Friday, April 26, 2013

Sanskrit blog: Humour-71

हास्यसीकरः-७१


कुतूहली बालः मातरमपृच्छत्, अम्ब, कुतस्तव कतिचनशिरोरुहाः पलिताः? इति । माता अस्मिन् समये बालाय सद्वर्तनबोधनं कर्तुं शक्यमिति मन्यमाना तमवदत्, वत्स, तव एकैकं दुर्वर्तनं मम एकैकं शिरोरुहं पलितं करोति इति । मुग्धः बालः सपदि प्रत्यवदत्, अम्ब, इदानीमेव जानामि ’मातामह्याः सर्वे शिरोरुहाः कुतः पलिता” इति इति ।
- - - - 

Saturday, April 20, 2013

Sanskrit blog: Prisoner's dilemma

चोरविकल्पः


द्वौ पुरुषौ किञ्चित् चौर्यं कृतवन्तौ इति संशयात् कारागृहे बद्धौ एकः एकस्मिन् कक्ष्यायां, अन्यः अन्यस्मिन् कक्ष्यायां स्तः । आरक्षकाः अनवाप्तपर्याप्तसाक्ष्याः   तौ अपराधिनौ इति घोषयितुं असमर्था भवन्ति । आरक्षकाः प्रत्येकं पुरुषं मिथः सम्बोधयन्ति, रे, पश्य, यदि त्वम् अन्यपुरुषं विरुद्ध्य साक्ष्यं ददासि चेत्, त्वं मुक्तो भविष्यसि। अन्यः वर्षत्रयपर्यन्तं कारागृहवासं अनुभविष्यति इति । द्वावपि पुरुषौ अन्यं विरुद्ध्य साक्ष्यं दत्तः चेत् तयोः वर्षद्वयपर्यन्तं कारागृहवासः भवति । द्वावपि अन्यं विरुद्ध्य साक्ष्यं न दत्तः चेत्, तदा तयोः एकवर्षपर्यन्तमेव कारागृहवासः । परन्तु अन्यतरोऽपि अन्यः किं चिन्तयित्वा किं करोति इति न जानाति । अस्मिन् संदिग्धस्थितौ तौ किं कुरुतः? अन्यं विरुद्ध्य साक्ष्यं देयं वा न वा? विकल्पाः कोष्टकरूपे अत्र निदर्शिताः

द्वितीयः प्रथमं विरुध्य साक्ष्यं न ददाति
द्वितीयः प्रथमं विरुध्य साक्ष्यं ददाति
प्रथमः द्वितीयं विरुध्य साक्ष्यं न ददाति
द्वयोरपि एकवर्षम्
प्रथमस्य वर्षत्रयम्
द्वितीयः मुक्तः

प्रथमः द्वितीयं विरुध्य साक्ष्यं ददाति
प्रथमः मुक्तः
द्वितीयस्य वर्षत्रयम्
द्वयोरपि वर्षद्वयम्
इयं चोरविकल्पाख्या (prisoner’s dilemma) समस्या स्पर्धावादाख्यायां (game theory) गणितशाखायां चर्चिता ।
- - - - 

Saturday, April 13, 2013

Sanskrit blog: Humour-70

हास्यसीकरः-७०
क्रैस्तालयपूजकः अम्रियत, स्वर्गद्वारे अन्यैः मृतैः साकं स्वर्गप्रवेशानुमत्यै प्रतीक्षते स्म च। तस्य पुरतः आतपोपनेत्रे वर्णरञ्जितवस्त्रे च धारयमाणः कश्चन आर्यः अपि प्रतीक्षते स्म । स्वर्गद्वारपालकः तमार्यमवदत्, भोः, कस्त्वम्? कथय । तव स्वर्गप्रवेशयोग्यता अस्ति किमिति परीक्षे इति । स आर्यः अवदत्, अहं विमानचालकः आसम् । कतिपयवर्षेभ्यः पूर्वम् उद्योगात् निवृत्तः अभवम् इति । स्वर्गद्वारपालकः स्मयमानः तमवदत्, स्वागतं भोः, इमे कौशेयवस्त्रे, इमं सौवर्णदण्डं च गृहाण, स्वर्गे सुखमास्स्व, इति ।
अथ द्वारपालकः क्रैस्तालयपूजकं तथैव अपृच्छत् । क्रैस्तालयपूजकः गम्भीरस्वरेण अवदत्, भोः, अहं त्रयस्त्रिंशत् वर्षात् लंडन्-नगरे जेम्स्-क्रैस्तालयस्य पूजकः आसम् इति । द्वारपालकः तमवदत्, बाढम्, इमे कार्पासवस्त्रे इमं दारुदण्डं च गृहाण । स्वर्गे सुखमास्स्व इति । ईषत्कुपितः क्रैस्तालयपूजकः द्वारपालकमपृच्छत्, अहो, कथमित्थम्? अस्मै विमानचालकाय सौवर्णदण्डं कौशेयवस्त्रे च दत्तानि, मह्यं पूजकाय दारुदण्डं कार्पासवस्त्रे च दत्तानि । इदं न्याय्यं किम्? । स्मयमानः द्वारपालकः अवोचत्, यदा त्वया क्रैस्तालये धर्मोपदेशः कृतः तदा सभ्याः सर्वे अस्वपन्, यदा सः विमानमचालयत् तदा विमानयात्रिकाः सर्वे ईश्वरं प्रार्थयन्त । अत एव सः स्वर्गसुखाय योग्यतरः, इति ।
- - - - 

Saturday, April 6, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
वनकुसुमपरिमलघ्रायकः कस्तत्र
वर्णरञ्जितशलभसौन्दर्यभोक्ता ।
अनपेक्ष्य संस्तुतिं प्रकृतिः प्रवृत्तास्ति
आत्मतुष्ट्यै एव मूढतिम्मो ॥ ५६६ ॥

Inspired by the following Kannada verse from “Mankuthimmana kagga” by DVG.

ಆರಣ್ಯಕದ ಪುಷ್ಪಗಳ ಮೊಸುವರಾರು
ಆರಿಹರು ಪತಗದುಡುಪನು ಹುಡುಕಿ ಮೆಚ್ಚಲ್
ಬೇರೊಬ್ಬರೆಣಿಕೆಯಿಲ್ಲದೆಯೆ ಪ್ರಕೃತಿ ತನಗೆಂದೆ
ಸ್ವಾರಸ್ಯವೆಸಗುವಳೊ ಮಂಕುತಿಮ್ಮ || ೫೬೬ ||
- - - - 

Saturday, March 30, 2013

Sanskrit blog: Humour-69

हास्यसीकरः-६९
परिव्राजकवेषधरः कश्चन भिक्षार्थं ग्रामे अटति स्म । कोऽपि तस्मै भिक्षां न ददौ । अन्ततः कस्याश्चित् गृहिण्याः गृहस्य पुरतः गत्वा भिक्षां ययाचे । गृहिणीमकथयच्च, भवति! भिक्षां ददातु । यदि भवती भिक्षां न ददाति तदा यथाहं अन्यस्मिन् ग्रामे समाचरं तथैव अत्रापि समाचरामि । तापसः तपोबलेन मां शपेदिति चिन्तयन्ती गृहिणी भीता तस्मै भिक्षां ददौ । भिक्षां दत्त्वा तं परिव्राजकमपृच्छत्, भगवन्! अन्यस्मिन् ग्रामे भवता किमाचरितम्? । भिक्षाम् कवलयन् परिव्राजकः अवदत्, अयि भोः! निरशनव्रतं समाचरम् इति ।
- - - - 

Saturday, March 23, 2013

Sanskrit blog: I am Fear



साहं भीतिः
अज्ञानान्मे जननमभवत् पोषिता दुर्नयेन
नैराश्यं मे दयिततनुजः सोदरः कालनाशः ।
शत्रुर्वृद्धेरलघुकरणं पीडने च प्रजानाम्
साहं भीतिः हृदयवसतिः कण्टकं लोकमार्गे ।।
नैकान् वर्णान् खलु सरटवत् धारयन्ती सलीलम् ।
आख्यातास्मीत्यवहितमतिः कुत्रचित् गाढशङ्का ।
आशाभङ्क्त्री  खलु युवजने ध्वंसिनी सुस्पृहायाः ।
लक्ष्यच्छेत्री सरलमनुजानन्वहं क्लेशयामि ॥
एकः स्वामी यमहमनिशं संस्मरन्ती प्रवेपे ।
येनाज्ञप्ता मनुजमनसः सत्वरं प्रद्रवामि ।
ख्यातो लोके कुशलमतिभिः विश्वजेता विवेकः ।
तं हे मर्त्याः व्रजत शरणं शून्यतां यामि शीघ्रम् ॥   

Inspired by the following passage:
"I am fear. I am the menace that lurks in the path of life, never visible to the eye but sharply felt in the heart. I am the father of despair, the brother of procrastination, the enemy of progress, the tool of tyranny. Born of ignorance and nursed on misguided thought, I have darkened more hopes, stifled more ambitions, shattered more ideals and prevented more accomplishments than history could ever record.

"Like the changing chameleon, I assume many disguises. I masquerade as caution. I am sometimes known as doubt or worry. But whatever I'm called, am still fear, the obstacle of achievement.

"I know no master but one. It's name is understanding. I have no power but what the human mind gives me, and I vanish completely when the light of understanding reveals the facts as they really are, for I am really nothing."
- - - - 

Saturday, March 16, 2013

Sanskrit blog: Humour-68

हास्यसीकरः-६८
ब्रह्मदत्तः मरणशय्यायां शयानः आसीत् । तस्य आप्तवयस्यः शम्भुः तं द्रष्टुं तत्र आगतः । शम्भुः ब्रह्मदत्तस्य शय्यायाः निकटे स्थित्वा ब्रह्मदत्तमपश्यत् । ब्रह्मदत्तः वक्तुमशक्तः सखेदं शम्भुं हस्तसंज्ञाभिः पत्रं लेखनीं च दातुं प्रार्थयत् । शम्भुः तथैव अकरोत् । यावत् ब्रह्मदत्तः पत्रे किमपि अलिखत् तावदेव सः असूनत्यजत् । खिन्नः शम्भुः तत्समये तत्पत्रपठनं नोचितमिति मत्वा कञ्चुकस्यूते निक्षिप्य गृहं गतः । गृहे पत्रं व्यस्मरत् अतः नापठच्च । अन्येद्युः ब्रह्मदत्तस्मरणसभा आयोजिता यत्र शम्भुः ब्रह्मदत्तस्य विषये किमपि भाषितुं सर्वैः प्रार्थितः । यावत् भाषितुं प्रारब्धवान् तावदेव सः ब्रह्मदत्तलिखितं पत्रं सस्मार यत् दिष्ट्या तस्य कञ्चुकस्यूते एव पिहितमासीत् । सः उच्चैरवदत्, अयि भोः, मरणशय्यायां शयानस्य ब्रह्मदत्तस्य अन्तिमसन्देशः अधुनैव मम कञ्चुकस्यूते वर्तते । तं सन्देशं सर्वे शृण्वन्तु । इति । पत्रमपावृत्य प्रथमं तत्र लिखितं स्वगतमपठत्, रे मूर्ख ! मम श्वासाधारस्य आम्लजनकनालस्योपरि स्थितोऽसि      
- - - -

Saturday, March 9, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
प्रेक्ष्य किञ्चित्तमसि शुनकस्तु शङ्कया
कुत्रापि कोऽपि सुहृदस्तीति चिन्तयन् ।
उन्मुखो भषति खलु तद्वदेवेति किम्
भक्तिर्मनुष्यस्य मूढतिम्मो ॥ ४८४ ॥   

A rough rendering of the following verse from “mankutimmana kagga” of DVG

ಕತ್ತಲೆಯೊಳೇನನೋ ಕಂಡು ಬೆದರಿದ ನಾಯಿ
ಎತ್ತಲೋ ಸಖನೊರ್ವನಿಹನೆಂದು ನಂಬಿ |
ಕತ್ತೆತ್ತಿ ಮೋಳಿಡುತ ಬೊಗಳಿ ಹಾರಾಡುವುದು
ಭಕ್ತಿಯಂತೆಯೆ ನಮದು ಮಂಕುತಿಮ್ಮ || ೪೮೪ ||
- - - -

Saturday, March 2, 2013

Sanskrit blog: Humour-67

हास्यसीकरः-६७
चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् ।
एका: कच्चित् कुशली तव भर्ता?
अन्या: मम दौर्भाग्यात् सः दैवाधीनः अभवत् ।
एका: सुभृशं खिन्नास्मि । किमभवत् ?
अन्या: एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः।
एका: पश्चात् त्वं किमकरोः ?
अन्या: किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् ।
- - - -

Saturday, February 23, 2013

Sanskrit blog: The bird and the bee.

विहगः मधुकरश्च
श्रमार्जितं त्वन्मधु मिष्टमन्ये
सुखेन मर्त्याः खलु चोरयन्ति ।
कथं न खिन्नोऽसि वदेति पक्षिणा
पृष्टः कदाचिन्मधुमक्षिका क्वचित् ।।
मुष्णन्तु मूढाः मम किं मनुष्या
करोमि भूयो मधु लीलयाहम् ।
यावन्न मुष्टं मम कर्मदाक्ष्यं
मुष्टं न किञ्चित् विहगेत्युवाच ।।

A rough rendering in Sanskrit of the following:
The Bird Asked the bee:
"You Work So Hard To Make The Honey And Humans Just Take It Away,
Doesn
t it Make You Feel Bad?"
"No," Said The Bee, "Because They Will Never
Take From Me The Art Of Making It."
- - - -