कोविड्गदनिरोधार्थं विस्मृत्य प्रथितं वचः ।
मुखप्रक्षालनात्पूर्बं हस्तप्रक्षालनं कुरु ॥
----
कोविड्गदनिरोधार्थं विस्मृत्य प्रथितं वचः ।
मुखप्रक्षालनात्पूर्बं हस्तप्रक्षालनं कुरु ॥
----
मातुर्गेहमहं व्रजामि कतिचिद्रात्रीरिति प्रस्थिता
आगत्यैव परेद्यवि त्वदशने चिन्तेति मां भाषते।
कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया
शस्त्रीकृत्य निजोपधानमबला मां ताडयत्युत्सुका ॥ ४ ॥
[अनुवर्तते]
व्याघातैर्बहुभिर्युते सफलतां कार्येऽहमाप्नोमि चेत्
मुञ्चत्याकुलतां प्रसह्य विजहत्यानन्दबाष्पं प्रिया ।
कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया
पत्नी ताडयते शिखण्डशकलेनोद्विग्नचित्तेव माम् ॥ ३ ॥
[अनुवर्तते]
पत्नी ताडयते
चायं सुस्मितफेनभासरुचिरं सुप्तप्रबुद्धाय मे
स्वौष्ठस्पर्शमधु प्रपूर्णचषके दत्ते किलामोदवत्।
कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया
पत्नी ताडयते शिखण्डशकलेनोद्विग्नचित्तेव माम् ॥ १ ॥
दूरादागतमाननाङ्कितमुदा द्वार्येव संपृच्छति
क्लान्तः किम् सफलः श्रमः पिबसि किंचात्सीति मन्दस्मिता।
कच्चित्वत्प्रणयस्य पात्रमभवं ब्रूहीति पृष्टा मया
पत्नी ताडयते शिखण्डशकलेनोद्विग्नचित्तेव माम् ॥ २ ॥
[अनुवर्तते]
http://link.springer.com/
| Title
The Knight’s Tour Problem and Rudrata’s Verse | ||
| Journal
Resonance, 25(8), 1095-1116 |
||
| DOI
10.1007/s12045-020-1026-7 |