Sunday, June 25, 2017

Sanskrit Blog: Aarye

आर्ये

आर्ये छन्दोविज्ञाः निरूपयन्ति तव लक्षणं सुभगे ।
एवं यत्कविवर्याः सुकरमनुसरन्ति विश्रब्धाः ॥ १ ॥
मात्राश्चत्वारोऽत्र गणे तादृक्सप्त सन्ति पूर्वार्धे ।
अन्ते गुरुश्च विषमो न भवति जगणस्तु षष्ठो जः ॥ २ ॥
अथवा सर्वलघुः प्रथमलघोः पश्चाद्यतिर्नियमितश्च ।
सप्तमगणो यदा सर्वलघुः यतिरेव षष्ठान्ते ॥३ ॥
अपरार्धेऽपि हि सप्तगणाः षष्ठो भवति लघुरिति नियमश्च ।
तुर्यान्ते हि यतिः पञ्चमे तु सकललघुकृते सति ॥ ४ ॥
आर्ये नियमैरेतैर्बद्धाऽपि कविवरकौशलबलात्त्वम् ।
कमनीया भासि सुमधुरपदैस्समुचित सरसभावैः ॥ ५ ॥
भासभवभूत्यमरुकालिदासगोवर्धनादिकविसृष्टैः ।
नाहं कविर्नविपश्चिदपि चापल्येन प्रचोदितः ॥ ६ ॥
त्वां शिथिलितनियमामेवं मम सौकर्यमेव समीक्ष्य ।
निरूपयामि क्षमस्व तव सुषमा ह्रासमविन्दत् किम् ॥ ७ ॥
पूर्वार्धे सप्तगणाः सन्ति चतुर्मात्राः गुरुरन्ते ।
उत्तरस्मिन् भवति षष्ठगणस्य स्थाने लघुरेकलः ॥ ८ ॥
सर्वे पञ्चविकल्पाः सर्वत्र यथामतिप्रयोज्याश्च ।
द्वादशमात्रान्ते यतिरवश्य उभयार्धयोरत्र ॥ ९ ॥
इत्थं शिथिलितनियमां त्वां रचयाम्यत्र कथय तव रूपम् ।
विदुषां भोग्यं न भवति किं मयि रुष्टा भवसि वद माम् ॥ १० ॥
----

Saturday, February 4, 2017

Sanskrit blog: Ramblings of Thimmu, the dull-headed

मूढतिम्मोः जल्पनम्

श्रान्तं धरायां हि ससुखं स्वपन्तं त्व-
मुत्तिष्ठ विचिनु शय्यामिति वदसि किम्? ।
तृप्तिं न नाशयेदुपकृतिभ्रान्त्या तु

दुष्करं ह्युपकृतिर्मूढतिम्मो ॥ ८७३ ॥
Rough translation of the following Kannada verse [ಡಿವೀಜೀ ಯವರ ಮಂಕುತಿಮ್ಮನ ಕಗ್ಗ-ಪದ್ಯ ಸಂ.೮೭೩]
ಬಳಲಿ ನೆಲದಲಿ ಮಲಗಿ ಮೈಮರೆತು ನಿದ್ರಿಪನ
ಕುಲುಕಿ ಹಾಸಿಗೆಯನರಸೆನುವುದುಪಕೃತಿಯೆ ?
ಒಳಿತನೆಸಗುವೆನೆಂದು ನೆಮ್ಮದಿಯ ನುಂಗದಿರು
ಸುಲಭವಲ್ಲೊಳಿತೆಸಗೆ ಮಂಕುತಿಮ್ಮ || ೮೭೩ ||
- - - -

Sunday, January 22, 2017

Sanskrot blog: Chandrika ( A Fairy tale)-73

चन्द्रिका-७३
  एकाकिनी नु कथमेषि विहाय पुत्र्यौ
मा गा इह क्षपय कालमिति ब्रुवन्तीम्।        
पुत्रीमुमामवदतीप्सितनिर्णयां माम्
  रुन्धे न कोऽपि शमथं भज मा शुचस्त्वम् ॥ २५९ ॥
श्रुत्वा स्पष्टं गिरिवदचलं निश्चयं तं कलायाः
तस्या अङ्कं प्रति निरगमत् चन्द्रिकाङ्कात् बिडालः ।
एकाकिन्यै सहचरसुखं रक्षणं च प्रदातुं
      तिर्यक्जन्तुः स्वऋजुचरितैः दर्शयेत् तत्त्वमार्गम् ॥ २६० ॥
  मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं
  भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती ।
  राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे
  भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान् ॥ २६१ ॥

चन्द्रिकाख्यं खण्डकाव्यं सम्पूर्णम्
     - - - - 

Saturday, January 14, 2017

Sanskrit blog: Chandrika (A Fairy tale)-72

चन्द्रिका-७२
 सप्रश्रयं स्वजननीं प्रणिपत्य पुत्र्यौ
बाष्पावरुद्धवचसागदतां विनम्रे ।
अद्यप्रभृत्यपगतं तव कृच्छ्रजातम्
अस्मद्गृहे गतभया सुखमास्व मातः ॥ २५६ ॥
माता विहस्य जनसंसदि सानुतापं
लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ ।
तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा  
नास्तीह कार्यमधुना मम जागृताहम् ॥ २५७ ॥
वाराणसीं जिगमिषामि ममात्मशान्त्यै
पायात् हरिः पुरजनान् सकलांश्च युष्मान् ।
यस्यांघ्रियुग्ममनिशं मनुजाः स्मरन्तः
विन्दन्ति शाश्वतसुखं तमहं श्रयामि ॥ २५८ ॥
- - - -

                                

Sunday, January 8, 2017

Sanskrit blog: Chandrika ( A Fairy tale )-71

चन्द्रिका-७१

नात्राभवत् परिणतः न युवा न बालः
योऽन्नप्रदानमनुभूय न तृप्तिमाप |
नैवाभवच्च युवतिः स्थविरा कुमारी
योपायनं न परिगृह्य विवेद तुष्टिम् ॥ २५३ ॥

राजस्नुषाभिमतमेतदिति ब्रुवाणैः
तत्तत्पशूचितनवीनसुसिद्धखाद्यैः ।    
सम्प्रीणिताः नगरगोव्रजपक्षिवृन्दाः
मार्जालकुक्करगणाः धरणीशभृत्यैः ॥ २५४ ॥

बध्वौ स्वभर्तृसहितेऽमितभोगभाग्ये
पादार्चनाय जननीमभिजग्मतुस्ते ।
दुःखं सुखं च युगपत् ह्यनुभूय माता         

वर्षातपाहतधरेव बभौ विमूढा ॥ २५५ ॥
- - - - 

Saturday, December 31, 2016

Sanskrit blog : Chandrika (A Fairy tale)-70

चन्द्रिका-७०

राज्ञ्यासह स्वप्रकृतीः स्वयमेव राजा
सप्रश्रयं ह्यससभाजत राजसौधे ।
चन्द्रः नभस्युडुगणान् दयितान् ससन्ध्यः
सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५० ॥

कन्याद्वयी परिणये धनिकैश्च दीनैः
औद्वाहिकैर्बहुविधैरभिवर्षिताभूत् ।
आशीर्भिरीप्सितफलप्रदवेदवाक्यैः
नोपायनं खलु सुखाय यथा सदाशीः ॥ २५१ ॥

सन्तर्पयन्ति सकलान् स्म नरेशसूदाः
चोष्यैश्च लेह्यलवणैः वरभक्ष्यभोज्यैः ।             
पेयद्रवैः मधुरचर्वणयोग्यपूगैः   
सत्कृत्य सादरममूल्यनवोपदाभिः ॥ २५२ ॥
- - - -

Saturday, December 24, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-69

चन्द्रिका-६९
उद्वाहसंभ्रमविधिं पथि घुष्यमाणां
श्रुत्वा भटैः निजसुखाय यदृच्छयैव ।
कर्माणि वृत्तिसहजानि विहाय पौराः
रथ्यास्वलङ्करणकर्मणि संप्रवृत्ताः ॥ २४६ ॥

कैश्चित्स्वसौधशिखरेषु च चत्वरेषु
संस्थापिताः गगनचुम्बिलसत्पताकाः ।
कुड्यानि सद्मनिकरस्य सुधावलेपैः
नूत्नश्रियंह्युदवहन् पुरि राजमार्गे ॥ २४७ ॥

रथ्याः सुगन्धिहिमशीतलवारिसेकैः
अम्लानपुष्पनिचयग्रथितार्द्रहारैः ।
कन्दर्पचित्रफलकैः निशि दीपवृक्षैः
कामप्यपूर्वसुषमामतुलामवापुः ॥ २४८ ॥
- - - -

Saturday, December 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-68

चन्द्रिका-६८

विकसितकुसुमे पपात भृङ्गः
नवमकरन्दपिपासितो हि दिष्ट्या।
रुचिकरमभवत्भिषक्प्रदत्तं
शिवदयया हितमातुरस्य पथ्यम् ॥ २४३ ॥

न किमपि ललना शशाक वक्तुं
विलसदपाङ्गदृशः भृशं किलोचुः ।
स्मितसहितपरस्परेक्षणैस्तत्-
तरुणयुगं निजसम्मतिं बभाषे ॥ २४४ ॥  
x x x
पौरान्न्यमज्जयतलौकिकहर्षसिन्धौ
पृथ्वीशपुत्रसुखदामलचन्द्रिकाभा ।
संश्रुत्य ते नृपपथेषु विवाहयुग्म-
वार्तां मिथो शुभकरीं बहुधा शशंसुः ॥ २४५ ॥
- - - -

Saturday, December 10, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-67

चन्द्रिका-६७ 

स्वसुतपरिणये निविष्टचित्तः
चतुरमतिस्सचिवस्तदा बभाषे ।
निरवधिकगुणो युवा सुरूपी
मम सुत एव भवेदुमोपयन्ता ॥ २४० ॥

अभजत हृदयं सुखं कलायाः
निजतनुजोपयमप्रकल्पनोत्थम् ।
विकचसुमरुचिं बभाज तन्व्याः
मुखमनिरीक्षितमङ्गलादुमायाः ॥ २४१ ॥

तदनु सपदि मन्दहासमूर्तिः
सचिवसुतः गिरिशाभिधः बभाषे ।
प्रियतमपदवीं दधीत रम्या
यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२ ॥ 
- - - -

Saturday, December 3, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-66

चन्द्रिका-६६

निजदयितसुतं प्रियासमेतं
प्रणतममोघशुभाशिषो वचोभिः ।
नरपतिरमितोत्सवोऽभ्यषिञ्चत्
किमिह सुखं जनकस्य पुत्रभूतेः ॥ २३७ ॥

सुतपरिणयमङ्गलार्थसिद्ध्यै
निजसचिवं च समादिदेश राजा ।
भवतु सकलवैधकार्यजातं
नगरजनस्य सुखार्थमित्यवोचत् ॥ २३८ ॥

समुचितसुजने विमातृपुत्रीं
घटयितुमैच्छतुमां च चन्द्रिका सा ।
सविनयमवदत्स्वरागपात्रं
यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९ ॥
- - - -