Friday, January 13, 2012

Sanskrit blog: Solitary Reaper

एकाकिनी लवननिरता


पश्य पार्वतबालिका किमपि मधुरं गायति ।
असौ तत्रैकाकिनी क्षेत्रलवने व्यापृता ॥
गच्छ वा विरमस्व बध्नाति लूनान् लीलया ।
स्वनति सैका शोकदां मधुरगीतिं कामपि ॥
गायनेनाप्लाविताकर्णय त्वमुपत्यका ।
कोऽप्यकूजत् स्वागतं कोकिलो न कदाचन ॥
क्लान्तपान्थगणाय सुश्राव्यगीतिमियत्प्रियाम् ।
पुष्पकाले सान्द्रवननिःशब्दतां खलु भेदयन् ।।
कोऽपि कच्चिन्मां वदेत् सा नु किं वा गायति? ।
किमपि करुणं प्राक्तनं समरचरितं कथयति? ।।
किमुत काञ्चिल्लौकिकीं शोकघटनामभिनवाम्? ।
किमपि गानं तद्भवेत् गायतीव निरन्तरम् ।।
लवननिरता बालिका नमितवदना भाति मे ।
गीतमस्या मे चिरं स्मरणपटले विलसति ।।


इदं नूतनं वृत्तं सुलयचरणानाम यस्य लक्षणः इत्थं भवति ।

सुलयचरणा व्याहृता प्राक्त्रिमात्रागणयुता ।

चतुर्मात्रास्तत्परं चतुष्पञ्च त्वन्तिमे

(३-४-५/४)
The above is a rough rendering of the well known poem, "Solitary Reaper" by Wordsworth. 
- - - -


Sunday, January 8, 2012

Sanskrit blog: Humour-38

हास्यसीकरः-३८
अमेरिकादागतौ दम्पती अरब्-देशे प्रयातः स्म । तत्र कश्चन अरब्-देशस्थः तौ दृष्ट्वा भर्तारमवदत्, भोः, उष्ट्राणां शतं तुभ्यं दास्यामि । त्वं तव स्त्रियं मह्यं देहि इति । चिरेण विचिन्त्य भर्ता तमवदत् , मम स्त्रियं न दास्यामि । सा विक्रयाय न भवति इति । कुपिता भार्या भर्तारमवदत्, कुतस्त्वं तद्वक्तुं चिरेण विचिन्तयसि? इति । भर्ता प्रत्यवदत्, इतः अमेरिकामुष्ट्राणां शतं कथं नेष्यामि इत्यचिन्तयम् इति । 
- - - -

Wednesday, January 4, 2012

Sanskrit blog: A story about Einstein

ऐन्श्टैनकथा
प्रथितभौतविज्ञानी अल्बेर्ट् ऐन्श्टैनः कदाचित् रेल्-याने प्रयाति स्म। प्रयाणपत्रकपरीक्षकः तत्सकाशमागत्य तं प्रयाणपत्रकं दर्शयितुं प्रार्थयत् । ऐन्श्टैनः स्वपरिधानकोषेषु पत्रकममार्गयत् । कुत्रापि तन्न दृष्टम् । तदा परीक्षकः ऐन्श्टैनमभिज्ञाय, अलम् श्रमेण । अहं जाने भवान् पत्रकं निस्संशयं क्रीतवानिति इत्यवदत् । तथापि ऐन्श्टैनः पीठस्य अधः अपि पत्रकमार्गणे निरतः अभवत् । परीक्षकः पुनरपि तमवदत्, आर्य, भवान् श्रमात् विरमतु । पत्रकं विना भवान् प्रयाणं निर्वाहयतु इति । ऐन्श्टैनः तमवदत्, भोः, पत्रके अवरोहणस्थानं निर्दिष्टं खलु ।  अहं विस्मरामि कुत्र गन्तास्मीति इति ।
- - - - 

Saturday, December 31, 2011

New Year Wishes

नववर्षाशंसा
आशास्महे नूतनहायनागमे भद्राणि पश्यन्तु जनाः सुशान्ताः ।
निरामयाः क्षोभविवर्जितास्सदा मुदा रमन्तां भगवत्कृपाश्रयाः ॥
- - - -

Tuesday, December 27, 2011

Sanskrit blog: To the poet


कवेऽवगच्छ
विज्ञानभूतं जगतः सुकाब्यं व्यनाशयत् नीरससत्यमार्गणे ।
हृदो महत्त्वं खलु नष्टमास्ते जिज्ञासयेति त्यज गाढशङ्काम् ॥
कवेऽवगच्छ द्विगुणीकृता वै हृदो प्रतिष्ठा भुवि तेन सम्यक् ।
ब्रह्माण्डकोष्ठे उडुवृन्दपुञ्जाः भवन्त्यनेके बृहतश्च तेषु ॥
आकाशगङ्गा त्वणुरेव तस्मात् परं त्वणीयान् खलु सौरवृन्दः ।
तत्रास्ति पृथ्वीत्वणुका च तस्यामणिष्ठभूतः खलु मर्त्यजन्तुः ॥
विज्ञानमेतत् मनुजस्य गाढपराक्रमद्योतकमेव विद्धि ।
    स्वाणिष्ठभावे प्रतताभिमानवत्‍हृदो महत्त्वस्य जयध्वजश्च ॥
इयं कविता बहुदशकानां प्राक् प्रकाशितायाः मम कन्नडकवितायाः छाया ।

ಹೆದರದಿರು ಕಬ್ಬಿಗನೆ
ಹೆದರದಿರು ಕಬ್ಬಿಗನೆ ಹೆದರಿ ಹೊರಗೆಡಹದಿರು
ನಿನ್ನ ಮನದಂಜಿಕೆಯ. ವಿಶ್ವದೀ ಕಾವ್ಯವನು
ಪೈಶಾಚವಿಜ್ಞಾನ ಹಾಳಿಸಿತು ಎನ್ನದಿರು.
ಜಡತಥ್ಯಗಳನರಸಿ, ಹೃದಯದಾ ಹಿರಿಮೆಯನು
ಜಿಜ್ಞಾಸೆಯಿಂದಳಿಸಿದರು ಎನ್ನದಿರು. ನರನ
ಹೃದಯದೌನ್ನತ್ಯವನ್ನಿಮ್ಮಡಿಸಿರುವುದನರಿ.
ಅಂಕೆಯಂಕೆಯ ಮೀರ್ದ ನೀಹಾರಿಕಾಗಡಣ
ಗಳವೆಷ್ಟೊ ಈ ವಿಶ್ವದವಕಾಶದಲ್ಲಿ. ಬರಿ
-ಕಣವು-ತೋಲನಮಾಡೆ- ನಮ್ಮ ಬೃಹದಾಕಾಶ
-ಗಂಗೆ ತಾನ್; ಆ ಕಣಕೆ ಕಣವು ಸೌರವ್ಯೂಹ;
ಅದರೊಳಿಹುದೀ ಪೃಥ್ವಿ. ನರಹೃದಯದಾ ಭಾಸ
ಈ ಬೃಹತ್ಪೃಥ್ವಿಯೊಳು! ನರನ ಹಿರಿದಹ ಸಾಹ
-ಸವೆ ಆದ ಈ ಅರಿವು ತನ್ನಿರವ ಕಿರಿತನಕೆ
ಹೆಮ್ಮೆಪಡುತಿಹ ಹೃದಯದೌನ್ನತ್ಯದ ಪತಾಕೆ !
- - - - 

Thursday, December 22, 2011

Sanskrit blog: Humour-37

हास्यसीकरः-३७
वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु इति। द्वितीयः अवदत्, तव वैद्यस्य विषये किं भणसि? इति । प्रथमः प्रत्यवदत्, यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि इति ।
- - - - 

Sunday, December 18, 2011

Sanskrit blog: Thus spake Confucius

कन्प्यूशियस उवाच
तवाग्रदृष्टिर्यदि वर्षसीमिता निधेहि शालिं दशवर्षसीमिता
निधेहि वृक्षान् यदि सा शताब्दिप्रान्ता सखेऽध्यापय बालकान् ध्रुवम् ॥

"If your plan is for one year, plant rice;
If your plan is for ten years, plant trees;
If your plan is for hundred years, educate children."
-Confucius

Sunday, December 11, 2011

Sanskrit blog: Humour (36)

हास्यसीकरः ३६
काचन ललना विपणिवीथ्यां गच्छन्ती विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन्ती तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, भवति, कुरूपासु प्रथमा खलु भवती इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, भवति, कुरूपासु प्रथमा खलु भवती इति । परेद्युः यदा सा स्वोद्योगाय गच्छन्ती तं शुकमपश्यत्, स शुकः पुनरुवाच, भवति, कुरूपासु प्रथमा खलु भवती इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि इति। सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, आर्ये इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्,ततः किम् । सः शुकः सगर्वमभणत्, मम कथनेन किम्? भवती वेत्ति खलु इति ।
- - - - 

Tuesday, December 6, 2011

Sanskrit blog: A prayer

प्रार्थना
इयं हि प्रार्थना भूयात् प्रत्यहं मे कृपानिधे ।
यादृशं सुखमस्त्यद्य श्वोऽस्तु मे तादृशं प्रभो ॥
Lord, Ocean of Mercy, grant me that this be my daily prayer that tomorrow be as sweet as today.
- - - - 

Saturday, December 3, 2011

Sanskrit blog: Humour (35)

हास्यसीकरः ३५
भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् ।
भार्या: किं कुरुषे?
भर्ता: मक्षिकाहनने उद्यतोऽहम् ।
भार्या: सफलः अभूः कच्चित् ?
भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः ।
भार्या: स्त्रीपुरुषविवेकः कथमभूत्?
भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ ।

- - - -