Saturday, April 30, 2016

Sanskrit blog: Chandrika (A Fairy tale)-35

चन्द्रिका-३५

पश्यन्ती दरचकिता बिडाललीलां
सस्माराभयवचनं मुनेः पुरोक्तम् ।
प्रागेव प्रकटितसार्थकप्रयोगं
संस्मृत्यामितसुषमामवाप तन्वी ॥ १३९ ॥

चित्ते तं समुचितसूचकं बिडालं
वन्दित्वा प्रशमितधीः दृढप्रतिज्ञा ।
संस्थायादृतकमलासनेऽजपत्सा
साधूक्ताभिलषितदं क्रमेण मन्त्रम् ॥ १४० ॥
- - - - 

Saturday, April 23, 2016

Sanskrit blog: Chandrika (A Fairy tale)-34

चन्द्रिका-३४

अश्वोढे ललितरथे द्रुतं गतायां
वैमात्र्यां नरपगृहं सह स्वमात्रा ।
दिङ्मूढा चिरमरुदत्स्वमन्दभाग्ये
मार्जालं हृदि परिरभ्य चन्द्रिकार्ता ॥ १३७ ॥

मार्जालः परिपतति स्म सान्त्वनार्थं
मा शोचीरिति वदतीव तामुपेत्य ।
तिर्यञ्चः स्वहितजनस्य सर्वभावान्
जानन्ति प्रकृतिगतेङ्गितावबोधात् ॥ १३८ ॥ 
- - - - 

Sunday, April 17, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-33

चन्द्रिका -३३

औत्सुक्यं निरवधिकं गृहे कलायाः
सम्भ्रान्ते खलु विदधे कलामुमां च।
स्मर्तव्यं बहु नरपस्य सन्निधाने
वाग्दोषा दुरभिरुचिश्च गूहितव्याः ॥ १३५ ॥ 

नासाग्रे स्फुरदमलं मनोज्ञवज्रं
कण्ठे चाप्रतिमरुचिः प्रलम्बमाला ।
नाभ्यन्ते कनकमयी महार्घकाञ्ची
नैराश्यं किमु कथयन्त्यहो ह्युमायाः ॥ १३६ ॥    
  - - - -  

Saturday, April 9, 2016

Sanskrit blog: Chandrika (A Fairy tale)-32

चन्द्रिका-३२

श्रुत्वा तामभिभवकारिणीं दुरुक्तिं
दासीव व्यथितमतिः विनम्रमौलिः ।
नोवाच प्रतिवचनं प्रसह्य कोष्ठं
तत्याज प्रणतजनस्य कोऽन्यमार्गः ॥ १३२ ॥                   

आयाता पुरललनासु पौर्णमासी
आशेन्दीवरमुकुलान्विकासयन्ती ।
ऐश्वर्याप्लुतवरगृहेषु संस्थितासु
दारिद्र्योपहततृणावृतोटजेषु ॥ १३३ ॥

रथ्याः शीतसलिलसीकरैः प्रसिक्ताः
आमोदाः मलयजचन्दनप्रसूताः ।
नानावर्णसुमदलावृताः प्रकोष्ठाः
पौराणां मुदमवदन्निवापुरान्तम् ॥ १३४  ॥
- - - - 

Saturday, April 2, 2016

Sanskrit blog; Chandrika ( A Fairy tale)-31

चन्द्रिका-३१
 श्रुत्वैतत्सपदि कलाप्युमां स्वपुत्रीं
 सज्जीकर्तुमयतत स्वनिश्चयाक्ता ।
 भूषालङ्करणगणैः महार्घवस्त्रैः
 किं भूषा किमु वसनं ह्यरूपवत्याः ॥ १२८ ॥    

संश्रुत्य श्रवणसुखामपूर्ववार्ताम्
 उत्कण्ठां ह्यलभत चन्द्रिकाप्यवर्ण्याम् ।
 किं राज्ञः प्रियतनयस्य कम्रपाणेः-
 स्पर्शेनोद्गतपुलकाः न मामकीनाः ॥ १२९ ॥

 उद्युक्तां जनपसुतस्य नृत्यगोष्ठीं
 औत्सुक्यादपरिमिताज्जवेन गन्तुम् ।
 वैमात्रीं प्रणतमुखी मिथो ययाचे
 गच्छेयं नृपसदनं त्वया सहाह्म् ॥१३० ॥

मात्सर्यं कथमपि गूहितुं प्रवृत्ता
व्याचष्टे स्म मधुरसावहासवाग्भिः ।   
हञ्जे त्वां नृपसुत एव नाययेद्वै
मृग्यन्ते तव सदृशाः कुलीननार्यः॥ १३१ ॥
- - - - 

Saturday, March 26, 2016

Sanskrit blog: Chandrika ( A Fairy Tale)-30

चन्द्रिका-३०

श्लाघित्वा स्वसुतविवक्षितं नृपालः
सम्मन्त्र्य स्वहितजनैः विवाहकार्ये ।
पुत्रार्थे परिणयघोषणामसाध्नोत्
एवं सः नगरभटैः प्रगे विधेयैः ॥ १२४ ॥  

भोः पौराः श्रुणुत नृपस्य घोषणां भोः
उद्वाहः नृपतनयस्य निश्चितोऽस्ति ।
प्रासादं निशि समलङ्कृताः कुमार्यः
आयान्तु त्वरितपदेन पौर्णिमास्यां ॥ १२५ ॥

युष्मास्वेव नृपसुतः प्रदोषकाले
धन्यां काञ्चिदननुमेयचारुरूपाम् ।
ज्योत्स्नायां वरयति पौरनृत्यरङ्गे
आयान्तु त्वरितपदेन पौरकन्याः ॥ १२६ ॥

 इत्येवं नरपतिघोषणां निशम्य
 कन्यामातरपितरौ प्ररूढमोहौ ।
 सर्वौ स्वां दुहितरमीश्वरानुकूल्यात्
 ईहेते स्म नृपसुतकङ्कणात्तभाग्याम् ॥ १२७ ॥
- - - - 

Saturday, March 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-29

चन्द्रिका-२९

पुत्रः स्वाद्वतिसुखदं निशम्य वाक्यं
मानार्थं सपदि नियन्त्रितानुभावः ।
स्वोद्वाहं निरुपमकन्ययानुमेने
तारुण्ये परिणयवाक् सुखावहा वै ॥ १२० ॥

सद्वंश्याः तनय चिनोम्यहं त्वदर्थं   
सद्वृत्ताः रुचिरमुखीश्च राजपुत्रीः ।
तासु त्वं वरय यदृच्छया मनोज्ञां
कन्यां या तव भविता हि धर्मपत्नी ॥ १२१ ॥

इत्युक्तः सविनयमब्रवीत्तनूजः
ओषध्यः गहनवनान्तरे न किं स्युः ।
अब्धौ किं वदतु लभामहे न मुक्ताः
भूगर्भे न भवति किं प्रशस्तवज्रः ॥ १२२ ॥

व्यासस्य प्रथितमुनेः किमाभिजात्यं
बालघ्नः सगरसुतः न किं कुलीनः ।
विश्वासो मितचयने न मेऽस्ति तात
पुर्यां ते तृणकुटजेऽपि मे प्रिया स्यात् ॥ १२३ ॥
- - - - 

Saturday, March 12, 2016

Sanskrit blog: Chandrika (A Fairy tale)-28

चन्द्रिका-२८

तत्रासीत्कथितमहापुरे नृपालः
सद्वृत्तः प्रथितयशाः गुणाभिरामः ।
चन्द्राख्यः स्वविषयपालने धुरीणः
सन्तुष्यन् प्रियहितकर्मभिः स्वपौरान् ॥ ११६ ॥

तस्यासीत् मदननिभो युवा तनूजः
विद्यावान् विनयखनिःत्रिविक्रमाख्यः
यं दृष्ट्वा पुरललनागणः प्रदध्यौ
सासूयं वरयति कामयं सुधन्याम् ॥ ११७ ॥

चन्द्रस्तं तनुजमपूर्वरूपभाजं
तारुण्ये निरुपमशोभया ज्वलन्तम् ।
द्रष्टुं द्राक् समुचितकन्यया समेतम्
दाम्पत्ये समरसशालिनं व्यकाङ्क्षीत् ॥ ११८ ॥

पुत्रं सोऽगदतनुरागपूर्णवाचा
विद्यायाः समधिगतोऽसि वत्स पारम् ।
तेऽतोऽहं परिणयकाल इत्यवैमि
तन्वीं त्वं सदृशगुणां वधूं वृणीष्व ॥ ११९ ॥
- - - - 

Saturday, March 5, 2016

Sanskrit blog: Chandrika (A Fairy tale)-27

चन्द्रिका_२७

दीयते यदि पयो निजपात्रे
सत्वरं पिबति मीलितनेत्रः ।
चिन्तयन्निव धरा लयमीयात्
तेन किं मम पयो यदि लब्धम् ॥ ११२ ॥

चन्द्रिकाङ्कमधिरुह्य दिनान्ते
कन्दुकाकृतिमवाप्य स शेते ।
मूकजन्तुरनुरागनिबद्धः
स्निह्यति ह्यतिशयेन मनुष्ये ॥ ११३ ॥

मूषकान् निशि हिनस्ति सखेलं
पाककोष्ठविघसादनदक्षान् ।
प्रीणयन् स्वकलया निजगोप्त्रीं
चन्द्रिकां सपदि मूषकभीताम् ॥ ११४ ॥

इत्थमीप्सितपरस्परबन्धौ
तौ दिनान्क्षपयतः कृतकृत्यौ ।
कोऽ‍वगच्छति हरेरभिलाषं
मित्रताह्यसहजापि सुखान्ता ॥ ११५ ॥
- - - - 

Saturday, February 27, 2016

Sanskrit blog: Chandrika (A Fairy tale)-26

चन्द्रिका-२६

चन्द्रिकां स्वनिलयेत्वसहायां
मित्रभावमधिगम्य ययाचे ।
कोऽपि सुन्दरतनुः तनुरूपः
स्वेच्छयाश्रयमुपेत्य बिडालः ॥ १०८ ॥

मोहकध्वनिमदम्यविलासं
स्निग्धशुभ्रमृदुरोमविशिष्टम् ।
चन्द्रिका स्वसखायमवेदीत्
तुल्यशीलविषयेषु सुसख्यम् ॥ १०९ ॥

चन्द्रिकामनुसरन्गृहकार्ये
व्यापृतां मृदुपदैरनिशं सः ।
मावमाविति वदन् दरभीतः
पृच्छतीव न ददासि पयः किम्? ॥ ११० ॥

चन्द्रिका यदि ददाति न दुग्धं
सत्वरं पदतले वनितायाः ।
प्रश्रितं विलुठति स्म बुभुक्षुः
प्रेमचोदकदृशः परिषिञ्चन् ॥ १११ ॥
- - - -