Friday, March 23, 2012

Sanskrit blog: Humour-44

हास्यसीकरः-४४
कस्मिन्श्चिद्ग्रामे “प्रह्लादचरित्रम्”नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः   प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, “बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्?” इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, “निस्संशयम्, तात” इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थलेदक्षिणस्तम्भं दर्शयन्, “ बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्”” इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, “तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति” इति वदन् वामस्तम्भमदर्शयत् ।
- - - - 

Friday, March 16, 2012

Sanskrit blog: "Where the mind is without fear"

मम ब्लाग्-रचनायाः प्रथमवर्षः अद्य समाप्तः । अस्मिन्नवसरे गुरुदेवस्य रबीन्द्रनाथ ठाकुरस्य प्रथितगीतस्य यस्य प्रथमपङ्क्तिः आङ्ग्लभाषायां “Where the mind is without fear” इति वर्तते तस्य संस्कृतच्छायानुवादं सहर्षं प्रस्तौमि ।

शीर्षं यत्रास्त्यनवनमितं यत्र चित्तं त्वभीतम् ।
ज्ञानं मुक्तं  न जगदखिलं क्षुद्रभित्तिप्रभिन्नम् ।
वाणी यत्र प्रवहति हृदस्सत्यगर्भात् सदैव ।
आनैपुण्यं प्रभवति सदा यत्र कार्यप्रवृत्तिः।।

नीचाचाराभिधमरुतले सद्विवेकस्य धारा
नष्टा नैवाविरतविकसत्भावनाकार्यशीलम्
चेतो यत्र त्वदमितदयया भास्वरे तत्र नाके
स्वातन्त्र्याख्ये कुरु जनक हे जागृतं भारतं मे ।।
अन्वयः : यत्र शीर्षं अनवनमितम् अस्ति, यत्र चित्तं तु अभीतम्, (यत्र) ज्ञानं मुक्तम्, जगत् अखिलं क्षुद्रभित्तिप्रभिन्नं न, यत्र वाणी सदा एव सत्यगर्भात् हृदः प्रवहति, यत्र कार्यप्रवृत्तिः सदा आ-नैपुण्यं प्रभवति, (यत्र) सद्विवेकस्य धारा नीच-आचार-अभिध-मरुतले न नष्टा एव, यत्र चेतः त्वत्-अमित-दयया अविरत-विकसत्-भावना-कार्य-शीलम्, तत्र स्वातन्त्र्याख्ये भास्वरे नाके हे जनक मे भारतं जाग्रतं कुरु ।

English text
Where the mind is without fear and the head is held high;
Where knowledge is free;
Where the world has not been broken up into fragments by narrow domestic walls;
Where words come out from the depth of truth;
Where tireless striving stretches its arms towards perfection;
Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;
Where the mind is led forward by thee into ever-widening thought and action --
Into that heaven of freedom, my Father, let my country awake.[1]
Bengali Text
চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শির,
জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর
আপন প্রাঙ্গণতলে দিবসশর্বরী
বসুধারে রাখে নাই খণ্ড ক্ষুদ্র করি,
যেথা বাক্য হৃদয়ের উত্‍‌সমুখ হতে
উচ্ছ্বসিয়া উঠে, যেথা নির্বারিত স্রোতে
দেশে দেশে দিশে দিশে কর্মধারা ধায়
অজস্র সহস্রবিধ চরিতার্থতায়,
যেথা তুচ্ছ আচারের মরুবালুরাশি
বিচারের স্রোতঃপথ ফেলে নাই গ্রাসি---
পৌরুষেরে করে নি শতধা, নিত্য যেথা
তুমি সর্ব কর্ম চিন্তা আনন্দের নেতা,
নিজ হস্তে নির্দয় আঘাত করি, পিতঃ,
ভারতেরে সেই স্বর্গে করো জাগরিত॥
- - - -

Saturday, March 10, 2012

Sanskrit blog: Love's Philosophy


अनुरागतत्त्वम्
स्रोतांसि नद्या सह संगतानि
नदी समेता खलु सागरेण ।
श्लिष्यन्ति वाता गगने परस्परम्
चिराय युक्ता कमनीयरागैः ॥

एकाकिनो केऽत्र भवन्ति लोके
प्रायेण सर्वेऽपि मिथो मिलन्ति ।
सैवेश्वरेच्छा यदि सत्यमेतत्
त्वया सहाहं न कथं मिलेयम् ॥ 

चुम्बन्ति शैला गगनं तरंगाः
अन्योन्यमालिङ्ग्य जले भ्रमन्ति ।
पुष्पं न किंचित् सहते ह्यवज्ञाम्
यद्यन्यपुष्पेण तिरस्कृतं चेत् ॥


श्लिष्टा धरा सूर्यकरैः सुगाढम्
पाथोनिधिं चुम्बति चन्द्ररश्मिः ।
व्यर्थानि तान्यत्र हि चुम्बनानि
न चुम्बसि त्वं यदि मामिदानीम् ॥ 

A rough rendering of PB Shelley’s
Love’s Philosophy

The fountains mingle with the river,
And the rivers with the ocean;
The winds of heaven mix forever,
With a sweet emotion;
Nothing in the world is single;
All things by a law divine
In one another's being mingle;--
Why not I with thine?
See! the mountains kiss high heaven,
And the waves clasp one another;
No sister flower would be forgiven,
If it disdained it's brother;
And the sunlight clasps the earth,
And the moonbeams kiss the sea;--
What are all these kissings worth,
If thou kiss not me?
- - - - 

Monday, March 5, 2012

Sanskrit blog: Humour-43

हास्यसीकरः-४३
शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम्
 उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, “भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, “ मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति” इति। शुश्रूषिका प्रत्यवदत्, “भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु?” इति । ब्रह्मदत्तः प्रत्यवदत्, “भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु!” इति । 
- - - -

Monday, February 27, 2012

Sanskrit blog: Global Village

जगद्ग्रामः
यदि जगत् शतनराध्युषितः ग्रामः अभविष्यत् तदा तत्र सप्तपञ्चाशत् एष्या महाद्वीपवासिनः एकविंशतिः यूरोप् महाद्वीपवासिनः चतुर्दश पाश्चात्यार्धगोलवासिनः अष्ट आफ़्रिकामहाद्वीपवासिनः अभविष्यन् । तत्र द्विपञ्चाशत् स्त्रियः अष्टचत्वारिंशत् पुरुषाः च भवेयुः । सप्तत्यश्वेतवर्णीयाः त्रिंशत् श्वेतवर्णीयाः च भवेयुः । केवलं षण्णराः जगतः श्रियः शते एकोनषष्ट्यंशस्य प्रभवः भवेयुः । ते सर्वे अमेरिकावासिनश्च । हन्त, अशीतिनराः उचितगृहहीनाः सप्ततिनराः अनक्षराः पञ्चाशन्नराः अपुष्टाश्च। 
- - - - 

Tuesday, February 21, 2012

Sanskrit blog: Humour- 42

हास्यसीकरः- ४२
देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।
“देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि“। देवसिंहः, “यथाज्ञापयत्यार्यः” इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, “आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः” । अधीक्षकः विहस्य अवदत्, “मया सह किं देवनम्? कः पणः?” । देवसिंहः झटित्यवदत्, “आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?” । चकितः अधीक्षकः अवदत्, “किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति“ । देवसिंहः प्रत्यवदत्, “ आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् ।“ अधीक्षकः मनस्येव अचिन्तयत्, “मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं बद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति” ।  “देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?” इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, “ हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि” इति । 
- - - -    


Wednesday, February 15, 2012

Sanskrit blog: Thus spake Shakespeare

षेक्स् पियर उवाच
जगद् हि रङ्गः पुरुषास्तु नर्तकाः स्त्रियोऽभिनेत्र्यो प्रभवन्ति पश्यत ।
निर्यान्ति केचित् प्रविशन्ति केचिदेको विधत्ते किल नैकपात्रताम् ॥

A rough rendering of the following:
All the world's a stage,
And all the men and women merely players,
They have their exits and entrances,
And one man in his time plays many parts.
- - - - 

Thursday, February 9, 2012

Sanskrit Blog: Humour-41

हास्यसीकरः-४१
तस्मिन् दिवसे वृद्धदंपत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दंपती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, “भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् ।“ पत्नी प्रथमं वरमयाचत, “प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि” इति । ईश्वरः प्रत्यवदत्, “तथास्तु, पत्युराशा तु का” इति । झटिति चपलचित्तः पतिरवदत्, “प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि” इति । “तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः” इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु ।
- - - -

Sunday, February 5, 2012

Sanskrit blog: A lyric of Rumi


रूमिरुवाच
मम चेतस्तव प्रेम्णा शरीराद्गगनं गतम्
त्वयाहमुद्धृतो द्वाभ्यां जगद्भ्यामभवं प्रभो ।
समागते तवादित्ये द्रुतम् मद्वर्षसीकरैः ।
उन्नयेत् वारिधरवत् मच्चेतस्तव तिग्मता ॥
A rough rendering of:
Your love lifts my soul from the body to the sky
And you lift me up out of the two worlds.
I want your sun to reach my raindrops,
So your heat can raise my soul upward like a cloud.
Jalal ad-Dīn Muhammad Rumi
- - - - 

Wednesday, February 1, 2012

Sanskrit blog: Humour-40

हास्यसीकरः-४०
कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परंतु चोराः पक्वानि गोडुम्बानि (water melons) चोरयन्ति स्म । चोरान् निरोद्धुं सः दारुफलके “ सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते” इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परंतु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, “ सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः” इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् । 
- - - -