Saturday, August 3, 2013

Sanskrit blog: Humour-78

हास्यसीकरः-७८
पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, “तात, अहं जलं पिपासामि । मह्यं  जलपूर्णं चषकमानय “ इति । पिता उच्चैः प्रतिवदति, “वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि” इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, “तात, मह्यं पिपासा बाधते । द्रुतं जलमानय “ इति । क्रुद्धः पिता उच्चैः प्रतिवदति, “ पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि “ इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, “तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः” इति ।
- - - - 

Saturday, July 27, 2013

Sanskrit blog: Picture in the purse

वित्तस्यूते चित्रम्
वित्तस्यूते जनकजननीचित्रमादौ निधाय
पश्चात्पत्न्याः तरुणवयसि न्यस्तमह्नाय चित्रम् ।
प्राप्ते मध्ये वयसि तदनु स्थापितं पुत्रिकायाः
वार्धक्ये वै अहह निहितं बालगोपालमूर्तेः । 
- - - - 

Saturday, July 20, 2013

Sanskrit blog: Humour-77

हास्यसीकरः-७७
कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, “भोः, चिन्ताक्रान्तः असि इति मे भाति। किमापन्नम्?” इति ।
 ” किं वदानि ? श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि “  ।
मित्रं प्रत्यवदत्, “ भण, परुत् त्वया किं दत्तम्?”
“ मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् “ 
मित्रम् उच्चैः हसति वदति च ,“त्वया महार्घम् उपायनमेव दत्तम्  । ऐषमः त्वया तस्यै किमपि न देयं खलु।”
” कथमित्थं वदसि?”
“श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् , “जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि ” इति । तदा त्वं स्मितवदनः इत्थं  वदेः, “ मातः, मया परुत्  दत्त्तमुपायनं त्वया
अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि” इति”। 
- - - - 

Saturday, July 13, 2013

Sanskrit blog: An Oscar Wilde's epigram

आस्कर वैल्ड उवाच
यत्र यत्र विचरन्ति केचन तत्र तत्र सुखमेव तन्वते ।

यान्ति केचन जना यदा यदा वर्धते उपशमस्तदा तदा ॥
"Some cause happiness wherever they go; others, whenever they go." - Oscar
Wilde

Saturday, July 6, 2013

Sanskrit blog: Humour-76

हास्यसीकरः-७६
कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारेभे, “मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्” इति । ईश्वरः तस्याः रोदनं शृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, “ सा सूची मम न भवति” इति ।तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, “सा सूची मम न भवति” इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, “ सा सूची एव मम” इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा संतुष्टा सा ईश्वरं संस्तुत्य गृहं गता ।

अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, “परमेश्वर, मम पतिं देहि” इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य “किमयं तव भर्ता” इत्यपृच्छत् । सा अवदत्, “बाढं स एव मम भर्ता” इति। तदा कुपितः ईश्वरः तामपृच्छत्, “कथमिदानीम् असत्यं वदसि?” इति । “प्रभो! श्रुणुश्व, यद्यहं, “अयं मम पतिर्नभवति” इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व “ इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् ।      
- - - - 

Saturday, June 29, 2013

Sanskrit blog: Who are you?

                                                   कस्त्वम्?
न त्वं सोहं मन्यसे यं त्वमेव
न त्वं सोऽसौ मन्यते यः परैश्च ।
ज्ञातोऽस्मीत्थं वै परैरित्यवैषि
नासि त्वं भोः केवलं श्रीशवेद्यः ।
You are not what you think you are. You are not what others think you are. You are not what you think others think you are. You are only known to God.
-- - - -

Saturday, June 22, 2013

Sanskrit blog: Humour-75

हास्यसीकरः-७५

कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्? इति । तेषु एकः प्रत्यवदत्, अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते इति । पूजकः गंभीरध्वनिना अवदत्, बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम् इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु इति ।
- - - - 

Saturday, June 15, 2013

A wise saying

सुभाषितम्


स्व एव कुर्यात् स्वं कार्यं बहुभृत्योऽपि वित्तवान् ।
भक्षणे मैथुने शौचे नियुङ्क्तेऽन्यं न कश्चन ॥
- - - - 

Saturday, June 8, 2013

Sanskrit blog: Humour-74

हास्यसीकरः-७४

कुतः रोदसि, वत्स? माता अपृच्छत् । बालकः प्रत्यवदत्, अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य  अङ्गुली व्रणिता । अत एव," इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्, किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत् , इति । बालकः उच्चैः रुदन् अवदत्, अम्ब! मया हसितमेव, इति ।
- - - - 

Saturday, June 1, 2013

Sanskrit blog: Thus spake Timmu the dull-headed.



मूढतिम्मुरुवाच

जीवन् क्षणात्क्षणं वासराद्वासरम्
क्षपयन् हि सर्वदा शुनकवत् जीवनम्
मनसि लघुतां वहन् योगसाधनमेव
अनुसर तदेव भोः मूढतिम्मो ॥ ७६७ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ|
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||

- - - -