simple sanskrit
G S S Murthy's blog in Sanskrit
Friday, February 6, 2015
Sanskrit blog: An Ode to Scientific Spirit-9
विज्ञानसंस्कृतिः-९
लव्वासिएर्वर्यमाधुनिकरसशास्त्र-
जनक इति विख्यातमाम्लजनको येन
उत्पादितो स्वप्रयोगालये दीप्त-
जलजनकतो जलं भवतीति दर्शितम्
स्मरन्तो तं च तद्विज्ञानकर्माणि
तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ १० ॥
- - - -
Saturday, January 31, 2015
Sanskrit blog: An Ode to Scientific Spirit-8
विज्ञानसंस्कृतिः-८
जेम्स् वाट इति नाम यस्य प्रथितमस्ति
यो प्रयोगान् बहून् सूक्ष्मान्श्च निर्वर्त्य
तप्तबाष्पच्छन्नशक्तिचालितयन्त्र-
माविश्चकार यत् प्रोद्योगरङ्गस्य
परिवर्तने श्रेष्ठपात्राणि निरवहत्
तस्य वरसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ९ ॥
- - - -
Saturday, January 24, 2015
Sanskrit blog: An Ode to Scientific Spirit-7
विज्ञानसंस्कृतिः-७
हार्वे उपाह्वं विलियमं चिकित्सकम्
यो प्रयोगान् बहून् मनुजेषु निर्वर्त्य
रक्तचलनक्रियां हृदयस्य पात्रमपि
सम्यङ्न्यरूपयत् वैद्यशास्त्रप्रथन-
मूलकारणमभूत् तं कृतज्ञाः स्मरत
तस्येष्टसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ८ ॥
- - - -
Saturday, January 17, 2015
Sanskrit blog: An Ode to Scientific Spirit-6
विज्ञानसंस्कृतिः-६
को न जानाति तं मतिमतामग्रणीम्
न्यूटनं येन खलु चलननियमत्रयम्
सार्वलौकिकतत्त्वरूपेण वर्णितम्
येन सर्वद्रव्यगौरवाकर्षणम्
सम्पद्यते नियतमन्योन्यमित्युक्त-
मथ तस्य संस्कृतेस्ताडयत जयडिंडिमम् ॥ ७ ॥
- - - -
Saturday, January 10, 2015
Sanskrit blog: An Ode to Scientific Spirit-5
विज्ञानसंस्कृतिः-५
दूरदर्शकयन्त्रमवलोकयत तत्र
दृश्यते विश्वेऽस्मदल्पता सुविशदम्
सूक्ष्मदर्शकयन्त्रमस्मच्छरीरस्य
पृथुतां प्रदर्शयति शंसाम कुशलतां
एकाग्रचित्ततामेवंविधानि यैः
सृष्टानि तेषां च ताडयत जयडिंडिमम् ॥ ६ ॥
- - - -
Saturday, January 3, 2015
Sanskrit blog: An Ode to Scientific Spirit-4
विज्ञानसंस्कृतिः-४
योहान्न केप्लरः ब्राहेउपाह्वस्य
टैखोऽभिधेयस्य दीर्घकालात्तबहु
-मूल्यावलोकनानाधृत्य सुन्दरं
नियमत्रयं कथितवानहो भास्वरो
ग्रहाणामिनपरिक्रमणगतिमुद्दिश्य
विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ ५ ॥
- - - -
Saturday, December 27, 2014
Sanskrit blog: New Year Aspirations
नववर्षशुभाकाङ्क्षा
परधर्मसहिष्णुता जने नववर्षे सततं प्रवर्धताम् ।
निजधर्मविकासकर्मणि प्रभवेन्नान्यमतप्रदूषणम् ॥
जिघांसां परित्यज्य मैत्रीं श्रयामो
युयुत्सां परित्यज्य सन्धेर्विधानम् ।
मिथो प्रेम एवास्मदुच्छ्रायमार्गः
न चेत्सर्वतो हानिमाप्नोति लोकः ॥
- - - -
Saturday, December 20, 2014
Sanskrit blog: Humour-109
हास्यसीकरः-१०९
कस्मिंश्चित् ग्रामे कयोश्चन दम्पत्योः सुतरां प्रतीपौ बालौ आस्ताम् । प्रायेण ग्रामे यदि किमपि दुष्टकर्म सम्पद्यते चेत् तत् तयोः बालयोः एव कर्म इति प्रथितमभवत् । तयोः व्यथितौ पितरौ ग्रामस्य अचिरमागतस्य पूजकस्य समीपं गत्वा स्वबालयोः विषये समभाषेताम् । पूजकः बालयोः प्रतीपत्वशमने साहाय्यं ददामीति सनिश्चयमकथयत्, “अलं शोकेन । बालयोः एकैकं मिथः संभाषयिष्ये” इति । प्रथमं भ्रात्रोः कनीयान् पूजकं समुपयातः ।पूजकः गम्भीरस्वरेन तमवदत्, “पीठे उपविश” इति । बालः तथाकरोत् ।पूजकः पुनरवदत्, “ईश्वरः कुत्र? वद” बालः मौनमाश्रयत् । पूजकः पुनः उच्चैः अपृच्छत्’ “ईश्वरः कुत्र? शीघ्रं वद” । तदापि बालः न किमप्यवदत् । पूजकः उच्चैस्तरपृच्छत्, “ईश्वरः कुत्र?” । तदा भीतः बालः सहसा गृहमधावत् ।
अग्रजस्य कोष्ठं प्रविश्य द्वारं प्यदधाच्च । कोष्ठे स्थितः अग्रजः अपृच्छत्, “किमभवत्?” इति । बालः ससाध्वसमवदत्, “इदानीं महति कृच्छ्रे पतितौ आवाम् । प्रायेण ईश्वरः नष्टः । पूजकः आवामेव कारणमिति मन्यते खलु” इति ।
- - - -
Saturday, December 13, 2014
Sanskrit blog: An ode to scientific spirit-3
विज्ञानसंस्कृतिः-३
प्रक्रियामुपयुज्य गणितस्य समुचिते
प्रतिरूपसर्जने सरलतामवलम्ब्य
दृष्टतथ्यानां निरूपणे सक्षमाः
नूत्नतथ्याविष्करणनिपुणकल्पनाः
विरचयन् विज्ञानसंस्कृतिर्विजयते
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ ३ ॥
विश्वस्य तत्त्वमतिसरलं च सुन्दरम्
मन्यमानास्तस्य मार्गणे शेमुषीं
सततं प्रयुज्य ते सत्यसंशोधकाः
विज्ञानगतिपथे प्राचलन् रंहसा
नाशयन्तो मौढ्यजालानि सर्वथा
तत्संस्कृतेरेव ताडयत जयडिंडिमम् ॥ ४ ॥
- - - -
Saturday, December 6, 2014
Sanskrit blog: An ode to scientific spirit-2
विज्ञानसंस्कृतिः-२
किं ववौ मारुतो मन्थरं मृदुलं च
किं रवेरातपः प्रखरतां नाभजत्
किं पुष्पवृष्टिरभवन्नभोमण्डलात्
गलिलियो गलिलै यदा जनिमवाप्तवान्
यस्माद् हि विज्ञानसंस्कृतिः प्रारभत
तत्संस्कृतेरेव ताडयत जयडिण्डिमम् ॥ २ ॥
- - - -
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)