
- - - - 

Saturday, January 5, 2013

Sanskrit blog: Humour-63

हास्यसीकरः-६३
कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु । भार्या अवदत्, प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया इति ।
कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैंके (bank) स्वसंख्याने (account) न्यस्य तद्धनसमानमौल्यं चैकं (cheque) भर्तृनाम्नि  विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च ।
- - - -