Saturday, August 27, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-52

चन्द्रिका-५२

गृहमेत्य रथादवातरत्
वनिता यावदहो तिरोऽभवत् ।
सकलः रथवाजिसारथि-
प्रकरस्तावदतर्क्यमायया ॥ १९५ ॥

वसनं च दुकूलनिर्मितं
सहसा दासजनोचितं क्षणात् ।
अभवत् मणिरत्नभूषणा-
न्यगमन् मन्त्रहतान्यदृश्यताम् ॥ १९६ ॥

सुतया सह नर्तनाङ्गणात्
गृहमेत्य स्वनियोगतत्पराम् ।
अवलोक्य जहर्ष चन्द्रिकाम्
गतशङ्का स्वसुखोद्यता कला ॥ १९७ ॥
x x x
नृपसुते स्मरमार्गणदारिते
विलपति प्रिययैव विनाकृते ।
नृपभटाः त्वरया हि समानयन्
उपवनाधिगतां मणिपादुकाम् ॥ १९८ ॥
- - - -

Saturday, August 20, 2016

Sanskrit blog: Chanrika ( A Fairy tale)-51

चन्द्रिका-५१

अथ नर्तनहर्षसागरे
प्लवमाना सहसा ससाध्वसम् ।
घनगर्जितवत्भयावहं
व्यशृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१ ॥

हरिणीव मृगेन्द्रगर्जन-
श्रवणार्ता झटिति प्रमुच्य सा ।
नृपपुत्रकरं भयद्रुता
तमनापृच्छ्य दधाव मण्डपात् ॥ १९२ ॥

अवितर्कितनिर्गमात् स्त्रियाः           
मतिशून्ये भवति त्रिविक्रमे ।
स्मृतवत्यथ देवतावचः
स्वरथं प्राद्रवदार्तभामिनी ॥ १९३ ॥

अगमद्वनिता यदा द्रुतं
व्यगलत् स्फाटिकवामपादुका ।
त्वरयाकुलमानसाबला 
न वराकी तदबुधत् रथोन्मुखा ॥ १९४ ॥
- - - -

Saturday, August 13, 2016

Sanskrit blog : Chandrika ( A Fairy tale)- 50

चन्द्रिका-५० 

प्रसभं विचकर्ष किं बलात्
अथवा तामवहत् भुजान्तरे ।
स्वयमेव गतानुसृत्य तं
क्षणमुग्धा न किमप्यवैत्तदा ॥ १८७ ॥

शशिरश्मिसुधाभिरञ्जिते
वरनृत्योचितभव्यकुट्टिमे ।
नृपपुत्रेण सहोत्सवप्रिया
सविलासं प्रणनर्त चन्द्रिका ॥ १८८ ॥

नृपपुत्रसुहृद्गणैः सह
प्रणनर्तुः प्रमदाः समुत्सुकाः ।
न हि कापि भवत्यतर्पिता
तरुणोत्साहमयं नृपाङ्गणम् ॥ १८९ ॥

किमुवाच मिथस्त्रिविक्रमः
किमभूतात्महृदुत्थमुत्तरम् ।
सुतरां न हि वेत्ति चन्द्रिका
क्षणिके स्वर्गसुखे परिप्लुता ॥ १९० ॥
- - - - 

Saturday, August 6, 2016

Sanskrit blog: Chandrika ( A Fairy tale) -49

चन्द्रिका-४९

मम हस्तपरिग्रहक्रियाम्
अनुजानासि यदि प्रभावति ।
प्रणयार्णववीचिसंप्लवे
परिषिक्तं कुरुषे चिराय माम् ॥ १८३ ॥

इति राजकुमारभाषितं
श्रवणानन्दकरं निशम्य सा ।
कुरुते न मतिं करार्पणे
न निराकर्तुमनर्घयाचनाम् ॥ १८४ ॥

कदलीव मरुज्जवाहता
प्रचकम्पे सुभृशं कृशोदरी ।
अवलम्बनहेतुनेव तत्-
करमाशु प्रणयी स जग्रहे ॥ १८५ ॥

तरुणस्य कराग्रसङ्गमात्
पुलकस्वेदयुगेन बाधिता ।
तनुसंहननश्रिया प्रिया

भजते कामपि नव्यभोग्यताम् ॥ १८६ ॥
- - - -