Saturday, July 28, 2012

Sanskrit bog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच

तारासहस्राणि सन्ति चेन्नभसि किम् ।
करदीप एव पान्थस्य निशि शरणम्।
दूरे स्थितं दैवमस्तु खलु मानुषो
मित्रमिच्छति कमपि मूढतिम्मो ॥ ४२४ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕಾರಿರುಳೊಲಾಗಸದಿ ತಾರೆ ನೂರಿದ್ದೇನು
ದಾರಿಗನ ಕಣ್ಗೆ ಬೇಕೊಂದು ಮನೆಬೆಳಕು |
ದೂರದಾ ದೈವವಂತಿರಲಿ ಮಾನುಷಸಖನ
ಕೋರುವುದು ಬಡಜೀವ ಮಂಕುತಿಮ್ಮ || ೪೨೪ ||
- - - -

Saturday, July 21, 2012

Sanskrit blog: Humour-52


हास्यसीकरः-५२
काचन वृद्धा बेंगलूरु नगरस्य रेल्-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत्.
वृद्धा: “भोः, मैसूरुनगरं प्रति रैल्-यानं निष्क्रान्तं किम्?”
पुरुषः: “बाढम्”।
वृद्धा: “शिमोग्गानगरात् रैल्-यानमागतं किम्?”
पुरुषः:”बाढम्”।
वृद्धा: “चेन्नै नगरं प्रति रैल्-यानं निष्क्रान्तं किम्?
पुरुषः “मातः, अहं न जाने । त्वया कुत्र गन्तव्यम्?”
वृद्धा: “पुत्र, लोहपथं तर्तुं वाञ्छामि ।“
- - - -

Friday, July 13, 2012

Sanskrit blog: So said Timmu the dull headed

मूढतिम्मुरुवाच
अस्ति किं पथचित्रमुत्पतद्विहगस्य ।
अस्ति किं पथविधिर्मत्स्यस्य सलिले ॥
किमपि प्रचोदयति किमपि कर्षत्यत्र ।
पटपत्रमेवासि मूढतिम्मो ॥ ६४१ ॥
[पटपत्रम्=kite (a coined word)]

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಾನೊಳಿರುವುದೆ ಪಕ್ಷಿ ಪಾರ್ವ ದಾರಿಯ ನಕ್ಷೆ |
ಮೀನು ನೀರೊಳು ನುಸುಳೆ ಪಥನಿಯಮವಿಹುದೆ? ||
ಏನೊ ಜೀವವನೆಳೆವುದೇನೊ ನೂಕುವುದದನು |
ನೀನೊಂದು ಗಾಳಿಪಟ ಮಂಕುತಿಮ್ಮ || ೬೪೧ ||
- - - -

Friday, July 6, 2012

Sanskrit blog: Humour-51

हास्यसीकरः-५१
भार्या: यद्यहं दिनपत्रिका अभविष्यम् तदा सदा तव हस्तयोः अस्थास्यम् ।
भर्ता : निस्संशयम् प्रिये, यदि मम भार्या दिनपत्रिका अभविष्यत् तदा प्रत्यहं सा नवा अभविष्यत् ।
- - - -