Saturday, December 27, 2014

Sanskrit blog: New Year Aspirations

नववर्षशुभाकाङ्क्षा

परधर्मसहिष्णुता जने नववर्षे सततं प्रवर्धताम् ।
निजधर्मविकासकर्मणि प्रभवेन्नान्यमतप्रदूषणम् ॥
जिघांसां परित्यज्य मैत्रीं श्रयामो
युयुत्सां परित्यज्य सन्धेर्विधानम् ।
मिथो प्रेम एवास्मदुच्छ्रायमार्गः
न चेत्सर्वतो हानिमाप्नोति लोकः ॥
- - - - 

Saturday, December 20, 2014

Sanskrit blog: Humour-109

हास्यसीकरः-१०९

कस्मिंश्चित् ग्रामे कयोश्चन दम्पत्योः सुतरां प्रतीपौ बालौ आस्ताम् । प्रायेण ग्रामे यदि किमपि दुष्टकर्म सम्पद्यते चेत् तत् तयोः बालयोः एव कर्म इति प्रथितमभवत् । तयोः व्यथितौ पितरौ ग्रामस्य अचिरमागतस्य पूजकस्य समीपं गत्वा स्वबालयोः विषये समभाषेताम् । पूजकः बालयोः प्रतीपत्वशमने साहाय्यं ददामीति सनिश्चयमकथयत्, “अलं शोकेन । बालयोः एकैकं मिथः संभाषयिष्ये” इति । प्रथमं भ्रात्रोः कनीयान् पूजकं समुपयातः ।पूजकः गम्भीरस्वरेन तमवदत्, “पीठे उपविश” इति । बालः तथाकरोत् ।पूजकः पुनरवदत्, “ईश्वरः कुत्र? वद” बालः मौनमाश्रयत् । पूजकः पुनः उच्चैः अपृच्छत्’ “ईश्वरः कुत्र? शीघ्रं वद” । तदापि बालः न किमप्यवदत् । पूजकः उच्चैस्तरपृच्छत्, “ईश्वरः कुत्र?” । तदा भीतः बालः सहसा गृहमधावत् ।  अग्रजस्य कोष्ठं प्रविश्य द्वारं प्यदधाच्च । कोष्ठे स्थितः अग्रजः अपृच्छत्, “किमभवत्?” इति । बालः ससाध्वसमवदत्, “इदानीं महति कृच्छ्रे पतितौ आवाम् । प्रायेण ईश्वरः नष्टः । पूजकः आवामेव कारणमिति मन्यते खलु” इति ।
- - - - 

Saturday, December 13, 2014

Sanskrit blog: An ode to scientific spirit-3

विज्ञानसंस्कृतिः-३

प्रक्रियामुपयुज्य गणितस्य समुचिते
प्रतिरूपसर्जने सरलतामवलम्ब्य
दृष्टतथ्यानां निरूपणे सक्षमाः
नूत्नतथ्याविष्करणनिपुणकल्पनाः
विरचयन् विज्ञानसंस्कृतिर्विजयते
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३ ॥

विश्वस्य तत्त्वमतिसरलं च सुन्दरम्
मन्यमानास्तस्य मार्गणे शेमुषीं
सततं प्रयुज्य ते सत्यसंशोधकाः
विज्ञानगतिपथे प्राचलन् रंहसा
नाशयन्तो मौढ्यजालानि सर्वथा
तत्संस्कृतेरेव ताडयत जयडिंडिमम् ॥ ४ ॥
- - - - 

Saturday, December 6, 2014

Sanskrit blog: An ode to scientific spirit-2

विज्ञानसंस्कृतिः-२

किं ववौ मारुतो मन्थरं मृदुलं च
किं रवेरातपः प्रखरतां नाभजत्
किं पुष्पवृष्टिरभवन्नभोमण्डलात्
गलिलियो गलिलै यदा जनिमवाप्तवान्
यस्माद् हि विज्ञानसंस्कृतिः प्रारभत

तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ २ ॥ 
- - - -