Tuesday, December 31, 2013

Sanskrit blog: New Year Greetings

नववर्षशुभाकाङ्क्षा
आशासेऽस्मिन्प्रथमदिवसे हायने जायमाने ।
विश्वेशो वो वितरतु शुभान्यन्वहं नूत्नवर्षे ।
सत्संकल्पाः ससुखफलतां यान्तु देवप्रसादात् ।  

स्वैरं नृत्यत्वनुदिनमनिशं मन्दहासो मुखेषु ॥
- - - - 

Saturday, December 28, 2013

Sanskrit blog: Humour-88

हास्यसीकरः-८८
क्रिस्तदेवालयस्य अर्चकः साप्ताहिकप्रवचनाय देवालये जनान् समीक्षते स्म । चिराय एक एव कर्षकः आगतः ।अर्चकः तमपृच्छत्, “भोः अद्य मम प्रवचनाय एक एव आगतोऽसि । किमहं प्रभाषै उत न?” इति । कर्षकः सप्रश्रयं प्रत्यवदत्, “ भगवन्, भवान् किमित्थं पृच्छति ? कुक्कुटपरिवेषणसमये यदि एक एव कुक्कुटः आगच्छति तदा तस्मै खाद्यं न देयं किम्?” इति । कर्षकप्रत्युत्तरेण विस्मितः अर्चकः तमवदत्, “भोः, तव विवक्षितमवगतम् । अवहितः शृणु” इत्युक्त्वा निरर्गलं सार्धघटिकापर्यन्तं बभाषे । अन्ते अर्चकः कर्षकमपृच्छत्, “भोः, कच्चिन्मम प्रवचनं समीचीनम्?” इति । तदा कर्षकः प्रत्यवदत्, “भगवन्, खादनसमये यदि एक एव कुक्कुटः समागतः तदा सर्वं द्रोणप्रमाणं खाद्यं तस्मै न समर्पयामि खलु “इति ।
- - - -  

Friday, December 20, 2013

Sanskrit blog: Happiness

तुष्टिः
चित्रशलभमभिधावसि चेत्त्वम् तं ग्रहीष्यसि कदापि न मित्र ।
त्वं भविष्यसि यदा निरपेक्षः स्वैरमेव   स उपैति खलु त्वाम् ॥
तद्वदेव यदि वाञ्छसि तुष्टिं तामनुसृत्य कदापि न गच्छेः ।
यद्युदास इव तिष्ठसि चेत्त्वाम् स्वेच्छया खलु सा त्वभिधावेत् ॥

A rough rendering in Sanskrit of the following:

“Happiness is a butterfly which, when pursued, is always beyond our grasp, but which if you will sit down quietly, may alight upon you.”
- - - - 

Saturday, December 14, 2013

Sanskrit:Humour-87

हास्यसीकरः-८७
स्त्री पत्या सह कलहमकरोत् । तदनु स्वमातरं दूरवाण्या अवदत्, “अम्ब, पुनः मम भर्ता मया सह कलहमकरोत् । तेन सह जीवनं दुष्करम् । तव गृहमागमिष्यामि” इति । माता अवदत्,”वत्से, त्वमत्र आगमिष्यसि चेत् सः सुखी एव भविष्यति । तस्य अपराध: दण्डनीयः । अहमेव तत्र आगमिष्यामि । मम उपस्थित्या एव तं दण्डयिष्यसि” इति ।
- - - -  

Saturday, December 7, 2013

Sanskrit blog: Homage to Mandela

मण्डेलाश्रद्धाञ्जलिः
यो जज्ञेऽसितवर्णभूपतिकुले ऽवाङाफ्रिकाभूस्थले ।
येन श्वेतजनप्रशासनविरोधार्थं कृतो विग्रहः ।
यो श्वेतैः बहुवत्सरावधि तनुद्वीपे निबद्धो ऽभवत् ।
यो पश्चात् सकलैः सितासितजनैः देशेषु सम्भावितः ।
राष्टाध्यक्षपदं मुदा सविनयं धीरेण येनार्जितम् ।
नोबेल्भारतरत्नपदवीभाग्यो महान् निःस्पृहः ।
गान्धीमार्गचरः सदास्मितमुखो लोकप्रियः सज्जनः ।

मण्डेलाख्यमहोदयाय भवते श्रद्धाञ्जलिं दद्महे ॥
- - - -