Saturday, June 29, 2013

Sanskrit blog: Who are you?

                                                   कस्त्वम्?
न त्वं सोहं मन्यसे यं त्वमेव
न त्वं सोऽसौ मन्यते यः परैश्च ।
ज्ञातोऽस्मीत्थं वै परैरित्यवैषि
नासि त्वं भोः केवलं श्रीशवेद्यः ।
You are not what you think you are. You are not what others think you are. You are not what you think others think you are. You are only known to God.
-- - - -

Saturday, June 22, 2013

Sanskrit blog: Humour-75

हास्यसीकरः-७५

कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्? इति । तेषु एकः प्रत्यवदत्, अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते इति । पूजकः गंभीरध्वनिना अवदत्, बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम् इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु इति ।
- - - - 

Saturday, June 15, 2013

A wise saying

सुभाषितम्


स्व एव कुर्यात् स्वं कार्यं बहुभृत्योऽपि वित्तवान् ।
भक्षणे मैथुने शौचे नियुङ्क्तेऽन्यं न कश्चन ॥
- - - - 

Saturday, June 8, 2013

Sanskrit blog: Humour-74

हास्यसीकरः-७४

कुतः रोदसि, वत्स? माता अपृच्छत् । बालकः प्रत्यवदत्, अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य  अङ्गुली व्रणिता । अत एव," इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्, किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत् , इति । बालकः उच्चैः रुदन् अवदत्, अम्ब! मया हसितमेव, इति ।
- - - - 

Saturday, June 1, 2013

Sanskrit blog: Thus spake Timmu the dull-headed.



मूढतिम्मुरुवाच

जीवन् क्षणात्क्षणं वासराद्वासरम्
क्षपयन् हि सर्वदा शुनकवत् जीवनम्
मनसि लघुतां वहन् योगसाधनमेव
अनुसर तदेव भोः मूढतिम्मो ॥ ७६७ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ|
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||

- - - -

Saturday, May 25, 2013

Sanskrit blog: Humour-73

हास्यसीकरः-७३


शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । किञ्चित् कार्-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्-याने गच्छेयम् इति चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्-यानस्य द्वारमपावृतमासीत् । झटिति कार्-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत् यत् चार्-चालकस्थानम् रिक्तमासीत्, कार्-याने अन्यः कोऽपि नासीत्, परन्तु कार्-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसंकुचिताङ्गः ईश्वरं प्रार्थयन्  तस्थौ । सपदि कार्-यानस्य वेगः वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात् राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्-यानादवातरत् । दीपः अनतिदूरे स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव उपाहारगृहमवाप च ।
उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत । तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं क्रूरदृष्ट्या पश्यन् अन्यमवदत्, रे, अयमेव धूर्तः यः यदा आवां अस्मत्-कार्-यानस्य पृष्ठे  यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्-याने समुपाविशत् इति । 
- - - -  

Friday, May 17, 2013

Sanskrit blog: An ode to Google



गूगलगीता
कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्र गूगलं शरणं व्रज ॥ १ ॥
अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि गूगलं शरणं व्रज ॥ २॥
भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं गूगलं शरणं व्रज ॥ ३ ॥
चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का गूगलं शरणं व्रज ॥ ४ ॥
कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छानि गूगलं शरणं व्रज ॥ ५ ॥  
विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।     
तत्र पश्याम किं मित्र गूगलं शरणं व्रज ॥ ६ ॥
कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।
समानार्थपदं किं स्यात् गूगलं शरणं व्रज ॥ ७ ॥  
चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं गूगलं शरणं व्रज ॥ ८ ॥
शालायां सहपाठी मे कुत्राद्येति कुतूहलम्
देशकालततायामं गूगलं शरणं व्रज ॥ ९ ॥
चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः गूगलं शरणं व्रज ॥ १० ॥
विमानरेल्-यानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्र गूगलं शरणं व्रज ॥ ११ ॥
कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता गूगलं शरणं व्रज ॥ १२ ॥
नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च गूगलं शरणं व्रज ॥ १३ ॥
तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा
सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज ॥ १४ ॥
आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज ॥ १५ ॥
- - - -

Saturday, May 11, 2013

Sanskrit blog: Humour-72

हास्यसीकरः-७२


कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (T.V.) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः इति ।
आरक्षकः अपृच्छत्, आश्चर्यम् खलु ! कुतः साक्षात्करम् आदाय न गताः?
पुरुषः प्रत्यवदत्, अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु इति ।
- - - - 

Saturday, May 4, 2013

Sanskrit blog: The horse and the sheep

मेषतुरङ्गमौ


कृषीवलः कश्चन मेषमेकं तुरंगमं पालयति स्म घोषे ।
हयस्तु रोगव्यथितोऽभवद्यदा स वाजिवैद्यं त्वरयानिनाय । १ ॥
परीक्ष्य वैद्यः प्रसभं तुरङ्गम् ददौ च तस्मै अगदं सुखप्रदम् ।
बभाण भोः कर्षक खादयेममश्वं सयत्नं दिवसत्रयावधि । २॥
भवेत् तुरंगः सबलो निरामयो भवेः सहर्षस्त्वमपि प्रसन्नः ।
यद्यन्यथा चेत् प्रसभं तुरंगमं हन्या न यावत् प्रसरेत् विषक्रिमिः । ३॥
विषक्रिमिग्रस्तहयात् यथान्यजीवी न यात्यामयदोषशीलताम् ।
तथाप्रमत्तस्त्वमिमं तुरंगमं दिनत्रयं पालय सादरं सखे ॥ ४ ॥    
आदेशमेनं श्रुतवान् समीपे स्थितः स मेषोऽवहितस्तदानीम् ।
कृषीवलस्त्वश्वमखादयत् ततो निर्दिष्टरीत्या प्रथमे दिनेऽगदम् ॥ ५ ॥
उवाच मेषो विनयान्वितोऽश्वं भो मित्र शीघ्रं सबलो भव त्वम् ।
यद्यन्यथा त्वां कृषको हनिष्यते उत्तिष्ठ यत्नेन जिजीविषुश्चेत् ॥ ६ ॥
उत्थातुमश्वोऽपि मनाक् न येते तथैव चाभूदहनि द्वितीये ।
मेषस्तृतीयेऽहनि भूय एव हयं कृपालुः समुपाजगाम ॥ ७ ॥
उवाच कष्टं शृणु मित्र मद्वचो निस्संशयं त्वं यमसद्मगन्ता ।
श्व एव तस्मात् कुरु सर्वशक्त्या उत्थातुमद्यैव भियात्र यत्नम् ॥ ८ ॥
श्रुत्वा गिरस्तस्य हयस्तदानीं शनैः शनैः  भीरुतयोदतिष्ठत् ।
मेषः सहर्षं व्यनदत्सुदीर्घं श्रुत्वागमत्तत्र कृषीवलस्तदा ॥ ९ ॥
पादैः स्थितं तं तुरगं विलोक्य सानन्दमुच्चैरवदत् स्वभृत्यान् ।
अयं मदीयस्तुरगो निरामयो श्व एव भूयात् स्वगृहे महोत्सवः ॥ १० ॥
हनाम मेषं द्रुतमद्य पुष्टं पिबाम खादाम च मेषसूपम् ।
प्रायेण सत्कार्यपरा हि जन्तवो क्लिश्यन्ति लोके स्वकृतैः सुकर्मभिः ॥ ११ ॥
- - - - 

Friday, April 26, 2013

Sanskrit blog: Humour-71

हास्यसीकरः-७१


कुतूहली बालः मातरमपृच्छत्, अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः? इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति इति । मुग्धः बालः सपदि प्रत्यवदत्, अम्ब, इदानीमेव जानामि ’मातामह्याः सर्वे शिरोरुहाः कुतः पलिता” इति इति ।
- - - -