Saturday, December 1, 2012

Sanskrit blog: Humour-61

हास्यसीकरः-६१
भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि?
भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्राणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन तानि सुगमानि भासन्ते ।
भार्या: अहो मम अद्भुतशक्तिः ।
भर्ता: (नीचस्वरेण) बाढम्, तव चित्रं पश्यन् चिन्तयामि, “ अस्याः कठिनतरा बाधा कास्ति?” इति । 

- - - -

Saturday, November 24, 2012

Sanskrit blog: Mahatma Gandhi and his sandal



महात्मा गान्धिः तस्य उपानच्च
महात्मा गान्धिः कदाचन रेल्-याने प्रयाति स्म । रेल्-प्रकोष्ठस्य द्वारि तिष्ठन् बहिः प्रकृतिसौन्दर्यमनुभवन् आसीत् । सपदि तस्य उपानदेका पादात् निरगलत् रेलयानात् अपततच्च । गान्धिवर्यः झटिति अन्यामुपानहं च पादात् विमोच्य बहिः प्राक्षिपत् । तस्य सहचरः तमपृच्छत्, “आर्य, कुतस्त्वया अन्या उपानदपि बहिः प्रक्षिप्ता?” । गान्धिवर्यः विहस्य अवदत्, “ एकया उपानहा मम किं कार्यम्? यदि कश्चन बहिः उपानहौ पश्यति, तस्मै ते उपयुक्ते भवेताम् “ इति । 
- - - - 

Saturday, November 17, 2012

Sanskrit blog: Humour-60

हास्यसीकरः-६०
विमानसंस्थया बहुवारं विमाने प्रयाणं कुर्वतां उद्योगिप्रमुखानां प्रोत्साहनार्थं नव्यः शुल्कपत्रवितरणक्रमः अनुष्ठितः । सः यथा:- उद्योगिप्रमुखस्य शुल्कपत्रेण सह तस्य पत्न्यै निःशुल्कं शुल्कपत्रं दत्तम् । उत्सुकाः उद्योगिप्रमुखाः सर्वे नूतनवितरणयोजनामनुसृत्य स्त्रीभ्यः सह प्रयाणमकुर्वन् । प्रयाणानन्तरं विमानसंस्था उद्योगिप्रमुखानां पत्नीभ्यः पत्रमेकमलिखत्, “मान्ये, भवत्याः विमानयानं सुखकरमासीदिति आशंसामहे। कृपया भवत्याः प्रयाणमुद्दिश्य अस्मभ्यं किञ्चित् भवती लिखतु” इति । सर्वैः पत्नीभिः उत्तराणि प्रेषितानि । सर्वेषु उत्तरपत्रेषु इदमेव लिखितं “किम् प्रयाणम्?” ।
- - - - 

Tuesday, November 13, 2012

Sanskrit blog: Festival of lights-2

दीपोत्सवः-२

आस्फोटयन् स्फोटकरान् सलीलम्
सशब्दधूमाग्निषु मोदमानाः |
पोगण्डसंघा जनयन्ति भीतिम्
वृद्धेषु बालासु तथार्भकेषु ॥ ७ ॥

कन्या रताः सुन्दररङ्गवल्ली-
-निरूपणे दैवतमन्दिरेषु ।
रथ्यासु गेहेषु चतुष्पथेषु
प्रदर्शयन्त्यः स्वकलासु कौशलम् ॥ ८ ॥


रजोप्रमृष्टाः चिरदीपपादपाः
भजन्ति नूत्नां विरजस्स्फुरत्प्रभाम् ।
गृहाग्रदेशे नवदीपशृङ्खलाः
नक्षत्रशोभाः निशि संप्रदीपिताः ॥ ९ ॥

कान्तां नवोढां रमणः प्रसादयन्
उपायनैराभरणैर्दुकूलैः ।
मिथो रतेच्छां मदनेषुविद्धः
दृष्ट्यैव तस्यै प्रकटीकरोति ॥ १० ॥

लक्ष्मीं समस्तद्रविणप्रदात्रीम्
तस्याः कटाक्षं हृदि याचमानाः ।
भजन्ति भक्त्यापणिका विपण्याम्
श्रेयस्करी सैव सदा जनानाम् ॥ ११ ॥

नव्यं दुकूलं च विभूषणं च
भर्त्रा प्रदत्तं परिधाय साध्वी ।
स्वाद्यानि भक्ष्याणि विधातुकामा
महानसे कार्यरताऽऽप्रदोषम् ॥ १२ ॥

विद्युत्प्रदीपावलिदीप्तसौधाः
मुष्णन्ति कान्तिं खलु देवपुर्याः ।
सर्वत्र लोको मुदितः प्रहृष्टः
दीपावलीपर्वणि संप्रवृत्ते ॥ १३ ॥
- - - - 
 

Sunday, November 11, 2012

Sanskrit blog: Festival of lights-1



दीपोत्सवः
प्रावृट् प्रयाता शिशिरो न चागतः
वृक्षा हरित्पर्णमया वनान्ते ।
रोमाञ्चितोर्वी नवशाद्वलावृता
प्रतीक्षते द्राक् शरदः समागमम् ॥ १ ॥

नद्यो भृशं पङ्किलवालुकायुता
चलन्ति पद्यासु दृढं कृषीवलाः ।
श्यामप्रभाशोभितकाननानि
दीपोत्सवे संप्रति संप्रवृत्ते ॥ २ ॥

दृष्ट्वा प्रपूर्णां सरसीं जलेन
कृषीवलो नन्दति फुल्लनेत्रः ।
तटाकवीचीषु विधाय सौधान्
मनोहरान् दैवदयां प्रशंसन् ॥ ३ ॥

मन्दानिलप्रेङ्खितसस्यमञ्जरीः
संवीक्ष्य बालार्कमयूखहासे ।
मुदा मनो नृत्यति कर्षकस्य
मृत्स्नां करौ संस्पृशतो सुदीर्घम् ॥ ४ ॥

संखाद्य शादं गवि सन्निवृत्ते
श्रुत्वा स्वमातुः कलकण्ठनादम् ।
वत्सो द्रुतं कृन्तति रज्जुबन्धम्
अम्बां सहर्षं त्वरयाभ्युपैति ॥ ५॥

तं स्फीतनेत्रं प्रसभं  निरोद्धुम्
मूढा मुधा धावति यष्टिहस्ता ।
व्यर्थप्रयत्ना खलु घोषकन्या ।
स स्तन्यपाने नितरां प्रवृत्तः ॥ ६ ॥
(अनुवर्तते)
- -- -


Saturday, November 3, 2012

Sanskrit blog: Humour-59

हास्यसीकरः-५९
क्रैस्तप्रार्थनामन्दिरे रविवासरे प्रार्थनानन्तरं मन्दिरस्य धारणार्थं धनसंग्रहणं कुर्वन्ति । तदा विपर्यस्तशिरस्त्राणमेकं एकस्य हस्तात् अन्यस्य हस्तं प्रतिपादयन्ति । सर्वे यथाशक्ति धनं शिरस्त्राणे निवेशयन्ति ।
एकस्मिन् प्रार्थनामन्दिरे प्रार्थनानन्तरमर्चकः शिरस्त्राणं धनसंग्रहणाय भक्तवृन्दे निहितवान् ।  त्रयः कृपणाः वयस्याः धनदाने अनिच्छवः एकत्र तत्र आसन् । यदा शिरस्त्राणमपश्यन्, तदा तेष्वेकः मूर्छितवत् सहसा ध्ररायामपतत्, अन्यौ द्वौ पतितं तं वहन्तौ द्रुतं मन्दिरात् बहिः अगच्छताम् ।
- - - - 

Saturday, October 27, 2012

Sanskrit blog: A witty saying

सुभाषितम्
कोऽपि न हि पाठयत्युद्गिरणमग्न्यगम्
न च कूलनाशनं वारिधितरङ्गम् ।
न तु वृक्षभञ्जनं वात्यां युवानम्
गेहिनीवरणं च सहजापदस्तानि ॥

A rough rendering of the following witty remark:
Nobody teaches Volcanoes to erupt,
Tsunamis to devastate,
Hurricanes to sway around
& no one teaches How to choose a Wife,
NATURAL DISASTERS JUST HAPPEN..
- - - - 

Saturday, October 20, 2012

Sanskrit blog: Humour-58

हास्यसीकरः-५८
पृच्छकः कोट्यधीश्वरं पृच्छति, “आर्य, तव कोट्यधीश्वरत्वस्य किम् कारणम्?”
कोट्यधीश्वरः, “ मम धर्मपत्नी एव कारणम्”
पृच्छकः: “ तव धर्मपत्नी वनितामणिः खलु  । तव विवाहात् पूर्वं त्वं किमभवः?”
कोट्यधीश्वरः, “अहं दशकोट्यधीश्वरः अभवम्” ।
- - - - 

Saturday, October 13, 2012

Talking frog



वचनशीलः मण्डूकः
वृद्धः धीवरः कश्चित् स्वप्लवे उपविश्य मत्स्यान् गृह्णाति स्म । तदा वाणीं शुश्राव, “माम् उद्धर” इति । परितः दृष्टिं प्रससार, परं तु कमपि नापश्यत् । स्वप्ने पश्यामि किमित्यचिन्तयत् । पुनः सा वाणी एव, “माम् उद्धर” इति । तदा जले प्लवमानं मण्डूकमेकमपश्यत् । “कच्चित् त्वं मां वदसि?” इत्यपृच्छत् धीवरः । “बाढम्, अहं त्वां वदामि” इत्यवदत् मण्डूकः । “मामुद्धृत्य मां चुम्ब । तदा अहं सुन्दरी कन्या भविष्यामि । तव पत्नी भविष्यामि । तव मित्राणि सुन्दरीसहितं त्वां सासूयं द्रक्ष्यन्ति” इति । वृद्धधीवरः क्षणकालं विचिन्त्य तं मण्डूकम् उद्धृत्य स्वकञ्चुककोषे न्यक्षिपत् । मण्डूकः अवदत्, “मूर्ख, त्वं मां नाश्रौषीः? मां चुम्ब, तव सुन्दरी भार्या भविष्यामि “ इति । वृद्धधीवरः विहस्य प्रत्यवदत्, “मम वयसि वचनशीलः मण्डूक एव वरम्” इति ।
- - - - 

Saturday, October 6, 2012

Sanskrit blog: Humour-57

हास्यसीकरः-५७
कश्चित् पुरुषः तमनुसृत्य भषतः शुनकात् भीतः धावति । शुनकस्तु भषन् तमभिधावति ।
अन्य एकः तं पुरुषं वदति, “रे, कुतः भषतः शुनकात् भीतः धावसि? न जानासि किम् यत् भषनशीलः शुनकः न दशति, दशनशीलः शुनकः न भषतीति?” इति ।
पुरुषः प्रत्यवदत् “अहं ध्रुवं जानामि । परं तु अयं शुनकः तमाभाणकं जानाति वा न वा इति संशयग्रस्तः धावामि” इति । 
- - - -