Monday, May 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-38

चन्द्रिका-३८
ततक्ष कूष्माण्डमपूर्वकौशलात्
निरूपयामास रथाकृतिं दृढाम् |
निमेषमात्रेण रथं नृपोचितं
देवी महान्तं ससृजे स्फुरद्ध्वजम् ॥ १४७ ॥   

आदर्शवत् श्लक्ष्णमपूर्वसुन्दरं
सुवर्णलिप्तप्रतिमाभिशोभितम् ।
महेन्द्रयानोपममैक्षतोत्सुका
निमेषहीना रथमेव चन्द्रिका ॥ १४८ ॥

देवी तु तूर्णं चतुरो तुरङ्गमान्
संस्पृश्य मार्जालधृतान् बिलेशयान् ।
व्यकल्पयत् पुष्टबलिष्ठबन्धुरान्
प्रकाशयन्ती निजहस्तलाघवम् ॥ १४९ ॥

विधाय सूतं सिततोत्रशोभितं
तथाखुनैकेन दृढेन लीलया ।
अन्येन योधं शितखड्गधारिणं
रथाभिपालं तरुणं विनिर्ममे ॥ १५० ॥
- - - -

No comments:

Post a Comment