Tuesday, July 5, 2011

Sanskrit blog: Humour-15

हास्यसीकरः_१५

अहं साक्षात्करं (television) विलोकयन् आसि । दूरवाण्याः घण्टा व्यनदत् । दूरवाण्यां ललना काचिदपृच्छत्, सुन्दरेण सह संलपितुमिच्छामि

अहमेकाकी वसामि, मम नाम सुन्दरो न । दूरवाणीसंख्यास्खलनं व्यक्तमभवत् । तथापि विनोदाय तामहमवदम्, सुन्दरः अधुना अत्र नास्ति । सुन्दराय अपिकश्चित्संदेशः?

सा अवदत्, सुन्दरः कदा पुनरागमिष्यति?

प्रायेण दशवादनसमये आगमिष्यति

भवान् श्यामः किम्?

मम नाम श्यामः न । तथाप्यहमवदम्, बाढम्, अपि कश्चित् सन्देशः सुन्दराय? ईषद्प्रक्षुब्धवाण्या सा अवदत्, सः मामवादीत्,अद्य रात्र्यां गृहे एव तिष्ठामि । मया सह दूरवाण्यां संलप इति ।.

अहमवदम्, सः एकहोरायाः प्राक् रेखया सह विहर्तुमगच्छत्

भूयोऽपि क्रुद्धा सा अवदत्, रेखा का?

सा तस्याः प्रियवयस्या।

तदवगतम् । परंतु सा का?

अहं न जाने । अपि कश्चित् संदेशः सुन्दराय?

कृपया तं वक्तुमर्हसि, गृहमागतः सः मया सह दूरवाण्यां संलपतु इति

अपि भवती श्यामा? अहमपृच्छम् ।

श्यामा का? तस्याः कोपः परां काष्ठां प्राप ।

सः श्यामया सह दशवादनात् पश्चात् विहर्तुं गमिष्यति । क्षमां याचे । भवती श्यामा इत्यचिन्तयम् ।

सुन्दरः क्षमां याचेत न भवान् । भवान् कृपया सुन्दरं वक्तुमर्हसि, शीला दूरवाण्यां अवादीत् यत् त्वं तया सह संल्लपितुमर्हसि इति । सपदि तया संपर्कः त्रुटितः ।
ईश्वरः निर्दोषं सुन्दरं रक्षतु मां क्षमतां च ।

- - - -

No comments:

Post a Comment