Saturday, August 6, 2016

Sanskrit blog: Chandrika ( A Fairy tale) -49

चन्द्रिका-४९

मम हस्तपरिग्रहक्रियाम्
अनुजानासि यदि प्रभावति ।
प्रणयार्णववीचिसंप्लवे
परिषिक्तं कुरुषे चिराय माम् ॥ १८३ ॥

इति राजकुमारभाषितं
श्रवणानन्दकरं निशम्य सा ।
कुरुते न मतिं करार्पणे
न निराकर्तुमनर्घयाचनाम् ॥ १८४ ॥

कदलीव मरुज्जवाहता
प्रचकम्पे सुभृशं कृशोदरी ।
अवलम्बनहेतुनेव तत्-
करमाशु प्रणयी स जग्रहे ॥ १८५ ॥

तरुणस्य कराग्रसङ्गमात्
पुलकस्वेदयुगेन बाधिता ।
तनुसंहननश्रिया प्रिया

भजते कामपि नव्यभोग्यताम् ॥ १८६ ॥
- - - - 

Saturday, July 30, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-48

चन्द्रिका-४८

नवयौवनशोभिनीः स्त्रियः
मणिरत्नाभरणैर्विभूषिताः ।
विचरन्तीः सविलासमुत्सुकाः
नृपपुत्रः प्रददर्श सर्वतः ॥ १७९ ॥

चपलामिव योषितां गणे
स्फुरदाह्लादकरूपशालिनीम् ।
दरहासविलासमोहिनीं
कमनीयां स ददर्श चन्द्रिकाम् ॥ १८० ॥

स्मरसायकलक्ष्यतां गतः
स शनैरायतलोचनोऽभ्यगात् ।
स्मयमानमुखः प्रसन्नधीः
अबलां वेपथुमूर्तमानिनीम् ॥ १८१ ॥

भयकारणमस्ति नात्र ते
ललने त्वत्सुहृदित्यवेहि माम् ।
मम मानसराज्ञि देहि मे
तव पाणिग्रहणे कृतार्थताम् ॥ १८२ ॥
- - - - 

Saturday, July 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-47

चन्द्रिका-४७

विटपाश्रितरम्यबर्हिणान्
क्वचिदुन्मत्तनदच्छिलीमुखान् |
क्वचिदायतशीतशाद्वलान्
क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥

क्वचिदुल्लसदातवीरुधः
फलभारानततुङ्गपादपान् ।
विविधाकृतिवर्णमोहकैः
कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥  

अवलोकयतोऽभितो मुदा
नृपपुत्रस्य हृदालयं द्रुतम् ।
मदनः प्रविवेश लीलया
ललनापाङ्गसुजिह्मवर्त्मना ॥ १७८ ॥   
- - - - 

Saturday, July 16, 2016

Sanskrit blog: Chandrika (A Fairy tale)-46

चन्द्रिका-४६

इति मातुरुदीरितेन सा
मनसि प्राप्तशमा कथञ्चन ।
स्वविधावभजत्स्पृहामुमा
युवतीनां सुपतिः वरेप्सितम् ॥ १७४ ॥

अथ राजसुते सुभूषिते
स्ववयस्यैः सह नन्दनोपमम् ।
कुसुमोपवनं समागते
जनघोषः गगनान्तमस्पृशत् ॥ १७५ ॥
- - - - 

Saturday, July 9, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-45

चन्द्रिका-४५

यदि मां वरयेन्नृपात्मजः
मम पूर्वार्जितपुण्यसञ्चयः ।
भविता यदि नो तथापि मे
रुचिरोद्यानवनाभिवीक्षणम् ॥ १७० ॥

इति मानसतर्कबोधिताः
परिणामे विगतस्पृहा मुदा ।
व्यचरन्सविलासमङ्गनाः
नरपालोपवने सुविस्मिताः ॥ १७१ ||

नरपोपवने कलामुमा
भवती पश्यति चन्द्रिकानिभां ।
किमु कामपि सुष्ठु भूषितां
विचरन्तीमिति विस्मिताब्रवीत् ॥ १७२ ॥

क्व भवेदिह दीनसेविका
दिनकार्येषु रता गृहे भवेत् ।
त्यज मोहमियं सुमध्यमा
नरपालस्य सुता हि कस्यचित् ॥ १७३ ॥
- - - -  

Saturday, July 2, 2016

Sanskrit blog: Chandrika (A Fairy tale) -44

चन्द्रिका-४४

यदा शनैः साचलदायतेक्षणा
नितम्बिनी मन्दगतिः नृपालयम् ।
तस्या अभिख्यामृतपानकाङ्क्षिणः
समागता राजपथस्य पार्श्वयोः ॥ १६७ ॥

तस्यां चरन्त्यां नृपपालिते वने
छायास्तरूणां सहसा तिरोहिताः ।
तस्याः रुचा सज्जनसन्निधेः खलु
प्रायेण धावन्ति भयार्तदुर्जनाः ॥ १६८ ॥  
 X X X

नृपपालितपुष्पवाटिकाम्
अगमन् पौरसुताः निशामुखे ।
अमरालयरोहणे रता
इव लक्ष्योन्नतिसंप्रचोदिताः ॥ १६९ ॥
- - - - 

Saturday, June 25, 2016

Sanskrit blog: Chandrika (A Fairy tale)-43

चन्द्रिका-४३

 वृथास्मदीयं सकलं प्रसाधनं
 विनापि तेनेयमुषेव दीपयेत् ।
 इति ब्रुवाणा ललना हतेप्सिताः
 न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४ ॥

रथे नृपावाससमीपमागते
बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।         
वहन् रथस्थां वनितां स्वदृष्टिभिः
राजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥

सौभाग्यवान्नूनमिमां मनोहरां
नृपस्य पुत्रो वरयेत् हरीच्छया ।
प्रजल्पतीत्थं बहुशो मिथो जने
रथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥
- - - - 

Saturday, June 18, 2016

Sanskrit blog: Chandrika (A Fairy tale)-42

चन्द्रिका-४२

दृष्टिप्रसूनैरनुरागसौरभैः
तामर्चमर्चं प्रथमानयौवनाः ।
स्थिताः ध्वजालङ्कृतराजपद्धतौ
न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१ ॥

कन्याः कुलीनाः गुणरूपशोभिताः
समानकामाः नृपपुत्रलोभने ।
म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां
कुशेशयानीव दिनात्यये भृशम् ॥ १६२ ॥

कस्यात्मजेयं नरपस्य सुन्दरी
कुतो रथोऽयं सुरयानसन्निभः ।
यदीक्षते राजसुतो मनागिमां
भवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३ ॥
- - - - 

Saturday, June 11, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-41

चन्द्रिका-४१

भूयाच्छुभं ते गमने मतिं कुरु
प्रसन्नवक्त्रा स्मितदीप्तपद्धतिः ।
इति ब्रुवन्ती दिवमुत्पपात ह
प्रसह्य देवी चपलेव भास्वरा ॥ १५८ ॥  

मार्जालमापृच्छ्य सखायमुत्सुका
रथान्तरे रत्नकुथास्तृते तले ।
निविश्य सूतम् विनयेन चन्द्रिका
दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९ ॥

रथ्यासु पौरा ललनां रथस्थिता-
मवेक्ष्य तारापथतः समागताम् ।
चन्द्रांशुमूर्तिं निशि विस्मयाकुलाः
तां निष्कलङ्कां नियतं हि मेनिरे ॥ १६० ॥
- - - - 

Saturday, June 4, 2016

Sanskrit blog: Chandrika (A fairy tale)-40

चन्द्रिका-४०
अलञ्चकारारुणवर्णचर्चिते
तस्याः पदे स्फाटिकपादुकाद्वयं
रम्यं घनीभूतशशिप्रभानिभम् ।
कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५ ॥

अयं दिवास्वप्न इति भ्रमे स्थितां
जगाद देवी स्मितपूर्वमादरात् ।
वत्से रथेऽस्मिन् व्रज राजमन्दिरं
तुरङ्गमैः सारथिना च सज्जिते ॥ १५६ ॥

परं तु मा विस्मर यामदुन्दुभिः
निशीथमाख्याति न यावदञ्जसा ।
तावन्निवर्तस्व गृहं नृपालयात्

नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७ ॥ 
- - - -