गूगलगीता
“कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्र” “गूगलं
शरणं व्रज” ॥ १ ॥
“अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि” “गूगलं
शरणं व्रज” ॥ २॥
“भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं” “गूगलं
शरणं व्रज” ॥ ३ ॥
“चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का” “गूगलं
शरणं व्रज” ॥ ४ ॥
“कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छानि” “गूगलं
शरणं व्रज” ॥ ५ ॥
“विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम्
।
तत्र पश्याम किं मित्र” “गूगलं
शरणं व्रज” ॥ ६ ॥
“कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।
समानार्थपदं किं स्यात्” “गूगलं
शरणं व्रज” ॥ ७ ॥
“चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं” “गूगलं
शरणं व्रज” ॥ ८ ॥
“शालायां सहपाठी मे कुत्राद्येति कुतूहलम्” ।
“देशकालततायामं गूगलं शरणं व्रज” ॥ ९ ॥
“चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः गूगलं शरणं व्रज” ॥ १०
॥
“विमानरेल्-यानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्र” “गूगलं
शरणं व्रज” ॥ ११ ॥
“कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता” “गूगलं
शरणं व्रज” ॥ १२ ॥
“नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च” “गूगलं
शरणं व्रज” ॥ १३ ॥
“तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा” ।
“सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज” ॥ १४
॥
“आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज” ॥ १५
॥
- - - -