चन्द्रिका -३३
औत्सुक्यं निरवधिकं गृहे कलायाः
सम्भ्रान्ते खलु विदधे कलामुमां च।
स्मर्तव्यं बहु नरपस्य सन्निधाने
वाग्दोषा दुरभिरुचिश्च गूहितव्याः ॥ १३५ ॥
नासाग्रे स्फुरदमलं मनोज्ञवज्रं
कण्ठे चाप्रतिमरुचिः प्रलम्बमाला ।
नाभ्यन्ते कनकमयी महार्घकाञ्ची
नैराश्यं किमु कथयन्त्यहो ह्युमायाः
॥ १३६ ॥
- - - -
No comments:
Post a Comment