Tuesday, March 24, 2020

विज्ञानसूक्तिः-४


विज्ञानसूक्तिः-४


जीवन्मुक्तो बाष्पनिभः सर्वं व्याप्नोति लीलया ।
क्वथ्यमानाम्बुसङ्काशो  मुक्तिमार्गानुगो मुनिः ॥ ५ ॥
A realized soul like steam easily pervades everything. A sage who is on the road to realization is like boiling water (which is in the process of becoming steam).
----

Thursday, March 19, 2020

विज्ञानसूक्तिः-३


विज्ञानसूक्तिः-३


मृत्कुम्भे निहितं वारि यथा ग्रीष्मेऽपि शीतलम् ।
भवतापेऽपि शान्तं स्यात् तथैव वशिनो मनः ॥ ४ ॥

Just as water kept in an earthen pot remains cool even in summer, the mind of a man of self-control remains calm even in times of worldly distress.
----

Wednesday, March 18, 2020

विज्ञानसूक्तिः-२



विज्ञानसूक्तिः-२
अवक्रयष्टिरुदकेऽलम्बं तिष्ठति चेत्तदा
वक्रीभूत इवाभाति पश्यताम् पयसस्तले  ॥
न यष्टिर्वक्रतां याति साधुनी पश्यतोऽक्षिणी
विज्ञानदृष्ट्या पश्येश्चेत् भ्रमाभासो निरस्यते ॥
----

Monday, March 16, 2020

ब्ला ब्ला ब्लेति


ब्ला ब्ला ब्लेति


ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे
भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने ।
सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने       
शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥
-----

Sunday, March 15, 2020

विज्ञानसूक्तिः-१

विज्ञानसूक्तिः
अल्पेन चन्द्रेण तिरोहितो भवेत्
सूर्यः प्रचण्डः पृथुगात्रवानपि ।
लोके तथा सत्त्ववतां समर्थता 
भृशं  निवार्येत  जनेन  केनचित् ॥
---- 

Saturday, February 29, 2020

kasmai devaaya

कस्मै देवाय

माता क्रन्दत्यधीरा ममशिशुरनघः कुत्र गतवान्
अन्यत्रार्तो जनन्यै त्वविरतमबलो  रोदिति शिशुः ।
सर्वे पृष्टा रमण्यायि वद किमिह दृष्टो मम पतिः
कस्मै देवाय भूयान्मम नमनमिदानीं वद सखे ॥
--- 

Monday, December 16, 2019

कृष्ण!

कृष्ण!


उपयासि तमसि राधां रजसा लिप्तश्च चरसि गोपालः ।
पुलिनेषु पङ्किलस्त्वं तथापि सत्त्वगुणपूर्णः किम् ॥
----