Wednesday, June 29, 2011

Sanskrit blog: A love lyric

आर्याछन्दसिनिबद्धं शृङ्गारचाटु

दयितेक्षणगुणबद्धः

युवा स्वोद्योगाय गन्तुमुद्यतः ।

स्वगृहाद्बहिः गतो वा

न वा देहल्येव जानाति ॥

- - - -

Saturday, June 25, 2011

Sanskrit blog: Humour_13

हास्यसीकरः_१३

ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी(lawyer) आसीत् | तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान् इति ।

ब्रह्मदत्तः गंभीरस्वरेण अवदत् , भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति? । किञ्चित्संभ्रान्तः देवदत्तः अवदत्, न विदितम् इति । ब्रह्मदत्तः पुनरुवाच, भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?

यावत् देवदत्तः भवतः क्षमां याचे । नितरां दुःखितोऽस्मि इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?
- - - -

Monday, June 13, 2011

Sanskrit blog: done that, been there

कृतं तत् गतं तत्

कृतं तत् गतं तत् न कार्यं न गम्यं ममात्रास्ति किञ्चित् ।

हर त्वं द्रुतं मां त्वदीयं परिष्वङगमेव प्रतीक्षे ॥

- - - -

Sunday, June 12, 2011

Sanskrit Blog: Humour_12

- हास्यसीकरः_१२

- काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति

- युवा किञ्चिद्विहस्य अवदत्, आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः

- वृद्धा झटित्युवाच, तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!

- - - -

Sanskrit blog: A lyric in a new metre

कान्तचरणानाम नवं वृत्तं लक्ष्यश्लोकश्च

नवं वृत्तं एकोनविंशत्यक्षरयुक्तं कान्तचरणानाम निरूप्यते:

म्रौभ्नौ पश्चात् यनौगुः मुनियतिसहिता कान्तचरणा ।

अस्मिन् कान्तचरणानाम्नि वृत्ते मगणरगणौ तदनु भगणनगणौ पश्चात् यगणनगणौ अन्ते गुरुश्च भवन्ति । मुनियतिसहिता सप्ताक्षरान्ते यतिश्च संभवति ।

- अनेन शृङ्गारमुक्तकेन उदाहृतं च:

पुत्रे शालां प्रयाते गतवति पितरि क्रेतुमगदम्

याच्ञामादृत्य भर्तुः निधुवनसुखमिच्छोः प्रियतमा ।

भुक्ता श्रान्ता सुतृप्ता स्वपिति रमणमाश्लिष्य सुचिरम्

स्वेदक्लिन्नापराह्णे विगलितपरिधानं न गणयन् ।।
- - - -