Sunday, April 3, 2022

 प्रहेलिका

सायं काचित्पतिगृहमगान्मेलितुं स्वप्रिये

प्रातः याताध्वनि हि विचरन्ती स्वगेहं निवृत्ता ।

तस्या वेगः प्रथमदिवसे षट्सहस्राणि मीटर्

घण्टायां चेत्तदितरदिने केवलं भोः तदर्धः

माध्यं वेगं वद यदि चतुरः द्राक् सुहृद्वारिजाक्ष्याः ॥ [माध्यवेगः=average speed]

No comments:

Post a Comment