Saturday, May 11, 2013

Sanskrit blog: Humour-72

हास्यसीकरः-७२


कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, “आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (T.V.) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः “ इति ।
आरक्षकः अपृच्छत्, “ आश्चर्यम् खलु ! कुतः साक्षात्करम् आदाय न गताः?” ।
पुरुषः प्रत्यवदत्, “ अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु “ इति ।
- - - - 

2 comments: