Saturday, October 15, 2016

Sanskrit blog:Chandrika (A Fairy tale)-59

चन्द्रिका-५९

लसदुज्ज्वलभूषणैर्विविक्तैः
विमलक्षौमपरिच्छदैश्च रामाः।
सुरयोषिदमोघमाययैव
क्षणमात्रेण विभूषिता बभूवुः ॥ २१८ ॥

पुरुहूतनियन्तृतुल्यसूतः 
दृढपुष्टाकृतयस्सितास्तुरङ्गाः ।
कनकोदकलिप्तशृङ्गयुक्तः
शतघण्टासहितः रथश्च सिद्धाः ॥ २१९ ॥ 
- - -

Saturday, October 8, 2016

Sanskrit blog: Chandrika (A Fairy tale)-58

चन्द्रिका-५८
नरपोचितवेशभूषणैर्मां
जननीं मे भगिनीं च सज्जितास्त्वम् ।
कुरु देवि रथं ससारथिं च
सृज याच्ञां शृणु चन्द्रिकेत्यवोचत्   ॥ २१६ ॥

सुकरः खलु पुत्रि ते नियोगः
कृतमित्येव मयात्र विद्धि भक्ते ।
इति यावदुवाच देवता स्त्री
सकलं सृष्टमभूत् हि तावदेव ॥ २१७ ॥ 
- - - -  

Saturday, October 1, 2016

Sanskrit blog: Chandrika (A Fairy tale)-57

चन्द्रिका-५७

शृणुत क्षितिपालयं व्रजामि
प्रसभं कामदुघां समर्च्य देवीम् ।
समयः प्रतिपाल्यतां भवद्भिः
इति सा प्रार्थयतागतान् विनम्रा ॥ २१३ ॥

प्रमदाऽतुलभक्तिभावपूर्णा
मुनिदत्तं प्रबलं जजाप मन्त्रम् ।
स्वतनुं प्रणिधाय नैजकक्षे
रहसि स्वस्थमनाः निमील्य नेत्रे ॥ २१४ ॥

सपदि स्मिततोयसिक्तवक्त्रा
विबुधस्त्री शुभमूर्तिराविरासीत् ।
तनये वद किं मयाद्य कार्यं
अनुकम्पा त्वयि मे सदेत्यवादीत् ॥ २१५ ॥
- - - -

Saturday, September 24, 2016

Sanskrit blog: Chandrika (A fairy tale)-56

चन्द्रिका-५६

स्मितमुखी दृढनिश्चयचोदिता
सपदि तां स्फुरदुज्ज्वलपादुकाम् ।
अधिरुरोह सलीलमलज्जिता
नृपभटोत्थमुदा सह चन्द्रिका ॥ २१० ॥
 x x x

अथ राजभटाः प्रफुल्लवक्त्रा:
विनयोपेतगिरा समाह्वयन्स्तां ।
शृणु देवि पुरेशपुत्रपत्नी
भवितासि त्वममोघभाग्यशक्त्या ॥ २११ ॥

परिधानमनाविलं वसाना
दृढमच्छिद्रमितो नृपालयं त्वम् ।
व्रज शीघ्रमुदेति भाग्यसूर्यः
नृपपुत्रास्यमिषेण तावकीनः ॥ २१२ ॥
- - - - 

Saturday, September 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-55

चन्द्रिका-५५

तदनु चन्द्रिकया स्वमनोरथः
स्खलितवाचि गदितः कलां प्रति ।
यदि यते परिधातुमुपानहं
सफलता खलु सिद्ध्यति भाति मे ॥ २०७ ॥

अयि कथं कृपणा मणिपादुकां
समधिरोढुमिमां त्वमिच्छसि ।
प्रथितसत्कुलजोचितभाजनं
भजति भृत्यजनस्य न लभ्यताम् ॥ २०८ ॥

इति वचो भणितं कलया यदा
नृपभटैः प्रसभं समुदीरितं ।
भवति नात्र मनागपि भिन्नता
भृतकवर्गजनोऽप्यनुमुद्यते ॥ २०९ ॥
- - - - 

Saturday, September 10, 2016

Sanskrit blog : Chandrika-54

चन्द्रिका-५४

नृपनिदेशधरैः हि तथैव सा
प्रकटिता नगरे मणिपादुका ।
युवतयोह्ययतन्त समुत्सुकाः
चरणमानमभूत्पृथु पादुकात् ॥ २०४ ॥

श्रुतवती नरपस्य सुनिश्चयं
नृपभटान् स्वगृहं समुपाहरत् ।
निजपदेन कला मणिपादुकाम्
समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥

 रमयितुं जननीमिव निश्चिता
 अयतताप्तुमशक्यमुमा वृथा ।
 क्व तनुगात्रवती मणिपादुका
 क्व पृथुलः चरणः जडयोषितः ॥ २०६ ॥
- - - - 

Saturday, September 3, 2016

Sanskrit blog: Chandrika (A Fairy tale)-53

चन्द्रिका-५३

व्यलपतित्थमवेक्ष्य स पादुकां 
कथमसि त्वमिहाद्य निशामुखे ।
सुमपदां स्खलितां च विसृज्य ताम्
उपवने पदपांसुभिरावृता ॥ १९९ ॥

कथय कुत्र गता मम हृत्प्रिया
कथय नाम कुलं च मम स्त्रियाः ।
कथमहो मम मानसनायिकां
पथि विहाय वने न विलज्जसे ॥ २०० ॥

इतरथा न भवेत्तव दर्शनं
मम गतिर्हि भवेदतिदुस्सहा ।
नियतिरेव गतस्य तु कारणं
लघयसि त्वमिमां मम वेदनाम् ॥ २०१ ॥

निजसुतं विलपन्तमनर्गलं
सपदि सान्त्वयितुं धरणीपतिः।
अवदतात्मज मा भव कातरः
प्रियतमामचिरात्परिणेष्यसे ॥ २०२ ॥   
- - - -       

Saturday, August 27, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-52

चन्द्रिका-५२

गृहमेत्य रथादवातरत्
वनिता यावदहो तिरोऽभवत् ।
सकलः रथवाजिसारथि-
प्रकरस्तावदतर्क्यमायया ॥ १९५ ॥

वसनं च दुकूलनिर्मितं
सहसा दासजनोचितं क्षणात् ।
अभवत् मणिरत्नभूषणा-
न्यगमन् मन्त्रहतान्यदृश्यताम् ॥ १९६ ॥

सुतया सह नर्तनाङ्गणात्
गृहमेत्य स्वनियोगतत्पराम् ।
अवलोक्य जहर्ष चन्द्रिकाम्
गतशङ्का स्वसुखोद्यता कला ॥ १९७ ॥
x x x
नृपसुते स्मरमार्गणदारिते
विलपति प्रिययैव विनाकृते ।
नृपभटाः त्वरया हि समानयन्
उपवनाधिगतां मणिपादुकाम् ॥ १९८ ॥
- - - -

Saturday, August 20, 2016

Sanskrit blog: Chanrika ( A Fairy tale)-51

चन्द्रिका-५१

अथ नर्तनहर्षसागरे
प्लवमाना सहसा ससाध्वसम् ।
घनगर्जितवत्भयावहं
व्यशृणोत्घोरनिशीथदुन्दुभिम् ॥ १९१ ॥

हरिणीव मृगेन्द्रगर्जन-
श्रवणार्ता झटिति प्रमुच्य सा ।
नृपपुत्रकरं भयद्रुता
तमनापृच्छ्य दधाव मण्डपात् ॥ १९२ ॥

अवितर्कितनिर्गमात् स्त्रियाः           
मतिशून्ये भवति त्रिविक्रमे ।
स्मृतवत्यथ देवतावचः
स्वरथं प्राद्रवदार्तभामिनी ॥ १९३ ॥

अगमद्वनिता यदा द्रुतं
व्यगलत् स्फाटिकवामपादुका ।
त्वरयाकुलमानसाबला 
न वराकी तदबुधत् रथोन्मुखा ॥ १९४ ॥
- - - -

Saturday, August 13, 2016

Sanskrit blog : Chandrika ( A Fairy tale)- 50

चन्द्रिका-५० 

प्रसभं विचकर्ष किं बलात्
अथवा तामवहत् भुजान्तरे ।
स्वयमेव गतानुसृत्य तं
क्षणमुग्धा न किमप्यवैत्तदा ॥ १८७ ॥

शशिरश्मिसुधाभिरञ्जिते
वरनृत्योचितभव्यकुट्टिमे ।
नृपपुत्रेण सहोत्सवप्रिया
सविलासं प्रणनर्त चन्द्रिका ॥ १८८ ॥

नृपपुत्रसुहृद्गणैः सह
प्रणनर्तुः प्रमदाः समुत्सुकाः ।
न हि कापि भवत्यतर्पिता
तरुणोत्साहमयं नृपाङ्गणम् ॥ १८९ ॥

किमुवाच मिथस्त्रिविक्रमः
किमभूतात्महृदुत्थमुत्तरम् ।
सुतरां न हि वेत्ति चन्द्रिका
क्षणिके स्वर्गसुखे परिप्लुता ॥ १९० ॥
- - - -