Saturday, January 19, 2013

Sanskrit blog: Hunour-64

हास्यसीकरः-६४
वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् ।
वृद्धः इतरमवदत्, “ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् ।“
इतरः अपृच्छत्, “तद्भोजनालयस्य नाम किम्?”
वृद्धः चिरमचिन्तयत्, परंतु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, “भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?“
इतरः अपृच्छत्, “मल्लिका इति नाम किम्?” इति ।
वृद्धः प्रत्यवदत्, “आम्, तदेव, उपकृतोऽस्मि” इति ।
वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, “मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुर्व?” इति ।
- - - - 

No comments:

Post a Comment