Monday, April 23, 2012

Sanskrit blog: Humour-46

हास्यसीकरः-४६
मातुलः : “वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः “।
स्वस्रीयः : “आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता “
मातुलः :“जानामि, वत्स, अत एव ब्रवीमि, “अद्यैव तव आनन्ददायकदिवसेषु महत्तमः” इति ।“
- - - - 

No comments:

Post a Comment