Saturday, November 9, 2013

Sanskrit blog: Humour-85

हास्यसीकरः-८५
कदाचित्  न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् ।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, “भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?” इति । वृद्धः अवदत्, “का क्रीडा?”
न्यायवादी : प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं  न दास्यसि तदा मह्यं पञ्चाशत्‍रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं  प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?”

वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, “ चन्द्रः भूम्याः कियद्दूरे अस्ति?”। वृद्धः ,”न जाने” इति वदन् तस्मै पञ्चाशत्‍रूप्यकाणि  ददौ । वृद्धः न्यायवादिनमपृच्छत्, “ आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?” । न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पंचशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, “तव प्रश्नस्य उत्तरं किम्?” । वृद्धः, “न जाने” इति वदन् न्यायवादिने पञ्चाशत्‍रूप्यकाणि दत्त्वा सुखं सुष्वाप ।
- - - - 

Friday, November 1, 2013

Sanskrit blog: Dipavali Greetings

दीपोत्सवशुभाकाङ्क्षा
प्रज्वाल्यान्तः प्रदीपं सकलमतमनुष्या समा इत्यमोघम् ।
अन्धश्रद्धाभिजातं मतजनितमदं नाशयित्वान्धकारम् ।
पर्वानुष्ठानकार्ये प्रकृतिपरिसरादूषणं पोषयित्वा ।

दीपावल्याख्यपर्व प्रदिशतु सकलक्षेमसौभाग्यभूतिम् ।।
- - - - 

Saturday, October 26, 2013

Sanskrit blog: Humour-84

हास्यसीकरः-८४
कश्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, “ बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति । तुष्टाः प्राश्निकाः तमवदन्, “भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्” इति ।
कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, “भोः, ब्रूहि, किं पृष्टम्?” । सः अवदत्, “प्रश्नाः गोप्याः । वक्तुं न शक्नोमि” इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, “प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि” इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत्। प्रगल्भः धर्मसिंहः तान्युत्तराणि कंठगतान्यकरोत् ।

यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, “ तव जन्म कदा अभवत्?” इति । सः प्रत्यवदत्,  “कतिपयवर्षेभ्यः प्राक् प्रारब्धः  सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । उत्तरेण विस्मितः तमपृच्छत्, “ तव पितुर्नाम किम्?” इति । सः प्रत्यवदत्, ““ बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । रुष्टः प्राश्निकः अपृच्छत्, “ भ्रान्तः असि किम्?” इति । सः विनीतः प्रत्युवाच  
“ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति ।
- - - - 

Saturday, October 19, 2013

Sanskrit blog: Child's smile

शिशुस्मितम्
लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं मनोज्ञम् ॥

सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत्  केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ 
- - - - 

Saturday, October 12, 2013

Sanskrit blog: Humour-83

हास्यसीकरः-८३
मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् ।  विपणी तच्चौर्यं नापश्यत्  । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।
- - - -  

Friday, October 4, 2013

Sanskrit blog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच
ज्ञात्वा स्वबलमितिं  ज्ञात्वा स्व गुणगणम्
बाह्यस्थितिं चैव सूक्ष्मं विलोक्य ।
कार्यस्यपरिधिमनतिक्रम्य  कुर्यात्
धन्यः स धीरो हि मूढतिम्मो ॥

From DVG’s “Manku timmana kagga” in Kannada:
ತನ್ನ ಶಕ್ತಿಯನಳೆದು ತನ್ನ ಗುಣಗಳ ಬಗೆದು
ಸನ್ನಿವೇಶದ ಸೂಕ್ಷ್ಮವರಿತು, ಧೃತಿದಳೆದು
ತನ್ನ ಕರ್ತವ್ಯಪರಿಧಿಯ ಮೀರದುಜ್ಜುಗಿಸೆ

ಪುಣ್ಯಶಾಲಿಯ ಪಾಡು ಮಂಕುತಿಮ್ಮ || ೫೭೬ ||
- - - - 

Saturday, September 28, 2013

Sanskrit blog: Humour-82

हास्यसीकरः-८२
त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म ।
प्रथमः : अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
द्वितीयः : तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
तृतीयः : युवां कुतः कत्थेथे? शृणूतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः। तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं  सार्धचतुर्वादनसमय एव उपैति।
- - - - 

Saturday, September 21, 2013

Sanskrit blog: Reflexions on Voyager space ship

विश्वसांयात्रिकः
षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनं ।
विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥१॥
“यदा त्वं भुवि संजातः गुरुशुक्रग्रहेक्षणे ।
विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥२॥
युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।
विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥३॥
एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।
कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥४॥
मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।
त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥५॥
घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।
घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥६॥
शतात् द्वादशकोटीनां  मैलदूरात् किमुच्यते ।
त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद “॥७॥
“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।
तथापि किञ्चित् वचनं भवद्भिः श्राव्यं मम प्रश्रितमानसैरिदम् ॥८॥
स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।

भवद्भिरेवं रविमण्डलात्परम् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥९ ॥
- - - - 
मैलम्=Mile

Saturday, September 14, 2013

Sanskrit blog: Humour-81

हास्यसीकरः-८१
कस्मिंश्चित् ग्रामे कश्चन क्रिस्तमतावलम्बी असूनत्यजत् । तद्ग्रामस्य क्रिस्तपूजके व्याधिग्रस्ते गतासोः   शवसंस्कारार्थं निकटस्थग्रामादन्यस्मात् अन्यः क्रिस्तपूजकः आनीतः । शवसंस्कारात् प्राक् क्रिस्तपूजकः गतासुमुद्दिश्य सद्वचनानि वदेदिति क्रिस्तमतविधिः वर्तते । तं विधिमनुसृत्य क्रिस्तपूजकः अभाषत । “ भोः सर्वे बान्धवाः शृणुत । अयं गतासुः सज्जनशिरोमणिः,  सदाचारसम्पन्नः, सद्गुणवारिधिः, वदान्यः, स्मितपूर्वाभिभाषी,- - - “ । इत्थं गतासोः गुणगानं निरर्गलं कुर्वति पूजके, तस्य भाषणे प्रतिबन्धं कुर्वती गतासोः धर्मपत्नी उच्चैरवदत्, “भोः, किमिदम्? मम भर्तुरन्यस्य कस्यापि शवसंस्कारः क्रियमाणः इति भाति । यस्य गुणगानं क्रियमाणं स मम भर्ता न भवेत् “ इति ।
- - - -  

Saturday, September 7, 2013

Sanskrit blog: Parrot critic

छिद्रान्वेशी
“कृतकशुकोऽयं दुनोति मम मनः सुभृशमत्र विनिवेशितः ।
कोऽस्य कर्ता हन्त स तु वेद्म्यहं कर्मण्यनभिज्ञः ।। १ ॥
कति कृता कृतका मया विहगा क्व सुभगता सहजा तेषाम् ।
क्वेदं वैरूप्यं भोः तूर्णमपसारयतेममितः ॥ २ ॥  
इदं कीरतुण्डं किं? को निगदति शुकस्य कण्ठ इतीमम् ।
शुकपक्षौ इत्थं किं? पादौ वक्रौ नखा निम्नाः” ॥ ३ ॥
इत्थं जल्पति सुचिरं कृतकखगकर्मविचक्षणे सहसा ।

तमभिभवन्निव कीरः गवाक्षाश्रित उदपतद्वै ।। ४ ॥
- - - -
[Inspired by a poem in English on a similar theme]