Saturday, February 23, 2013

Sanskrit blog: The bird and the bee.

विहगः मधुकरश्च
श्रमार्जितं त्वन्मधु मिष्टमन्ये
सुखेन मर्त्याः खलु चोरयन्ति ।
कथं न खिन्नोऽसि वदेति पक्षिणा
पृष्टः कदाचिन्मधुमक्षिका क्वचित् ।।
मुष्णन्तु मूढाः मम किं मनुष्या
करोमि भूयो मधु लीलयाहम् ।
यावन्न मुष्टं मम कर्मदाक्ष्यं
मुष्टं न किञ्चित् विहगेत्युवाच ।।

A rough rendering in Sanskrit of the following:
The Bird Asked the bee:
"You Work So Hard To Make The Honey And Humans Just Take It Away,
Doesn
’t it Make You Feel Bad?"
"No," Said The Bee, "Because They Will Never
Take From Me The Art Of Making It."
- - - - 

Saturday, February 16, 2013

Sanskrit blog: Humour-66

हास्यसीकरः-६६
द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ प्ररस्परमभाषेताम् ।
वन्यसिह्मः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् ।
नागरसिह्मः : किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।
वन्यसिह्मः : उदरपोषणं तु कथमभवत्?
नागरसिह्मः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।
वन्यसिह्मः : कथमिदानीं बद्धः अभूः ?
नागरसिह्मः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।
- - - - 

Saturday, February 9, 2013

Sanskrit blog: Abraham Lincoln-an anecdote

अब्रहां लिंकनः: एका आख्यायिका
अब्रहां लिंकनः अमेरिकादेशस्य अध्यक्षपदवीं स्वीकृत्य प्रथमभाषणं कुरुते स्म । भाषमाणे लिंकने कश्चन गर्वितः धनिकः सभ्यः उत्थाय उच्चैरघोषयत्, “ भोः! कच्चिदवगतं त्वया यत् तव पिता ममाभिजनस्य चर्मकारः आसीत्?” इति । सर्वे सभ्याः तदवधीरणां निशम्य उच्चैः हसितुमारभन्त । परं तु लिंकनः धृतिमान् तं सभ्यमवलोकयन् गंभीरस्वरेण तमवदत्, “ मान्य! मम पिता भवदभिजनस्य उपानहः भवद्गृहे एव करोति स्म इत्यहं जानामि। अत्र सभायां अन्येऽपि भवेयुः येषां गृहेषु मम पिता उपानहः करोति स्म च । सहर्षं वदामि यत् मम पितृकृता उपानहः सदा अनर्घा अदोषाश्च आसन् । मम पिता उपानहां विधाता आसीत् । तत्कृत प्रत्युपानहोः तस्यात्मा एव प्रतिष्ठितः । उपानत्कर्मणि अहमपि निष्णातः । यदि भवान् वाञ्छति भवतः नूत्ने उपानहौ करोमि“ इति । दिग्भ्रान्ताः सर्वे सभ्याः उच्चैः करताडनमकुर्वन्,  सः भग्नगर्वः सभ्यः लिंकनस्य क्षमां च अयाचत ।
- - - - 

Saturday, February 2, 2013

Sanskrit blog: Humour-65

हास्यसीकरः-६५
विस्मयकरं किञ्चन ऐन्द्रजालिककर्म कृतवन्तं ऐन्द्रजालिकं इन्द्रजालवीक्षकः कश्चन सभायाम् संबोधयति, “भोः, कथम् इदं विस्मयकरं कर्म करोषि? मां एतत्कर्म शिक्षयसि किम्?” इति । ऐन्द्रजालिकः प्रतिवदति, “ अवश्यं शिक्षयामि, परं तु पश्चात् मया त्वं वध्यः भविष्यसि । अङ्गीकरोषि किम्?” इति । सभ्यः स्तोकं विचिन्त्य प्रतिवदति, “ बाढम्, मम भार्यां शिक्षय” इति ।
- - - -