Saturday, May 12, 2012

Sanskrit blog: So said Timmu the dull headed



मूढतिम्मुरुवाच
अनुभवक्षीरे विचारमन्थनकर्म
जनयति ज्ञाननवनीतं हि सुखदम् ।
शुकजल्पितं ग्रन्थपठनमनुभव एव
तव धर्मदीपोऽस्ति मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಅನುಭವದಪಾಲೊಳು ವಿಚಾರಮನ್ಥನವಾಗೆ
ಜನಿಯಿಕುಂ ಜ್ಞಾನನವನೀತವದೆ ಸುಖದಂ ||
ಗಿಣಿಯೋದು ಪುಸ್ತಕಜ್ಞಾನ; ನಿನ್ನನುಭವವೆ
ನಿನಗೆ ಧರುಮದ ದೀಪ ಮಂಕುತಿಮ್ಮ || 544 ||

- - - - 

Sunday, May 6, 2012

Sanskrit blog: Humour-47

हास्यसीकरः-४७
विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् , कुतः विमानमित्थं स्थगितमभवदिति । गगबसखी प्रत्युवाच, उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत् इति ।
- - - -

Sunday, April 29, 2012

Sanskrit blog: So said Timmu the dull-headed


मूढतिम्मुरुवाच
कुरु किञ्चिदपि कर्म हस्तागतं तत्र
मास्त्वहं तृणमात्र इति कृपणचिन्ता ।
भुवनदेवालये नास्ति हीनं कर्म
स्थानमत्रास्ति तव मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಏನಾನುಮಂ ಮಾಡು ಕೈಗೆ ದೊರೆತುಜ್ಜುಗವ
ನಾನೇನು ಹುಲುಕಡ್ಡಿಯೆಂಬ ನುಡಿ ಬೇಡ |
ಹೀನಮಾವುದುಮಿಲ್ಲ ಜಗದ ಗುಡಿಯೂಳಿಗದಿ
ತಾಣ ನಿನಗಿಹುದಲ್ಲಿ ಮಂಕುತಿಮ್ಮ || 790
- - - - 

Monday, April 23, 2012

Sanskrit blog: Humour-46

हास्यसीकरः-४६
मातुलः : वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः
स्वस्रीयः : आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता
मातुलः :जानामि, वत्स, अत एव ब्रवीमि, अद्यैव तव आनन्ददायकदिवसेषु महत्तमः इति ।
- - - - 

Monday, April 16, 2012

Sanskrit blog: A story of creation


अन्या सृष्टिकथा

प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति इति । श्वा प्रत्युवाच, प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि
ईश्वरः अवदत्, तथास्तु

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति इति । वानरः प्रत्युवाच, प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अवदत्, तथास्तु

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि इति । मानवः प्रत्यवदत्, ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि इति ।
ईश्वरः विहस्य अवदत्, तथास्तु

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - -

Sunday, April 8, 2012

Sanskrit bog: A prayer

प्रार्थना
यन्मयाऽपरिवर्त्यं तद्यथा स्वीकरवाण्यहम् ।
देहि मे मनसः शान्तिं देहि धैर्यं यथा प्रभो ।
यन्मया परिवर्त्यं च कुर्यां तत्परिवर्तनम् ।

यथा ते त्वभिजानामि विवेकं देहि मे तथा ॥

Grant me the serenity to accept the things I cannot change,
the courage to change the things I can,
and the wisdom to know the difference.
~ Reinhold Niebuhr
- - - - 

Tuesday, April 3, 2012

Sanskrit blog: Humour-45

हास्यसीकरः-४५

सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, दशमीटर्-मितवस्त्राय कति रूप्यकाणि?. युवा स्मितवदनः अवदत्, सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयाः" इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, बाढम्, दशमीटर्मितं वस्त्रं देहि इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति इति । 
- - - - 

Wednesday, March 28, 2012

Sanskrit blog: Einstein is indeed right!

ऐन्श्टैनस्य सापेक्षतावादः जेजीयते खलु।
महतः विज्ञानिनः ऐन्श्टैनस्य सापेक्षतावादः कथयति,  न किञ्चिदपि द्रव्यं द्युतेः द्रुततरं गच्छतीति । परंतु परुत् सेप्टम्बरमासे ओपेरानाम विज्ञानिनां वृन्दं न्युट्रिनोनामा अतिसूक्ष्मकणः कृतप्रयोगे  द्युतेः द्रुततरं प्राद्रवत् इति उदघोषयत् । जगतः विज्ञानिनाम् वृन्दे महत्कोलाहलमभूत् । न्युट्रिनोकणः एलेक्ट्रान्कणवत् परमसूक्ष्मः । परंतु अस्मिन् कणे विद्युदंशः(charge) नास्त्येव । अस्य द्रव्यांशः(mass) एलेक्ट्रान्द्रव्यांशात् अपि अतिन्यूनतरः । विद्युदंशविरहितः अयं कणः द्रव्यनिवहेषु सलीलं प्रद्रवति । ऐन्श्टैनस्य सापेक्षतावादः नैकप्रयोगैः प्रमाणीकृतः मिथ्या अभवत् किम् इति प्रश्नः उदभवत् । प्रयोगस्य पुनः करणे कानिचन विज्ञानिनां वृन्दा्नि प्रायतन्त ।
इदानीं ऐकारस्नाम वृन्दं प्रयोगं पुनः कृत्वा कथयति, न्युट्रिनोसूक्ष्मकणोऽपि ऐन्श्टैनस्य सिद्धान्तं नातिचरति इति । भौतविज्ञानिनः अस्मिन्विषये निश्चिन्ता अभवन् । ऐश्टैनस्य सापेक्षतावादः जेजीयते खलु ।
- - - - 

Friday, March 23, 2012

Sanskrit blog: Humour-44

हास्यसीकरः-४४
कस्मिन्श्चिद्ग्रामे प्रह्लादचरित्रम्नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः   प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्? इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, निस्संशयम्, तात इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थलेदक्षिणस्तम्भं दर्शयन्, बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्”” इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति इति वदन् वामस्तम्भमदर्शयत् ।
- - - - 

Friday, March 16, 2012

Sanskrit blog: "Where the mind is without fear"

मम ब्लाग्-रचनायाः प्रथमवर्षः अद्य समाप्तः । अस्मिन्नवसरे गुरुदेवस्य रबीन्द्रनाथ ठाकुरस्य प्रथितगीतस्य यस्य प्रथमपङ्क्तिः आङ्ग्लभाषायां “Where the mind is without fear” इति वर्तते तस्य संस्कृतच्छायानुवादं सहर्षं प्रस्तौमि ।

शीर्षं यत्रास्त्यनवनमितं यत्र चित्तं त्वभीतम् ।
ज्ञानं मुक्तं  न जगदखिलं क्षुद्रभित्तिप्रभिन्नम् ।
वाणी यत्र प्रवहति हृदस्सत्यगर्भात् सदैव ।
आनैपुण्यं प्रभवति सदा यत्र कार्यप्रवृत्तिः।।

नीचाचाराभिधमरुतले सद्विवेकस्य धारा
नष्टा नैवाविरतविकसत्भावनाकार्यशीलम्
चेतो यत्र त्वदमितदयया भास्वरे तत्र नाके
स्वातन्त्र्याख्ये कुरु जनक हे जागृतं भारतं मे ।।
अन्वयः : यत्र शीर्षं अनवनमितम् अस्ति, यत्र चित्तं तु अभीतम्, (यत्र) ज्ञानं मुक्तम्, जगत् अखिलं क्षुद्रभित्तिप्रभिन्नं न, यत्र वाणी सदा एव सत्यगर्भात् हृदः प्रवहति, यत्र कार्यप्रवृत्तिः सदा आ-नैपुण्यं प्रभवति, (यत्र) सद्विवेकस्य धारा नीच-आचार-अभिध-मरुतले न नष्टा एव, यत्र चेतः त्वत्-अमित-दयया अविरत-विकसत्-भावना-कार्य-शीलम्, तत्र स्वातन्त्र्याख्ये भास्वरे नाके हे जनक मे भारतं जाग्रतं कुरु ।

English text
Where the mind is without fear and the head is held high;
Where knowledge is free;
Where the world has not been broken up into fragments by narrow domestic walls;
Where words come out from the depth of truth;
Where tireless striving stretches its arms towards perfection;
Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;
Where the mind is led forward by thee into ever-widening thought and action --
Into that heaven of freedom, my Father, let my country awake.[1]
Bengali Text
চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শির,
জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর
আপন প্রাঙ্গণতলে দিবসশর্বরী
বসুধারে রাখে নাই খণ্ড ক্ষুদ্র করি,
যেথা বাক্য হৃদয়ের উত্‍‌সমুখ হতে
উচ্ছ্বসিয়া উঠে, যেথা নির্বারিত স্রোতে
দেশে দেশে দিশে দিশে কর্মধারা ধায়
অজস্র সহস্রবিধ চরিতার্থতায়,
যেথা তুচ্ছ আচারের মরুবালুরাশি
বিচারের স্রোতঃপথ ফেলে নাই গ্রাসি---
পৌরুষেরে করে নি শতধা, নিত্য যেথা
তুমি সর্ব কর্ম চিন্তা আনন্দের নেতা,
নিজ হস্তে নির্দয় আঘাত করি, পিতঃ,
ভারতেরে সেই স্বর্গে করো জাগরিত
- - - -