Saturday, November 6, 2021

आयाहि बन्धो

 आयाहि बन्धो

त्वरितमृदुपद्भ्यां त्वमायाहि बन्धो

दौवारिको नास्त्यनावृतं द्वारम् ॥ १ ॥

आगच्छ निःस्वनं स्वागतं ते स्यात्

प्रतीक्षा मदीया सफलं भवेद्द्राक् ॥ २ ॥

बालस्य निद्रेव तूर्णमायाहि

आगच्छ मेघवत् गर्जनं मा भूत् ॥ ३ ॥

आगच्छ चोर इव धरणीं प्लवन्त्वम्

कोऽपि पश्येन्न शृणुयान्न कोऽप्यत्र ॥ ४ ॥

यद्दर्शनीयमिह तदहं त्वपश्यम्

यद्घ्राणयोग्यमिह तदहं त्वजिघ्रम् ॥ ५ ॥

अशृणवमहं श्रव्यमत्रयल्लोके

स्पृश्यानि स्पृष्टानि भोज्यमपि भुक्तं ॥ ६ ॥

नोदनमवश्यं न कर्षणं चापि

सज्जोऽस्मि निर्भरो त्वामनुसरामि ॥ ७ ॥

पश्य मां तव हसितचञ्चलितदृग्भ्यां

नयतु मां ते मृदुलहस्तावलम्बम् ॥ ८ ॥

तव चरणपातमनुसरति मयि बन्धो

स्मितपल्लवं लसतु मम वदनवल्ल्याम् ॥ ९ ॥

_ _ _ _

Monday, November 1, 2021

किंवर्षीयः कवे त्वम्?

   किंवर्षीयः कवे त्वम्?

“किंवर्षीयः कवे त्वं जरठ वद” “मयास्योत्तरं नोक्तपूर्वम्”

“अस्तु, प्रश्नोऽपरो मे, कविवर कतिकृत्वो धरा कर्मनिष्ठा ।

आ त्वज्जन्मात् स्वमार्गे दिनकरमभितः सञ्चचालेति”  “बाढम्,

श्लोकेऽस्मिन्नुच्यमाने गणय शितमते योजितान्यक्षराणि” ॥

_ _ _ _

Wednesday, October 6, 2021

सीतायाः पतये नमः

 सीतायाः पतये नमः

संरक्ष्य कौशिकस्येज्यां भङ्क्त्वा शैवधनुर्महत् ।

मैथिलीं यो पर्यणयत् दृप्तभार्गवदर्पहा ॥ १ ॥

पितुरादेशमादृत्य चतुर्दशसमा वनम् ।

भ्रातृभार्यासमेतः सन् योऽगच्छत् सत्यवाग्वशी ॥ २ ॥

खरसूदनसन्त्रस्तरावणेन हृतां प्रियाम् ।

विचिन्वन् दुःखसन्तप्तः पम्पातीरं जगाम यः ॥ ३ ॥

प्राप्य सुग्रीवसख्यं यो वालिनं वानराधिपम् ।

निहत्य प्राहिणोत्सीतामार्गणार्थं वनौकसः ॥ ४ ॥

उल्लङ्घ्याब्धिं प्राप्य लङ्कां सीतां सम्भाष्य मारुतिः।

लेभे यस्यपरिष्वङ्गं सर्वक्लेशनिवारकम् ॥ ५ ॥

सेतुं निबद्ध्यार्णवस्य रावणादीन् निहत्य च ।

सभार्यो योऽभिषिक्तोऽभूदयोध्यायां तपोधनैः ॥ ६ ॥

तस्मै सर्वशरण्याय सत्यधर्मव्रताय च।

रक्षित्रे जीवलोकस्य स्वजनस्य ममैव च ॥ ७ ॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ८ ॥

- - - -

Wednesday, September 29, 2021

लज्जातिरोहिता प्रहेलिका

 लज्जातिरोहिता प्रहेलिका

भजतीनकरस्पर्शात् तन्द्रिता कृशतां यदा ।

भ्राजमाने नभस्यर्के छाया भवति ते कृशा ॥

सुषमां गगनं विन्दत्यागते गवि काननात् ।

विश्रान्तं सुलभं शेते भुवनं तमसावृतम् ॥

पुष्पावृतारण्यदेशाः दिने शीतजलं हितम् ।

तृप्तो जलावृतो लोकः हृद्या शारदयामिनी ॥

जने सूर्यकरौत्सुक्यं  शिवरात्रिमहस्तदा ।

लज्जातिरोहितामेकां - - - - - - - - ॥
- - - -

Saturday, September 11, 2021

मङ्गलाचरणम्

 मङ्गलाचरणम्

विश्वामित्रस्य यज्ञस्य गोप्त्रे रामाय मङ्गलम् ।

भङ्क्त्वा शैवधनुं सीतां परिणेत्रेऽथ मङ्गलम् ॥ १ ॥

पितृवाक्पालनार्थं द्राक् चतुर्दशसमा वनं ।

गताय सत्यशीलाय रामभद्राय मङ्गलम् ॥ २ ॥

मुनिमण्डलरक्षार्थं खरादीन् राक्षसान् वने ।

घ्नते सलीलं वीराय रामचन्द्राय मङ्गलम् ॥ ३ ॥

भार्यापहरणत्रस्ते चित्ते सीतां विचिन्वते ।

सुग्रीवक्षेमपालाय वेधसे मम मङ्गलम् ॥ ४ ॥

किष्किन्धां पुनरायाते सीतां दृष्ट्वा हनूमति ।

तस्मै आलिङ्गनं दात्रे रघुनाथाय मङ्गलम् ॥ ५ ॥

रावणादीनरीन् हत्वा भ्रातृभार्यापुरःसरम् ।

अयोध्यां पुनरागत्याभिषिक्तायास्तु मङ्गलम् ॥ ६ ॥

_----

Saturday, August 21, 2021

 

वाणिज्यं करवावेत्थं भवेत्ते लाभदायकम् ।

स्वीकृत्य मे कामधनं देहि क्रोधदरिद्रताम् ।

स्वीकृत्य मे लोभधनं देहि मोहदरिद्रताम् ।

स्वीकृत्येर्ष्याधनं देव देहि गर्वदरिद्रताम् ॥

Barter with God

Let us trade, dear God such that it is profitable for you. Take my wealth in desire and give me poverty of anger; take my wealth in avarice give me poverty in delusion; take my wealth in jealousy and give me poverty in haughtiness.

Saturday, July 24, 2021

 

अतो कर्षति वाग्देवी विवक्षेतो विकर्षति ।

कर्षणैर्नोदनैः त्रस्तः श्लोकः मूकत्वमेत्यहो॥  

Goddess of Words pulls that way, Intent pulls this way. The verse tired of pulls and pushes goes silent, alas!

Sunday, February 7, 2021

निजकुलकथा-४

 निजकुलकथा-४

पुत्रे मुम्बां प्रयाते विधिलिखितमिव श्रीनिवासस्य देहः

कार्श्यं लेभे निदाघेऽनवरततपनक्लान्तपर्णेव वल्ली ।

ख्याते र्वैद्ये चिकित्सां वितरति न विना माधवस्य प्रसादं

किञ्चित् सार्थं भवेद् वै किमपि न फलति प्रत्यवायाक्तभाग्ये ॥ ३१ ॥

 

प्राणास्तातस्य यावन्निजतनुभरणेऽशक्ततामाप्नुवन्तः

तावद्दूरेस्थितस्याध्ययनरतसुतस्याङ्घ्रियुग्मं चकम्पे ।

यावद्भीतोऽपराह्ने किमिदमिति हृदि क्षोभमाप्नोदपूर्वं

विद्युत्तन्त्र्यागमद्द्राक् स्वपितुरुपरतेस्तावदेवोग्रवार्ता ॥ ३२ ॥

विद्युद्वेगेन गन्तुं त्वरयति हि मनो द्रष्टुमिष्टान्वियोगे

साध्यं स्यात्किं मनुष्यैर्नियमितकरणप्रत्यवायप्रबद्धैः ।

रैल्-यानेनागमत्सो वॄषयुगशकटेनाप्यगादध्वशेषम्

हन्त प्राप्तिर्न  तस्य स्वजनकवदनालोकनाद्वञ्चितोऽभूत् ॥ ३३ ॥

मातुः श्वश्रूर्विमाता किसलयसदृशभ्रातरो वर्धमानाः

पुत्रः पुत्री विमातुश्च मृतनिजपितुः स्वं प्रभूतं प्ररूढम् ।

आत्माऽपर्याप्तविद्यः कथमिव वहति स्थूलकौटुम्बभारं

शेल्वप्पिल्लै वियोगे पितुरनवधिकक्लेशमापाद्वितीयः ॥ ३४ ॥

यद्यद्भव्यं भवेद्वै कथमपि जनकस्योत्तरं कर्म कृत्वा   

मुम्बां तूर्णं प्रतस्थेऽविचलितमनसाध्येतुकामो मनस्वी ।

अध्यैतैकाग्रबुद्धिः प्रतिदिनमुदयादानिशीथं प्रकामं                         

प्राप्तं साफल्यमन्ते श्रमजनितफलं वर्त्मशल्यानि भिन्त्ते ॥ ३५ ॥

पुर्या निर्वर्त्य धीमान् पितृचलितपथा रिक्थसंरक्षणार्थं

गन्तुं येते कुटुम्बावनभरणविधौ दक्षतां चाधिगन्तुम् ।

मातुर्गेहे वसन्तीं दयितपरिचये लालसां धर्मपत्नीं

आनैषीत्तूर्णमेव प्रणयसहचरी कार्यसाफल्यगोप्त्री ॥ ३६ ॥

किञ्चित्कालं  प्रयेते जनकचितधरापालनं चाधिवक्तुः                         

कार्यं कर्तुं च निष्ठस्तदसुकरमभूत् कृत्ययुग्मस्य भारात् ।

अश्वद्वन्द्वाधिरोही पतति हि तुरगाभ्यां न गच्छन् पदे द्वे  

शेल्वप्पिल्लै स्वकालं स्वजनकधनसंरक्षणे हि न्ययुङ्क्त ॥ ३७ ॥  

अब्दास्त्वायान्ति शीघ्रं गणनमसुकरं दम्पतिभ्यां नवाभ्यां

कामे धर्मावरुद्धे सुखमनुभवतोः बाधते स्मोग्रपीडा ।

निस्सन्तानौ भवेतामिति गुरुवचसा चोदितः शेल्वपिल्लै

श्रीमद्रामायणस्य प्रणतहितकरे वाचनेऽभूत्प्रवृत्तः॥ ३८ ॥  

मासीषे शेल्वपिल्लै व्रतमिव नवरात्रे विना प्रातराशं

वाल्मीकेः काव्यधारां व्यतरदविचलश्रद्धया बन्धुवर्गे ।

पश्चादिष्टैःसहैवाददनुपमनिजप्रह्वतां दर्शयन् सः

भक्ष्यान् भोज्यान्श्च पेयानतिथिजनहिते श्रद्दधानो विनीतः ॥ ३९ ॥   

श्रीसीतारामदत्तो निरवधिकनिधिः पुण्यपुञ्जः प्रसादः

जज्ञे नारायणाख्यः कडबगृहजने हर्षपद्मस्य सूर्यः ।

सीताम्बायां गृहिण्यामनुभवति धवे व्यग्रतालिप्तहर्षं

श्रीमन्नारायणाख्ये प्रणतजनहिते दैवते न्यस्तभारे ॥ ४० ॥

[अनुवर्तते]