Monday, November 28, 2011

Knowledge and the Dao


अवगमो ब्रह्म च
एकदावगमो ह नाम पुरुष उत्तरां दिशं प्रतस्थे । तत्र वक्तुमशक्तनामानमाससाद ।  अवगमस्तं पप्रच्छ । भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। वक्तुमशक्तो वक्तुमशक्तो वक्तुमशक्त इति वदन् वक्तुमशक्तो वै जगाम ।
प्रश्नस्योत्तरं नाधिगच्छन्नवगमः श्वेतनद्याः दक्षिणतीर एव प्रययौ असङ्गतनामानमाससाद तं पप्रच्छ च। भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। स होवाच । जानेऽहम् । वक्तुमिच्छामि । वक्तुमिच्छामि । अहो विस्मरामि । विस्मरामीति ।
प्रश्नस्योत्तरं नाधिगच्छन्नवगमो पीतवर्णमधिराजमुपससार तं पप्रच्छ च। भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। स होवाच । बुद्धिपूर्वकं न चिन्तयेथाः । तदवगमिष्यसि । बुद्धिपूर्वकं न वर्तयेथाः । तस्मिन् शान्तो भविष्यसि । बुद्धिपूर्वकं न यतेथाः। तत्साधयिष्यसीति ।
हृष्टो वै अवगम उवाच । अहो भगवन् यदावां जानीवहे तत्कथं वक्तुमशक्तासङ्गतौ न जानीत इति । अधिराजो होवाच । तौ न जानीत इति भ्रान्तस्त्वम् । तौ सत्यं जानीतः । वक्तुमशक्यो लीन एव ब्रह्मणि । असङ्गतो ब्रह्मान्तिक एव । आवयोस्त्वद्यापि ब्रह्म बहुदूरमेवेति ।
A story of Taoism 
- - - -  

Monday, November 21, 2011

Sanskrit blog: A light thought


नूतनं सुभाषितम्
द्युतिः शब्दात् प्रवहति द्रुतं तस्माद्धि केचन।
भास्वन्तः खलु दृश्यन्ते यावत् संशृणुमः न तान् ॥
Light travels faster than sound. That is why some people appear bright until you hear them speak.
- - - -

Thursday, November 17, 2011

Sanskrit blog: Humour 34

हास्यसीकरः ३४

कश्चित् दीनः याचकः पथि देवसिंहं यत्किञ्चिद्धनमयाचत ।
देवसिंहः : यदि द्वे रूप्यके तुभ्यं ददामि तदा त्वं पानशुण्डां गत्वा मद्यं क्रीणासि किम्?
याचकः : न कदाचित्, प्रभो ।
देवसिंहः : देवनगृहे धनस्य पणसे किम्?
याचकः : न कदाचित्, प्रभो ।
देवसिंहः : कृपया मया सह मद्गृहमागच्छ । मद्येन विना देवनेन विना नरस्य का अवस्था भवतीति मम भार्या पश्यतु ।
- - - - 

Saturday, November 12, 2011

Sanskrit blog: Thus spake Abraham Lincoln


अब्रहाम् लिंकन उवाच
अर्थोऽयमेव प्रजातन्त्रतायाः ।
भृत्यो भवेयं न तस्मान्न भर्ता ॥

इदं पद्यं सुचित्रानाम्नि नूतनछन्दसि बद्धम् । तस्य लक्षणो यथा ।
पञ्चमात्रागणत्रितयस्य पश्चात् ।
पादे गुरू चेत् सुचित्राभिधानम् ॥
 
As I would not be a slave, so I would not be a master. This expresses my idea of democracy. Abraham Lincoln
- - - -

Tuesday, November 8, 2011

Sanskrit blog: Humour 33

हास्यसीकरः ३३
येन चोरेण स्वगृहे भित्तिचौर्यं कृतं सः आरक्षकैः बद्धः वर्तते इति वार्तां श्रुत्वा कश्चन पुरुषः आरक्षकालयं गत्वा आरक्षकमवदत्, भोः, अहं चोरेण सह संलपितुमिच्छामि इति । आरक्षकेन किमर्थमिति पृष्टः सः प्रत्यवदत्, चोरं प्रष्टुमिच्छामि, मम भार्यां प्रबोधयन् विना रात्रिमध्यं कथं त्वं गृहं प्रवेष्टवान् । अहं चिरकालात् तथा कर्तुमशक्तोऽस्मि इति ।
- - - -

Thursday, November 3, 2011

A wise crack

सुभाषितम्
धनेन तोषः न कदाचनेति गाथास्ति सत्यं शृणु मां परंतु ।
हरे कुरु त्वं धनिनं तथा तद्यथार्थतामात्मनि साधयेयम् । ।    
All I ask is a chance to prove that money can't make me happy.
- - - -