Saturday, May 31, 2014

Sanskrit blog: Humour-99

हास्यसीकरः-९९

कदाचित् देशस्य वित्तमन्त्री नगरोपवने वायुसेवनार्थं विचरति स्म । सहसा गुल्मान्तरात् कश्चन छद्मवेशधरः गुलिकास्त्रधारी अदृश्यत । सः मन्त्रिणः वदनं गुलिकास्त्रस्य लक्ष्यं कुर्वन् अवदत्, “भोः, सपदि तव यद्यद्धनं वहसि तत्सर्वं मह्यं देहि ।न चेत् त्वां हनिष्यामि” इति । अभीतः मन्त्री प्रत्यवदत्, “ अहं तावत् देशस्य वित्तमन्त्री । जानासि किम्?” इति । गुलिकास्त्रधारी अवदत्, “यदि तत् तथ्यं तर्हि ममैव धनं मह्यं प्रतिनिवृत्यताम् “ इति । 
- - - - 

Saturday, May 24, 2014

Sanskrit blog: Conversation between a couple-4

पतिपत्नीसंलापः-४

कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नम्
पत्रं विलिख्य विरचय्य च पुष्पमेकम्
वक्रीकृताक्षरविभाव्यकराग्रकम्पम्
संप्रेषितं यदभवन्मदुपोपधानम् ॥ १९ ॥

कच्चित्प्रिय स्मरसि ते पदवीधरत्वम्
संश्रुत्य हर्षपुलकैः विनिगूह्य लज्जाम् ।
त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां माम्
द्वार्येव सुस्मितकरैरबलामबध्नाः ॥ २० ॥

कच्चित्प्रिये स्मरसि मज्जनके त्वदीयम्
गेहं मया सह गते पितरं मदर्थम् ।
त्वां याचितुं तव पिता तरसाह्वयत्त्वाम् ।
स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम् ॥ २१ ॥

कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैः
सम्प्रेक्षितः परिणयोत्सववेदिकायाम् ।
उच्चैर्ध्वनत्यविरतं शुभवेदघोषे
कर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम् ॥ २२ ॥

कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वम्
वेदीं हुताशनवतीं परितः चरन्ती ।
त्वत्पाणिना मृदुतमेन मदीयपाणिम्
गाढं निपीड्य किमपि व्यलिखः नखाभ्याम् ॥ २३ ॥

कच्चित्प्रिय स्मरसि कामवशं गतस्त्वम्
दाम्पत्यजीवनसुखप्रथमप्रभाते
क्लान्तां विमुच्य शयनं गमनोद्यतां माम्

उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः ॥ २४ ॥
- - - - 

Saturday, May 17, 2014

Sanskrit blog: Humour-98

हास्यसीकरः-९८

न्यायवादी: इदानीं वयमभियोगे जितवन्तः खलु । कच्चिद्वदसि यदि त्वया चौर्यं कृतम्?

अभियुक्तः: ह्यः न्यायालये भवतः वादसरणीं श्रुत्वा शङ्कितोऽहं यदि मया चौर्यं कृतं वा न वा ।
- - -- 

Saturday, May 10, 2014

Sanskrit blog: Conversation between a couple-3

पतिपत्नीसंलापः-३

कच्चित्प्रिये स्मरसि शिक्षणसत्रचर्चा-
स्पर्धोत्सवे ननु मयाग्रपदे ऽर्जिते त्वम् ।
उच्चैः प्रशस्य करवादनरूपनुत्या
व्रीडाजिता पदयुगे न्यविशः स्वदृष्टिम् ॥ १३ ॥

कच्चित्प्रिय स्मरसि मां वटवृक्षमूले
गन्तुं पुरीं व्यवसिते त्वयि शिक्षणार्थम् ।
त्वां द्रष्टुमागतवतीं जनकात्प्रभीताम्
वृष्ट्यातपावृतधरामिव सस्मितास्राम् ॥ १४ ॥

कच्चित्प्रिये स्मरसि चैत्रविरामकाले
पुर्याः निवृत्य तव गोप्यसखीगृहे त्वाम् ।
संदृश्य जातपुलकः न किमप्यवोचम्
ऊर्जामदास्तव कटाक्षसुधानुपानैः ॥ १५ ॥

कच्चित्प्रिय स्मरसि बाष्पनिरुद्धदृष्ट्या
मां पत्तनं मम पितोन्नतशिक्षणाय ।
संप्रैषितुं मतिमतीं खलु नान्वजानत्
इत्युक्त एव हि मया त्वमसान्त्वयो माम् ॥ १६ ॥

कच्चित्प्रिये स्मरसि तत्र मया यदुक्तम्
भावीपतिस्तव करिष्यति पण्डितां त्वाम्
पाणिं मनागुदनयः मम दण्डनार्थम्
रुष्टेव हन्त न तु मे करपातभाग्यम् ॥ १७ ॥

कच्चित्प्रिय स्मरसि पुस्तकपृष्टमध्ये
प्रच्छाद्य पत्रमनुरागरसाप्लुतं ते ।
स्वस्रा सह प्रणिहितं मम वाचनार्थम्

दैवादवेन्नजनको मम तं प्रसङ्गम् ॥ १८ ॥
- - - - 

Saturday, May 3, 2014

Sanskrit blog: Humour-97

हास्यसीकरः-९७

भर्ता: प्रिये, यदि मह्यं प्रभूतं स्वं मम पिता न अदास्यत् त्वं मां अवरिष्यः किम्?
भार्या: प्रिय, यदि न केवलं तव पिता अन्यः कोऽपि तुभ्यं प्रभूतं स्वम् अदास्यत्, तदापि अहं त्वाम् अवरिष्यम्। 
- - - -