Friday, November 15, 2013

Sanskrit blog: A lyric of Rumi

रूमिरुवाच
मदुत्कटेच्छा  विहगस्य कूजितैः प्रशान्तिमाप्नोत्यहमप्यमेयम् ।
प्रहर्षमाप्नोमि विहंगवन्मन्-मुखेन गायेः किमपीश्वर त्वम् ॥
A rough rendering of
Birdsong brings relief
to my longing
I'm just as ecstatic as they are,
but with nothing to say!
Please universal soul, practice
some song or something through me! 

Jalal ad-Dīn Muhammad Rumi
- - - - 

Saturday, November 9, 2013

Sanskrit blog: Humour-85

हास्यसीकरः-८५
कदाचित्  न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् ।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, “भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?” इति । वृद्धः अवदत्, “का क्रीडा?”
न्यायवादी : प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं  न दास्यसि तदा मह्यं पञ्चाशत्‍रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं  प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?”

वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, “ चन्द्रः भूम्याः कियद्दूरे अस्ति?”। वृद्धः ,”न जाने” इति वदन् तस्मै पञ्चाशत्‍रूप्यकाणि  ददौ । वृद्धः न्यायवादिनमपृच्छत्, “ आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?” । न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पंचशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, “तव प्रश्नस्य उत्तरं किम्?” । वृद्धः, “न जाने” इति वदन् न्यायवादिने पञ्चाशत्‍रूप्यकाणि दत्त्वा सुखं सुष्वाप ।
- - - - 

Friday, November 1, 2013

Sanskrit blog: Dipavali Greetings

दीपोत्सवशुभाकाङ्क्षा
प्रज्वाल्यान्तः प्रदीपं सकलमतमनुष्या समा इत्यमोघम् ।
अन्धश्रद्धाभिजातं मतजनितमदं नाशयित्वान्धकारम् ।
पर्वानुष्ठानकार्ये प्रकृतिपरिसरादूषणं पोषयित्वा ।

दीपावल्याख्यपर्व प्रदिशतु सकलक्षेमसौभाग्यभूतिम् ।।
- - - - 

Saturday, October 26, 2013

Sanskrit blog: Humour-84

हास्यसीकरः-८४
श्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, “ बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति । तुष्टाः प्राश्निकाः तमवदन्, “भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्” इति ।
कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, “भोः, ब्रूहि, किं पृष्टम्?” । सः अवदत्, “प्रश्नाः गोप्याः । वक्तुं न शक्नोमि” इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, “प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि” इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत्। प्रगल्भः धर्मसिंहः तान्युत्तराणि कंठगतान्यकरोत् ।

यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, “ तव जन्म कदा अभवत्?” इति । सः प्रत्यवदत्,  कतिपयवर्षेभ्यः प्राक् प्रारब्धः  सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । उत्तरेण विस्मितः तमपृच्छत्, “ तव पितुर्नाम किम्?” इति । सः प्रत्यवदत्, ““ बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । रुष्टः प्राश्निकः अपृच्छत्, “ भ्रान्तः असि किम्?” इति । सः विनीतः प्रत्युवाच  
“ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति ।
- - - - 

Saturday, October 19, 2013

Sanskrit blog: Child's smile

शिशुस्मितम्
लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं मनोज्ञम् ॥

सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत्  केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ 
- - - - 

Saturday, October 12, 2013

Sanskrit blog: Humour-83

हास्यसीकरः-८३
मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् ।  विपणी तच्चौर्यं नापश्यत्  । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।
- - - -  

Friday, October 4, 2013

Sanskrit blog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच
ज्ञात्वा स्वबलमितिं  ज्ञात्वा स्व गुणगणम्
बाह्यस्थितिं चैव सूक्ष्मं विलोक्य ।
कार्यस्यपरिधिमनतिक्रम्य  कुर्यात्
धन्यः स धीरो हि मूढतिम्मो ॥

From DVG’s “Manku timmana kagga” in Kannada:
ತನ್ನ ಶಕ್ತಿಯನಳೆದು ತನ್ನ ಗುಣಗಳ ಬಗೆದು
ಸನ್ನಿವೇಶದ ಸೂಕ್ಷ್ಮವರಿತು, ಧೃತಿದಳೆದು
ತನ್ನ ಕರ್ತವ್ಯಪರಿಧಿಯ ಮೀರದುಜ್ಜುಗಿಸೆ

ಪುಣ್ಯಶಾಲಿಯ ಪಾಡು ಮಂಕುತಿಮ್ಮ || ೫೭೬ ||
- - - - 

Saturday, September 28, 2013

Sanskrit blog: Humour-82

हास्यसीकरः-८२
त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म ।
प्रथमः : अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
द्वितीयः : तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
तृतीयः : युवां कुतः कत्थेथे? शृणूतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः। तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं  सार्धचतुर्वादनसमय एव उपैति।
- - - - 

Saturday, September 21, 2013

Sanskrit blog: Reflexions on Voyager space ship

विश्वसांयात्रिकः
षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनं ।
विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥१॥
“यदा त्वं भुवि संजातः गुरुशुक्रग्रहेक्षणे ।
विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥२॥
युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।
विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥३॥
एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।
कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥४॥
मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।
त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥५॥
घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।
घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥६॥
शतात् द्वादशकोटीनां  मैलदूरात् किमुच्यते ।
त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद “॥७॥
“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।
तथापि किञ्चित् वचनं भवद्भिः श्राव्यं मम प्रश्रितमानसैरिदम् ॥८॥
स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।

भवद्भिरेवं रविमण्डलात्परम् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥९ ॥
- - - - 
मैलम्=Mile

Saturday, September 14, 2013

Sanskrit blog: Humour-81

हास्यसीकरः-८१
कस्मिंश्चित् ग्रामे कश्चन क्रिस्तमतावलम्बी असूनत्यजत् । तद्ग्रामस्य क्रिस्तपूजके व्याधिग्रस्ते गतासोः   शवसंस्कारार्थं निकटस्थग्रामादन्यस्मात् अन्यः क्रिस्तपूजकः आनीतः । शवसंस्कारात् प्राक् क्रिस्तपूजकः गतासुमुद्दिश्य सद्वचनानि वदेदिति क्रिस्तमतविधिः वर्तते । तं विधिमनुसृत्य क्रिस्तपूजकः अभाषत । “ भोः सर्वे बान्धवाः शृणुत । अयं गतासुः सज्जनशिरोमणिः,  सदाचारसम्पन्नः, सद्गुणवारिधिः, वदान्यः, स्मितपूर्वाभिभाषी,- - - “ । इत्थं गतासोः गुणगानं निरर्गलं कुर्वति पूजके, तस्य भाषणे प्रतिबन्धं कुर्वती गतासोः धर्मपत्नी उच्चैरवदत्, “भोः, किमिदम्? मम भर्तुरन्यस्य कस्यापि शवसंस्कारः क्रियमाणः इति भाति । यस्य गुणगानं क्रियमाणं स मम भर्ता न भवेत् “ इति ।
- - - -