Tuesday, July 5, 2011

Sanskrit blog: Humour-15

हास्यसीकरः_१५

अहं साक्षात्करं (television) विलोकयन् आसि । दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, “ सुन्दरेण सह संलपितुमिच्छामि” ।

अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसंख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, “सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपिकश्चित्संदेशः?”

सा अवदत्, “सुन्दरः कदा पुनरागमिष्यति?”

“प्रायेण दशवादनसमये आगमिष्यति”

“भवान् श्यामः किम्?”

मम नाम श्यामः न । तथाप्यहमवदम्, “बाढम्, अपि कश्चित् सन्देशः सुन्दराय?” ईषद्प्रक्षुब्धवाण्या सा अवदत्,“ सः मामवादीत्,”अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप” इति ।“.

अहमवदम्, “सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्”

भूयोऽपि क्रुद्धा सा अवदत्, “रेखा का?”

“सा तस्याः प्रियवयस्या।“

“तदवगतम् । परंतु सा का?”

”अहं न जाने । अपि कश्चित् संदेशः सुन्दराय? “

“कृपया तं वक्तुमर्हसि, “गृहमागतः सः मया सह दूरवाण्यां संलपतु” इति”

“अपि भवती श्यामा?” अहमपृच्छम् ।

”श्यामा का?” तस्याः कोपः परां काष्ठां प्राप ।

” सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् ।“

“सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हसि, “शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति” । सपदि तया संपर्कः त्रुटितः ।
ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च ।

- - - -

Saturday, July 2, 2011

Sanskrit blog: Humour_14

हास्यसीकरः_१४

कश्चन ब्रह्मदत्तनामा शुण्डापाने आत्मनः चषकस्य पुरतः उपविष्टः पानमपिबन्नेव चिन्तामग्नः आसीत् । अन्यः कश्चन विश्वदत्तनामा धूर्तः तं दृष्ट्वा सपदि तं पानमपिबत् । ब्रह्मदत्तः रोदितुं प्रारभत् । विश्वदत्तः तं सान्त्वयितुमवदत्, “ भ्रातः, कुतः रोदिषि? अहं अन्यमेकं पानं तुभ्यं क्रीणामि । विनोदायैव खलु अहं तव पानमपिबम् “ इति ।

ब्रह्मदत्तः रुदन्नेव प्रत्यवदत्, “भ्रातः, किं ब्रवीमि? आप्रातः अद्य मम महती दुर्दशा । प्रातः चिराय सुप्तः उद्योगालयं वेलामतिक्रम्य गतः । मम अधीक्षकः कुपितः उद्योगात् मां निष्कासितवान् । गृहं प्रतिनिवर्तितुमुद्यतः अहं याननिःस्थानमगच्छं यत्र मम यानः केनापि चोरेण मुषितः आसीत् । भाटकयानमेकमारुह्य गृहमगच्छम् । भाटकयाने एव अहं मम धनस्यूतमनवधानेन त्यक्तवान् । गृहं गतः विटपुरुषॆण सह रममाणां मम भार्यामपश्यम् । विषण्णः किंकर्तव्यतामूढः शुण्डापानमागत्य प्राणत्यागार्थं विषपूर्णं चषकं पिपासामि । तदपि त्वं पिबसि । अहो धिङ्मां दुर्भाग्यम् ।“

- - - -

Wednesday, June 29, 2011

Sanskrit blog: A love lyric

आर्याछन्दसिनिबद्धं शृङ्गारचाटु

दयितेक्षणगुणबद्धः

युवा स्वोद्योगाय गन्तुमुद्यतः ।

स्वगृहाद्बहिः गतो वा

न वा देहल्येव जानाति ॥

- - - -

Saturday, June 25, 2011

Sanskrit blog: Humour_13

हास्यसीकरः_१३

ब्रह्मदत्तः नगर्यां प्रथितः धनिकः न्यायवादी(lawyer) आसीत् | तथापि कृपणः सः कस्मैचिदपि दीनाय कदापि धनं न ददौ । दीनसहायः देवदत्तनामा तमागत्य अपृच्छत्, “आर्य, भवान् प्रथितः न्यायवादी प्रभूतं धनमर्जितवान् च । कथमिदं यत् भवान् कदापि दीनेभ्यः साहाय्यं धनरूपेण न कृतवान्” इति ।

ब्रह्मदत्तः गंभीरस्वरेण अवदत् , “ भोः, भवता विदितं किं मम मात्रा अर्बुदरोगग्रस्तया रुग्णालयसेवार्थं प्रत्यहं दशसहस्रं रूप्यकाणि व्ययितानि इति?” । किञ्चित्संभ्रान्तः देवदत्तः अवदत्, “न विदितम्” इति । ब्रह्मदत्तः पुनरुवाच, “ भवता विदितं किं यन्मम कलत्रयुतः भ्राता युद्धे व्रणितः भूत्वा उद्योगासमर्थः चक्रयुतासने सञ्चरन् कालं क्षपयति?”। देवदत्तः कुण्ठितवचनः नम्रः बभूव । पुनरवदत् ब्रह्मदत्तः, “ भवता विदितं किं यन्मम अनुजायाः भर्ता मार्गापघाते अम्रियत । मम अनुजायाः त्रीण्यपत्यानि इति?” ।

यावत् देवदत्तः “भवतः क्षमां याचे । नितरां दुःखितोऽस्मि” इति विवदिषुरासीत् तावदेव ब्रह्मदत्तः उवाच, “ यद्यहं तेभ्यः किञ्चिदपि साहाय्यं न दत्तवान् इतरेभ्यः किं प्रयच्छेयम्?” ।
- - - -

Monday, June 13, 2011

Sanskrit blog: done that, been there

कृतं तत् गतं तत्

कृतं तत् गतं तत् न कार्यं न गम्यं ममात्रास्ति किञ्चित् ।

हर त्वं द्रुतं मां त्वदीयं परिष्वङगमेव प्रतीक्षे ॥

- - - -

Sunday, June 12, 2011

Sanskrit Blog: Humour_12

- हास्यसीकरः_१२

- काचन वृद्धा पलितकेशिनी दन्तहीना नमिताकृतिः दण्डावलम्बिनी वीथ्यां शनैर्गच्छति स्म । कश्चन युवा तां दृष्ट्वा तस्याः वयोगौरवात् तां प्रणनाम । सा सुदीर्घं तं विलोक्य सहर्षमवदत्, “ रे, बहूनि वर्षाणि गतानि खलु त्वां वीक्ष्य! तदा कृशः अद्य स्थूलः, तदा उपनेत्रं नासीत् अद्य त्वं उपनेत्रधारी, तदा श्मश्रुहीनः इदानीं तु वदने प्रभूतं श्मश्रु, गच्छता कालेन महान् खलु विकारः । इदानीमेव तव नाम स्मरामि । तव नाम रामसामि इति ” ।

- युवा किञ्चिद्विहस्य अवदत्, “आर्ये, मम नाम रामसामि इति न, मम नाम कृष्णमूर्तिः” ।

- वृद्धा झटित्युवाच, “तव नामन्यपि विकारः किम्? कालस्य गतिः कियती कुटिला!” ।

- - - -

Sanskrit blog: A lyric in a new metre

कान्तचरणानाम नवं वृत्तं लक्ष्यश्लोकश्च

नवं वृत्तं एकोनविंशत्यक्षरयुक्तं कान्तचरणानाम निरूप्यते:

म्रौभ्नौ पश्चात् यनौगुः मुनियतिसहिता कान्तचरणा ।

अस्मिन् कान्तचरणानाम्नि वृत्ते मगणरगणौ तदनु भगणनगणौ पश्चात् यगणनगणौ अन्ते गुरुश्च भवन्ति । मुनियतिसहिता सप्ताक्षरान्ते यतिश्च संभवति ।

- अनेन शृङ्गारमुक्तकेन उदाहृतं च:

पुत्रे शालां प्रयाते गतवति पितरि क्रेतुमगदम्

याच्ञामादृत्य भर्तुः निधुवनसुखमिच्छोः प्रियतमा ।

भुक्ता श्रान्ता सुतृप्ता स्वपिति रमणमाश्लिष्य सुचिरम्

स्वेदक्लिन्नापराह्णे विगलितपरिधानं न गणयन् ।।
- - - -

Wednesday, May 18, 2011

Sanskrit blog-A modern fable

गृध्रशशौ

उत्तुङ्गवृक्षे ससुखं निषण्णं गृध्रं क्रियाहीनमवेक्ष्य कंचित्

धरानिविष्टः शशकस्तमूचे साध्या नु किं निष्क्रियता मयापि ।।

किं संशयं मित्र, सुखेन तिष्ठेत्युक्तो स भूमौ निषसाद तूष्णीं ।

हन्त क्षुधार्तेन स जंबुकॆन व्यापादितो भक्षित एव तूर्णम् ।।

उच्चैः स्थितस्यैव हि जीवयात्रा सिद्ध्येत् न कुर्वन्नपि कर्म किञ्चित् ।

अन्योऽनुवृत्तिं यदि कर्तुंमिच्छेत् ध्रुवं विनश्येत् शशवत् स शीघ्रम् ॥

A rendering in Sanskrit of a modern fable:

An eagle was sitting on a tree resting, doing nothing.
A small rabbit saw the eagle and asked him, 'Can I also sit like you and do nothing?'
The eagle answered: 'Sure, why not.'
So, the rabbit sat on the ground below the eagle and rested.

All of a sudden, a fox appeared, jumped on the rabbit and ate it.
Moral of the story:
To be sitting and doing nothing, you must be sitting very, very high up.

- - - -

Saturday, May 14, 2011

Sanskrit blog-Ode to a pet dog

शुनकगीतम्

आत्मन्यप्यधिकं मयि त्वमनिशं सक्तो ददासि स्वकम्

कृत्स्नं यद्यपि ते मदीयमणुकं खाद्यं स्थलं प्रेम च |

दत्तं मे वदनं यदानवरतप्रेम्णा त्वया लिह्यते

स्वर्गानन्दविडम्बनं मम तदा धन्योऽस्मि हे कुक्कुर ।।

सत्यं त्वं न भवेर्मदीयमखिलं बह्वाश्रयं जीवितम्

संपूर्णं न भवेत् तथापि शुनक त्वत्स्पर्शसौख्यं विना ।

प्रेत्य त्वं यदि यास्यसि प्रियसख स्वर्गेतरं सत्पदम्

स्वर्गं चापि विहाय तत्पदमहं गन्तास्मि निस्संशयम् ॥

Above is a rendering of well-known sentiments expressed by dog-lovers.
- - - -

Tuesday, May 10, 2011

Sanskrit blog: a quote

गतं शोकप्रदं चैव भयप्रदमनागतम् ।

न चिन्तयन् स्मेरवक्त्रो जीवेद्धीरः क्षणात् क्षणम् ॥

Rough rendering of a quote:

“Never Think Hard about PAST,
It brings Tears...
Don't Think more about FUTURE,
It brings Fears...
Live this Moment with a Smile,
It brings Cheers.!!!!”